सेन्द्रचापं विलोलेन कुसुमोत्कररेणुना । मञ्जरीपिञ्जरं श्यामं विद्युत्वन्तम् इवाम्बुदम्
सहस्रभुजशाखाढ्यं पूरिताकाशकोटरम् । विश्वरूपम् इवोन्नृत्तं चन्द्रार्ककृतकुण्डलम्
तले निषण्णनागेन्द्रं व्योम्नि तारागणाकुलम् । लतापुष्पमयं मध्ये भूमण्डलम् इवापरम्
पितामहम् इवाशेषशैलकाननशाखिनाम् । फलपल्लवपुष्पाणां कोशम् एकम् इवावनौ
दधानं कलिकाजालं स्थगितं पुष्पधूलिभिः । कच्छेष्व् अर्ककरच्छन्नताराजालम् इवाम्बरम्
विलोलविहगैस् स्कन्धैः कुलायकुलसङ्कुलैः । वलितं भूतलं लोललोकैर् जनपदैर् इव
मञ्जरीसुपताकाढ्यं लतामण्डपमण्डितम् । पुष्पमक्कोलधवलं पुष्पप्रकरपूरितम्
कूजच्चकोरचमरशुककोकिलशारिकम् । घनस्तबकसञ्छन्नकुहराग्रगवाक्षकम्
सञ्चरत्पक्षिजनतं मदमन्थरकोटरम् । सर्वासां वनदेवीनाम् अन्तःपुरम् इवोत्तमम्
ब्रुडद्भृङ्गतरङ्गौघैः पुष्पकेसरराशिभिः । राजमानं पतन्तीभिस् सरिद्भिर् इव पर्वतम्
भ्रमद्भिः पुष्पपत्त्रौघैर् मन्दवातविलासिभिः । वर्धमानैर् वृतस्कन्धं शुभ्राभ्रैर् इव भूधरम्
मातङ्गघटघृष्टेन जानुस्तम्भेन पीठिना । आभोगिना बद्धपदं तटेनेव महाचलम्
विचित्रवर्णपक्षाणां स्कन्धकोटरचारिणाम् । वृतं खगानां वृन्देन भूतानाम् इव शृङ्गिणम्
स्तबकाङ्गुलिजालेन लोलेनाभिनयक्रियाम् । दिशन्तम् इव वल्लीनां प्रनृत्तानां वनानिलैः
कश्चिद् एव निराशो मे नार्थी चापैति तुष्टितः । नृत्यन्तम् इव पुष्पाढ्यैर् लतावलयवल्गनैः
लताकान्तैककान्तत्वाच् छृङ्गाररसनिर्भरम् । काकल्येव प्रगायन्तं मत्तालिजननिस्स्वनैः
आराद् उन्मुक्तकुसुमं सिद्धानां व्योमचारिणाम् । स्वागतानीव कुर्वाणं कोकिलालिकुलारवैः
फलपुष्पलतोल्लासम् औन्नत्यं च महीरुहाम् । विहसन्तम् इवाच्छाभिः पुष्पकुट्मलदीप्तिभिः
पारिजातम् इवाजेतुम् ऊर्ध्वगैस् स्कन्धमण्डलैः । व्योमान्तर् अभिधावन्तम् अलम् उद्धुरकन्धरम्
मध्यभागस्फुरद्भृङ्गैस् स्तबकैर् घनपक्ष्मभिः । सहस्राक्षत्वम् अतुलैर् जेतुम् ऐन्द्रम् इवोद्यतम्
कचत्कुसुमगुच्छाच्छफणामणिगणावृतम् । पातालाद् उत्थितं शेषम् इव व्योमदिदृक्षया
रजसोद्धूलिताकारं द्वितीयम् इव शङ्करम् । छायया फलशालिन्या समस्तमुनिशङ्करम्
निबिडदलनिबद्धभित्तिभागैः कुसुमलतानवमण्डपैर् उपेतम् । पुरम् इव गगने कदम्बवृक्षं खगकुलनागरसङ्कटं ददर्श
तम् अथासौ महाबुद्धिः फलपल्लवशालिनम् । आनन्दमन्थरमनाः पुष्परूपाचलोपमम्
कदम्बं रोदसीस्तम्भम् आरुरोह वनस्थितम् । एकार्णवगतं शौरिः कल्पवृक्षम् इवोन्नतम्
तत्रासौ व्योमलग्नायाश् शाखायाः प्रान्तपल्लवे । विवेशाधिगताकाशम् ऐडूकप्रान्तबुद्धवत्
अथोपविश्य मृदुनि नवपल्लवविष्टरे । क्षणम् आलोकितास् तेन दिशः कौतुकमन्थरम्
सरिदेकावलीरम्याश् शैलेन्द्रस्तनकुट्मलाः । निर्मलाकाशकवरा लोलनीलाम्बुदालकाः
नीलशाद्वलवसनाः पुष्पगौरवनाङ्गिकाः । गृहीतसागरापूर्णकलशाः पुरभूषणाः
धृतप्रफुल्लपद्मिन्यस् सुगन्धिमुखमारुताः । ग्रामघुङ्घुमकाकल्यो निर्झरारवनूपुराः