कचत्कुसुमगुच्छाच्छफणामणिगणावृतम् । पातालाद् उत्थितं शेषम् इव व्योमदिदृक्षया
रजसोद्धूलिताकारं द्वितीयम् इव शङ्करम् । छायया फलशालिन्या समस्तमुनिशङ्करम्
निबिडदलनिबद्धभित्तिभागैः कुसुमलतानवमण्डपैर् उपेतम् । पुरम् इव गगने कदम्बवृक्षं खगकुलनागरसङ्कटं ददर्श
तम् अथासौ महाबुद्धिः फलपल्लवशालिनम् । आनन्दमन्थरमनाः पुष्परूपाचलोपमम्
कदम्बं रोदसीस्तम्भम् आरुरोह वनस्थितम् । एकार्णवगतं शौरिः कल्पवृक्षम् इवोन्नतम्
तत्रासौ व्योमलग्नायाश् शाखायाः प्रान्तपल्लवे । विवेशाधिगताकाशम् ऐडूकप्रान्तबुद्धवत्
अथोपविश्य मृदुनि नवपल्लवविष्टरे । क्षणम् आलोकितास् तेन दिशः कौतुकमन्थरम्
सरिदेकावलीरम्याश् शैलेन्द्रस्तनकुट्मलाः । निर्मलाकाशकवरा लोलनीलाम्बुदालकाः
नीलशाद्वलवसनाः पुष्पगौरवनाङ्गिकाः । गृहीतसागरापूर्णकलशाः पुरभूषणाः
धृतप्रफुल्लपद्मिन्यस् सुगन्धिमुखमारुताः । ग्रामघुङ्घुमकाकल्यो निर्झरारवनूपुराः
द्युमूर्धानो महीपादा वनालीरोमराजयः । जङ्गलोरुनितम्बिन्यश् चन्द्रार्ककृतकुण्डलाः
शालिसञ्चारकेदारचन्दनस्थासकाङ्किताः । शिखरोरसिजालग्नहिमशुभ्राम्बुदांशुकाः
महार्णवपयःपूरनवमण्डनदर्पणाः । वृक्षौघघर्मपुलका भुवनान्तःपुरान्तराः
आर्तवस्नानधारिण्यो लग्नसूर्यांशुकुङ्कुमाः । विचित्रकुसुमोपेताश् चन्द्रांशुसितचन्दनाः
गगनतललतादलोपविष्टः प्रसृतवनावलिवारिवाहवेषाः । त्रिभुवनवनिता ददर्श हृष्टः कुसुमनिरन्तरमण्डिता दशाशाः
ततः प्रभृति तत्रासौ प्रसिद्धस् तापसाश्रमे । कदम्बदाशूर इति शूरस् तपसि दारुणे
तस्मिंल् लतादले स्थित्वा विलोक्य ककुभः क्षणम् । दृढं पद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना
अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता । फलकार्पण्ययुक्तेन मनसा सो ऽकरोन् मखम्
नभोगतलतापत्त्रसंस्थितेन वनान्तरे । सर्वास् स्वमनसा तेन कृता यज्ञक्रियाः क्रमात्
तत्रासौ दश वर्षाणि मनसैवायजत् सुरान् । गवाश्वनरमेधाद्यैर् यज्ञैर् विपुलदक्षिणैः
कालेनामलतां याते वितते तस्य चेतसि । बलाद् अवततारान्तर् ज्ञानम् आत्मप्रसादजम्
ततो विशीर्णावरणो विगलद्वासनामलः । अवसत् पल्लवे तस्मिन् मुनिर् विगतकल्मषः
स ददर्शैकदा तस्यां लतायाम् अग्रतस् स्थिताम् । वनदेवीं विशालाक्षीम् आलोलकुसुमाम्बराम्
कामिनीकान्तवदनां मदघूर्णितलोचनाम् । नीलोत्पलामोदवतीम् अतीव सुमनोहराम्
ताम् उवाचानवद्याङ्गीं स मुनिर् विनताननाम् । कोकिलः कुसुमापूरनतां वनलताम् इव
का त्वम् उत्पलपत्त्राक्षि परिविक्षोभितस्मरा । वयस्याम् इव पुष्पाढ्यां लतां किम् अधितिष्ठसि
इत्य् उक्ता मृगशावाक्षी गौरी पीनपयोधरा । मुनिम् आह मनोहारि मुग्धाक्षरम् इदं वचः
यानि यानि दुरापानि वाञ्छितानि महीतले । प्राप्यन्ते तानि तान्य् आशु महताम् एव याच्ञया
अहम् अस्मिंल् लताकीर्णे त्वत्कदम्बाभ्यलङ्कृते । लतालीलालया ब्रह्मन् विपिने वनदेवता
ह्यश् चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे । बभूव वनदेवीनां समाजो नन्दने वने