सामोदपुष्पभ्रमरे कोकिलालिपरिच्छदा । तत्राहम् अगमं नाथ त्रैलोक्यललनासदः
ततो दृष्टा मया सर्वा वयस्या मदनोत्सवे । अपुत्रया पुत्रयुतास् तेनाहं दुःखिता भृशम्
त्वयि सर्वार्थिसार्थस्य बृहत्कल्पतरौ स्थिते । अनाथेव कथं नाथ किल शोच्यास्म्य् अपुत्रिका
देहि मे भगवन् पुत्रं नो चेद् देहम् इहाग्नये । प्रकरोम्य् आहुतिं पुत्रदुःखदाहोपशान्तये
ताम् इत्य् उक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः । प्राह हस्तगतं पुष्पं तस्यै दत्त्वा दयान्वितः
गच्छ तन्वङ्गि मासेन पूजार्हम् अलिलोचनम् । प्रसोष्यसे सुतं कान्तं प्रसूनम् इव सल्लता
किं त्व् असौ मरणावेशपापिन्येतस् त्वया यतः । याचितः कृच्छ्रसम्प्राप्यज्ञानस् तेन भविष्यति
इत्य् उक्त्वा स मुनिस् तन्वीं प्रसन्नमुखमण्डलाम् । परिचर्यां करोमीति प्रार्थनोत्कां व्यसर्जयत्
सा जगामात्मसदनं सो ऽतिष्ठत् स्वात्मना सह । अवहत् क्रमशः काल ऋतुसंवत्सराङ्कितः
अथ दीर्घेण कालेन सैवोत्पलविलोचना । द्वादशाब्दम् उपादाय सुतं मुनिम् उपाययौ
सम्प्रणम्योपविश्याग्रे मुनिम् इन्दुसमानना । उवाच कलया वाचा चूतद्रुमम् इवालिनी
अयं स भगवन् भव्यः कुमारः पुत्र आवयोः । कृतो मया समग्राणां कलानां किल कोविदः
प्रभो केवलम् एतेन ज्ञानं नाधिगतं शुभम् । येन संसारयन्त्रे ऽस्मिन् न पुनः परिपीड्यते
ज्ञानं त्वम् एवास्य विभो कृपयोपदिशाधुना । को हि नाम कुले जातं पुत्रं मौर्ख्ये नियोजयेत्
एवंवदन्तीं स मुनिर् मच्छिष्यम् अबले सुतम् । इहैव स्थापयैनं त्वम् इत्य् उक्त्वा तां व्यसर्जयत्
तस्यां गतायां स पितुर् अन्तेवासितया तदा । अतिष्ठत् संयतो धीमान् अर्कस्येवारुणः पुरः
कदर्थप्राप्यविज्ञानं ततश् चित्राभिर् उक्तिभिः । चिरं कालम् असौ तत्र मुनिः पुत्रं व्यबोधयत्
आख्यायिकाख्यानशतैर् दृष्टान्तैर् दृष्टकल्पितैः । तथेतिहासवृत्तान्तैर् वेदवेदान्तनिश्चयैः
अनुद्वेगितया नित्यं विस्तरेण कथाक्रमैः । अनुभूतिम् उपारूढै रूढैर् अतिधियां धियि
अनुभववशतो रसातिरिक्तैर् अलम् उचितार्थवचोगणैर् महात्मा । जलद इव शिखण्डिनं पुरस्स्थं तनयम् अबोधयद् अम्बरे महर्षिः
कदाचिद् अथ मार्गेण तेन कैलासवाहिनीम् । अहं स्नातुम् अदृश्यात्मा व्योमवीथिगतो ऽगमम्
निर्गत्य नभसस् सप्तमुनिमण्डलकोटरात् । रात्रौ प्राप्तो ऽस्मि सुमते दाशूरतरुपृष्ठखम्
यावच् छृणोमि विटपकुहरात् कानने वचः । कुट्मलाम्भोजबद्धस्य षट्पदस्येव निस्स्वनम्
शृणु पुत्र महाबुद्धे वस्तुनो ऽस्य समाम् इमाम् । वर्णयामि महाश्चर्याम् एकाम् आख्यायिकां तव
अस्ति राजा महावीर्यो विख्यातो भुवनत्रये । नाम्ना स्वोत्थ इति श्रीमाञ् जगदाक्रमणे क्षमः
यस्यानुशासनं सर्वे भुवनेष्व् अपि नायकाः । शिरोभिर् धारयन्त्य् उच्चैश् चूडामणिम् इवोत्तमम्
यस् साहसैकरसिको नानाश्चर्यविहारवान् । केनचित् त्रिषु लोकेषु न महात्मा वशीकृतः
यस्यारम्भसहस्राणि सुखदुःखप्रदान्य् अलम् । सङ्ख्यातुं नैव शक्यन्ते कल्लोला जलधेर् इव
यस्य वीर्यं सुवीर्यस्य न शस्त्रास्त्रैर् न पावकैः । केनचिद् भुवने क्रान्तम् आकाशम् इव मुष्टिना
यदीयां विततारम्भां लीलां निर्माणभासुराम् । न मनाग् अनुकुर्वन्ति शक्रोपेन्द्रहरा अपि