सर्वदैवेदृशी साधो संसारी संसृतिश् चला । जायते जीवते पश्चाद् अवश्यं च विनश्यति
यद् यत् किञ्चिद् दृशोर् दृश्यं ब्रह्मादिकम् इदं मुने । गन्तव्यस् तेन सर्वेण विनाशो नात्र संशयः
तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः । अवश्यभाव्य् अस्तमयो जातस्याहर्पतेर् इव
अशरीराम् इति श्रुत्वा गिरम् आरक्तलोचनः । धैर्यम् आसादयाम् आस शिखण्डी स्तनिताद् इव
उत्थायावश्यकं कृत्वा पाश्चात्यं पितुर् आदृतः । चकार तपसे बुद्धिं दृढाम् उत्तमसिद्धये
ब्राह्मेण कर्मणा तस्य विपिने चरतस् तपः । अनन्तसङ्कल्पमयं श्रोत्रियत्वं बभूव ह
अज्ञातज्ञेयबुद्धेस् तु सुश्रोत्रियतया तया । न विशश्राम चेतो ऽस्य पवित्रे ऽपि धरातले
केवलं सर्वम् एवेदम् अपि शुद्धं धरातलम् । अशुद्धम् इव पश्यन् स न रेमे क्वचिद् एव हि
अथ सङ्कल्पयाम् आस स्वसङ्कल्पनयैव सः । वृक्षाग्रम् एव संशुद्धं स्थितिर् अत्रोचिता मम
तद् इदानीं तपस् तप्स्ये तपसा येन शाखिषु । खगवत् स्थितिम् आप्नोमि शाखासु च दलेषु च
इति सञ्चिन्त्य सञ्ज्वाल्य हुताशम् अतिभास्वरम् । जुहाव तस्मिन् प्रोत्कृत्य मांसं स्वं स्कन्धभित्तितः
अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः । मन्मुखस्थेन मा यान्तु विप्रमांसेन भस्मसात्
इति सञ्चिन्त्य भगवान् सप्तार्चिस् तस्य देहवान् । पुरो बभूव दीप्तांशुर् दीप्तांशुर् वाक्पतेर् इव
उवाच वचनं वीरकुमाराभिमतं वरम् । गृहाण स्थापितं साधो कोशकोशान् मणिं यथा
इत्य् उक्तवन्तम् अनलम् अर्घपुष्पोपशोभिना । सम्पूज्य स्तुतिवादेन प्राह विप्रकुमारकः
भगवन् भूतपूर्णाया भुवः पावनम् अङ्गनम् । नाप्नोमि तेन वृक्षाणाम् उपरि स्थितिर् अस्तु मे
इत्य् उक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी । एवम् अस्तु तम् इत्य् उक्त्वा जगामान्तर्धिम् ईश्वरः
तस्मिन्न् अन्तर्हिते देवे क्षणात् सान्ध्य इवाम्बुदे । पूर्णकामः कुमारो ऽसाव् आपूर्णेन्दुर् इवाबभौ
अधिगताभिमताननमण्डलद्युतिजवेन जहास स तुष्टिमान् । शशिनम् आप्तकलाकुलम् अम्बुजं विकसितं च सितं स्मितशोभिना
अथ काननमध्यस्थं चुम्बिताम्बुदमण्डलम् । मध्याह्नखिन्नसूर्याश्वसेवितस्कन्धमण्डपम्
मिमानम् इव दिक्कुक्षीर् दीर्घैर् विटपबाहुभिः । आलोकयन्तं ककुभो विकासिकुसुमेक्षणैः
वातावलुलितानल्पभ्रमद्भ्रमरकुन्तलम् । प्रमार्जयन्तम् आशानां मुखं पल्लवपाणिभिः
कच्छैर् उरुगुलुच्छाच्छमञ्जरीपुञ्जपिञ्जरैः । आस्यैर् इव सताम्बूलैर् हसन्तम् अलिमालितैः
लताविलासनोल्लासिपुष्पकेसरधूलिभिः । आबद्धमण्डलाभोगं पूर्णेन्दुम् इव दीप्तिभिः
सङ्कटं विटपावल्या कुञ्जकूजच्चकोरया । गायत्किन्नरया सिद्धवीथ्येव जगद् उच्चया
लतापीठोपविष्टानाम् अधोलम्बैः कलापिनाम् । कलापैश् शोभितं व्योम सेन्द्रचापैर् इवाम्बुदैः
मग्नोन्मग्नैः प्रतिस्कन्धं चामरैर् भासितं सितैः । चकोरानुगतैः पूर्णैस् संवत्सरम् इवेन्दुभिः
कपिञ्जलकलालापैः कलकोकिलकूजितैः । जीवजीवविरावैश् च प्रगायन्तम् इवोर्जितैः
कादम्बककदम्बैश् च कुलायकृतकेलिभिः । स्वर्गकोटरविश्रान्तैस् सिद्धैर् जगद् इवावृतम्
प्रवालारुणहस्ताभिर् अलिनेत्राभिर् आश्रितम् । अप्सरोभिर् इव स्वर्गं मञ्जरीभिर् इतस् ततः