पुनः कार्यक्रियापक्षैस् संसारारम्भनामकम् । किञ्चित् पटपटं कृत्वा याति कालकपिञ्जलः
पुनर् इन्द्रालिके याते राज्यम् आस्वाद्य केसरम् । आयात्य् अपरदेवेन्द्रषट्पदस् स्वर्गपङ्कजम्
पुनः कालं कृतापूतं कलुषीकुरुते कलिः । सचक्रिणम् इवाम्भोधिं प्रवृद्धो ऽवकरानिलः
पुनः कालकुलालेन कृतभूतशरावकम् । चक्रम् आवर्तते वेगाद् अजस्रं कालनामकम्
पुनर् नीरसताम् एति जगद् ध्वस्तशुभस्थिति । अभ्याशीभूतकल्पान्तं संशुष्कम् इव काननम्
पुनर् अर्कगणांश्वग्निदग्धानन्तकलेवरम् । सर्वभूतास्थिसम्पूर्णं जगद् एति श्मशानताम्
पुनः कुलाचलाकारपुष्करावर्तवर्षणैः । नृत्यद्भस्मबृहत्फेनां यात्य् एकार्णवतां जगत्
पुनस् संशान्तवाय्वम्बु रिक्तं सकलवस्तुभिः । तदपूर्वम् इवाकाशं जगद् आयाति शून्यताम्
पुनः कतिपया भुक्त्वा समास् समरसाशयः । जीवितं जीर्णया तन्वा ब्रह्माध्यात्मनि लीयते
पुनर् अन्येन कालेन तथैव जगतां गणम् । मनस् तनोति वै शून्ये गन्धर्वो नगरं यथा
पुनस् सर्गसमारम्भः पुनः प्रलयसम्भवः । सर्वं पुनर् इदं राम चक्रवत् परिवर्तते
किम् एतस्मिन् महामायाडम्बरे दीर्घशम्बरे । राम सत्यम् असत्यं वा निर्णीय यद् इहोच्यते
दाशूराख्यायिकेवेयं राम संसारचक्रिका । कल्पनारचिताकारा वस्तुशून्या तु वस्तुतः
अविरलम् इदम् आततं विकल्पैर् असदुदिताकृतिभिर् द्विचन्द्रकल्पैः । विरचितम् असता तु यन् न सत् तज् जगद् इह तेन विमूढता किमुत्था
क्रियाविशेषबहुला भोगैश्वर्यहताशयाः । नावेक्षन्ते यदा सत्यं न पश्यन्ति शठास् तदा
ये तु पारं गता बुद्धेर् इन्द्रियैर् न वशीकृताः । त एतां जागतीं मायां पश्यन्ति करबिल्ववत्
ननु तां जागतीं मायां जीवो दृष्ट्वा विचारवान् । अहङ्कारमयीं आस्थां त्यजत्य् अहिर् इव त्वचम्
असक्ततां ततो ऽभ्येत्य पुनर् नाम न जायते । क्षेत्रे ऽपि सुचिरं तिष्ठद् बीजं दग्धम् इवाग्निना
आधिव्याधिपरीताय प्रातर् वाद्य विनाशिने । प्रयतन्ते शरीराय हितम् अज्ञास् तु नात्मने
त्वम् अप्य् अज्ञवद् अज्ञस्य शरीरस्य समीहितम् । मा सम्पादय दुःखाय भवात्मैकपरायणः
दाशूराख्यायिकेवेयं नाम संसारचक्रिका । कल्पनारचिताकारा वस्तुशून्येति किं प्रभो
जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः । दाशूराख्यायिकां राम वर्ण्यमानां मया शृणु
अस्त्य् अस्मिन् वसुधापीठे विचित्रकुसुमद्रुमः । मगधा नाम विख्यातश् श्रीमाञ् जनपदो महान्
कदम्बवनविस्तारी तालावलितजङ्गलः । विचित्रविहगव्यूहस् सर्वाश्चर्यमनोहरः
सस्यसङ्कटसीमान्तः पुरोपवनमण्डितः । कमलोत्पलकल्हारपूर्णसर्वसरित्तटः
उद्यानदोलाविलसल्ललनागेयघुङ्घुमी । निशोपभुक्तकुसुमनीरन्ध्रविशिखावनिः
तत्रैकस्मिन् गिरितटे कर्णिकारसमाकुले । कदलीषण्डनीरन्ध्रे नीपगुल्मविराजिते
कूजच्चकोरचमरे ध्वनन्निर्झरवारिणि । फुल्लचूतलताजाले प्रगीतकलकोकिले
पुलिन्दलीलालुलिते तालावृतनभस्तले । उत्फुल्लपद्मिनीशारे जीवजीवकजीविते
पुष्पौघस्फूर्जदनिले केसरारुणधूलिनि । कारण्डवकृतारावे सरत्सरससारसे