तस्मिन् नगवरे पुण्ये विचित्रविहगद्रुमे । कश्चित् परमधर्मात्मा मुनिर् आसीन् महातपाः
दाशूरनामा महता तपोयोगेन संयुतः । कदम्बपृष्ठवास्तव्यो वीतरागो महामतिः
ऋषिस् तपस्वी भगवन् विपिने केन हेतुना । कथं वाप्य् अवसत् पृष्ठे कदम्बस्य महातरोः
शरलोमेति विख्यातः पिता तस्य बभूव ह । नाम्नापर इव ब्रह्मा तस्मिन्न् एवावसद् गिरौ
तस्यासाव् एकपुत्रो ऽभूत् कचो देवगुरोर् इव । तेन सार्धं स पुत्रेण नीतवाञ् जीवितं वने
अथासौ शरलोमात्र भुक्त्वा युगगणं ययौ । त्यक्तदेहस् सुरागारं त्यक्तनीडः खगो यथा
एक एव वने तस्मिन् दाशूरः प्ररुरोद ह । दशापनीतपितृकः करुणं कुररो यथा
मातापितृवियोगेन शोकसन्तापिताशयः । म्लानिम् अभ्याययौ नूनं हेमन्त इव पङ्कजम्
बालो ऽसाव् अथ दीनात्मा वनदेवतया वने । इत्थम् आश्वासितो राम तदादृश्यशरीरया
ऋषिपुत्र महाप्राज्ञ किम् अज्ञ इव रोदिषि । संसारस्य न कस्मात् त्वं स्वरूपं वेत्सि चञ्चलम्
सर्वदैवेदृशी साधो संसारी संसृतिश् चला । जायते जीवते पश्चाद् अवश्यं च विनश्यति
यद् यत् किञ्चिद् दृशोर् दृश्यं ब्रह्मादिकम् इदं मुने । गन्तव्यस् तेन सर्वेण विनाशो नात्र संशयः
तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः । अवश्यभाव्य् अस्तमयो जातस्याहर्पतेर् इव
अशरीराम् इति श्रुत्वा गिरम् आरक्तलोचनः । धैर्यम् आसादयाम् आस शिखण्डी स्तनिताद् इव
उत्थायावश्यकं कृत्वा पाश्चात्यं पितुर् आदृतः । चकार तपसे बुद्धिं दृढाम् उत्तमसिद्धये
ब्राह्मेण कर्मणा तस्य विपिने चरतस् तपः । अनन्तसङ्कल्पमयं श्रोत्रियत्वं बभूव ह
अज्ञातज्ञेयबुद्धेस् तु सुश्रोत्रियतया तया । न विशश्राम चेतो ऽस्य पवित्रे ऽपि धरातले
केवलं सर्वम् एवेदम् अपि शुद्धं धरातलम् । अशुद्धम् इव पश्यन् स न रेमे क्वचिद् एव हि
अथ सङ्कल्पयाम् आस स्वसङ्कल्पनयैव सः । वृक्षाग्रम् एव संशुद्धं स्थितिर् अत्रोचिता मम
तद् इदानीं तपस् तप्स्ये तपसा येन शाखिषु । खगवत् स्थितिम् आप्नोमि शाखासु च दलेषु च
इति सञ्चिन्त्य सञ्ज्वाल्य हुताशम् अतिभास्वरम् । जुहाव तस्मिन् प्रोत्कृत्य मांसं स्वं स्कन्धभित्तितः
अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः । मन्मुखस्थेन मा यान्तु विप्रमांसेन भस्मसात्
इति सञ्चिन्त्य भगवान् सप्तार्चिस् तस्य देहवान् । पुरो बभूव दीप्तांशुर् दीप्तांशुर् वाक्पतेर् इव
उवाच वचनं वीरकुमाराभिमतं वरम् । गृहाण स्थापितं साधो कोशकोशान् मणिं यथा
इत्य् उक्तवन्तम् अनलम् अर्घपुष्पोपशोभिना । सम्पूज्य स्तुतिवादेन प्राह विप्रकुमारकः
भगवन् भूतपूर्णाया भुवः पावनम् अङ्गनम् । नाप्नोमि तेन वृक्षाणाम् उपरि स्थितिर् अस्तु मे
इत्य् उक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी । एवम् अस्तु तम् इत्य् उक्त्वा जगामान्तर्धिम् ईश्वरः
तस्मिन्न् अन्तर्हिते देवे क्षणात् सान्ध्य इवाम्बुदे । पूर्णकामः कुमारो ऽसाव् आपूर्णेन्दुर् इवाबभौ
अधिगताभिमताननमण्डलद्युतिजवेन जहास स तुष्टिमान् । शशिनम् आप्तकलाकुलम् अम्बुजं विकसितं च सितं स्मितशोभिना
अथ काननमध्यस्थं चुम्बिताम्बुदमण्डलम् । मध्याह्नखिन्नसूर्याश्वसेवितस्कन्धमण्डपम्