क्षणम् ऐश्वर्यम् आयाति क्षणम् एति दरिद्रता । क्षणं विगतरोगत्वं क्षणम् आगतरोगता
प्रतिक्षणं विपर्यासदायिना महतामुना । जगद्भ्रमेण के नाम धीमन्तो ऽपि न मोहिताः
तमःपङ्कसमालब्धं क्षणम् आकाशमण्डलम् । क्षणं कनकनिष्ष्यन्दकोमलालोकसुन्दरम्
क्षणं जलदनीलाब्जमालावलितकोटरम् । क्षणम् उड्डामररवं क्षणं मूकम् अवस्थितम्
क्षणं ताराविलसितं क्षणम् अर्केण भूषितम् । क्षणम् इन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम्
आगमापायपरया स्थित्या संस्थितनाशया । न बिभेतीह संसारे धीरो ऽपि क इवानया
आपदः क्षणम् आयान्ति क्षणम् आयान्ति सम्पदः । क्षणं जन्माथ मरणं मुने किम् इव न क्षणम्
प्राग् आसीद् अन्य एवेह जातस् त्व् अन्येतरो दिनैः । अप्य् एकरूपं भगवन् किञ्चिद् अस्ति न सुस्थितम्
घटस्य पटता दृष्टा पटस्यापि घटस्थितिः । न तद् अस्ति न यद् दृष्टं विपर्यस्यति संसृतिः
अशूरेण हतश् शूर एकेनापि शतं हतम् । प्राकृताः प्रभुतां यातास् सर्वम् आवर्तते जगत्
जनतेयं विपर्यासम् अजस्रम् अनुगच्छति । जडस्पन्दपरामर्शात् तरङ्गानाम् इवावली
बाल्यम् अद्य दिनैर् एव यौवनश्रीस् ततो जरा । देहे ऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु
क्षणम् आनन्दिताम् एति क्षणम् एति विषादिताम् । क्षणं सौम्यत्वम् आयाति सर्वस्मिन् नटवन् मनः
इतश् चान्यद् इतश् चान्यद् इतश् चान्यद् अयं विधिः । रचयन् वस्तु नायाति खेदं लीलास्व् इवार्भकः
चिनोत्य् उन्मादयत्य् अत्ति निहन्त्य् आहन्ति चात्मसात् । जगज्जातम् इदं धाता पातोत्पातशतैर् इह
क्षणेनान्यद् दिनेनान्यत् प्रातर् अन्यद् इतस् ततः । रचयन् वञ्चनादक्षो विधिर् दृष्टो न केनचित्
यद् अद्य तत् तु न प्रातर् यत् प्रातस् तत् तु नाद्य च । यद् अन्यदा तु तन् नाद्य सर्वम् आवर्ततेतराम्
सन्ततानीह दुःखानि सुखानि विरलानि च । सततं रात्र्यहानीव विवर्तन्ते नरं प्रति
आविर्भावतिरोभावभागिनो भवभाविनः । जनस्य स्थिरतां यान्ति नापदो न च सम्पदः
पदात् पदम् अयं पापस् सर्वम् आपदि पातयन् । हेलाविवलिताशेषः खलकाललवस् स्थितः
समविषमदशाविपाकभिन्नास् त्रिभुवनभूतपरम्पराफलौघाः । समयपवनपातिताः पतन्ति प्रतिदिनम् आततसंसृतिद्रुमेभ्यः
इति मेधोपदावाग्निदग्धे महति चेतसि । प्रस्फुरन्ति न भोगाशा मृगतृष्णास् सरस्स्व् इव
प्रत्यहं चातिकटुताम् एति संसारसंसृतिः । कालपाकवशोल्लासिरसा निम्बलता यथा
वृद्धिम् आयाति दौर्जन्यं सौजन्यं याति तानवम् । करञ्जकर्कशे राजन् प्रत्यहं जनचेतसि
भज्यते भुवि मर्यादा झगित्य् एव दिशं प्रति । शुष्केव माषशिमिका टाङ्कारकठिनारवम्
राज्येभ्यो भोगपूगेभ्यश् चिन्तावन्तो महीश्वराः । निरस्तचिन्ताकलिका वरम् एकान्तशीलता
नानन्दाय ममोद्यानं न सुखाय मम श्रियः । न हर्षाय ममार्थाशा शाम्यामि मनसा सह
अनित्यश् चासुखो लोकस् तृष्णा तात दुरुद्वहा । चापलोपहतं चेतः कथं यास्यामि निर्वृतिम्
नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् । यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम्
किं मे राज्येन किं भोगैः किम् अर्थेन किम् ईहितैः । अहङ्कारवशाद् एतत् स एव गलितो मम