सर्वदोदितचन्द्रार्का दिशो दृष्ट्वा स्थिराचलाः । अविनाशि जगत् सर्वम् इत्य् अप्य् अवितथोपमम्
न तद् अस्ति न यत् तस्मिन्न् एकस्मिन् विततात्मनि । सङ्कल्पकलनाजालम् अनाख्ये नोपपद्यते
पुनः पुनर् इदं सर्वं पुनर् मरणजन्मनी । पुनस् सुखं पुनर् दुःखं पुनः करणकर्मणी
पुनर् आशाः पुनर् व्योम पुनस् साम्बुधयो ऽद्रयः । अभ्युदेति पुनस् सृष्टिश् शश्वद् अर्कप्रभा यथा
पुनर् दैत्याः पुनर् देवाः पुनर् लोकान्तरक्रमः । पुनस् स्वर्गापवर्गेहा पुनर् इन्द्रः पुनश् शशी
पुनर् नारायणो देवः पुनर् मनुसुतादयः । पुनर् आशाश् चलच्चारुचन्द्रार्कवरुणानिलाः
सुमेरुकर्णिका कान्तऋक्षकेसरशालिनी । फुल्लस्फीतोदरोदेति रोदसीनलिनी पुनः
व्योमकाननम् आक्रम्य वल्गत्य् अंशुनखोत्करैः । तमःकरिघटा भेत्तुं पुनर् भास्करकेसरी
पुनर् इन्दुश् चलच्चूतमञ्जरीसुन्दरैः करैः । करोत्य् अमृतम् आह्लादं दिग्वधूमुखमण्डनम्
पुनस् स्वर्गतरोः पुण्यक्षयवातसमीरिताः । पतन्तीह विनुन्नाङ्गाः पुण्यकृत्फलपालयः
पुनः कार्यक्रियापक्षैस् संसारारम्भनामकम् । किञ्चित् पटपटं कृत्वा याति कालकपिञ्जलः
पुनर् इन्द्रालिके याते राज्यम् आस्वाद्य केसरम् । आयात्य् अपरदेवेन्द्रषट्पदस् स्वर्गपङ्कजम्
पुनः कालं कृतापूतं कलुषीकुरुते कलिः । सचक्रिणम् इवाम्भोधिं प्रवृद्धो ऽवकरानिलः
पुनः कालकुलालेन कृतभूतशरावकम् । चक्रम् आवर्तते वेगाद् अजस्रं कालनामकम्
पुनर् नीरसताम् एति जगद् ध्वस्तशुभस्थिति । अभ्याशीभूतकल्पान्तं संशुष्कम् इव काननम्
पुनर् अर्कगणांश्वग्निदग्धानन्तकलेवरम् । सर्वभूतास्थिसम्पूर्णं जगद् एति श्मशानताम्
पुनः कुलाचलाकारपुष्करावर्तवर्षणैः । नृत्यद्भस्मबृहत्फेनां यात्य् एकार्णवतां जगत्
पुनस् संशान्तवाय्वम्बु रिक्तं सकलवस्तुभिः । तदपूर्वम् इवाकाशं जगद् आयाति शून्यताम्
पुनः कतिपया भुक्त्वा समास् समरसाशयः । जीवितं जीर्णया तन्वा ब्रह्माध्यात्मनि लीयते
पुनर् अन्येन कालेन तथैव जगतां गणम् । मनस् तनोति वै शून्ये गन्धर्वो नगरं यथा
पुनस् सर्गसमारम्भः पुनः प्रलयसम्भवः । सर्वं पुनर् इदं राम चक्रवत् परिवर्तते
किम् एतस्मिन् महामायाडम्बरे दीर्घशम्बरे । राम सत्यम् असत्यं वा निर्णीय यद् इहोच्यते
दाशूराख्यायिकेवेयं राम संसारचक्रिका । कल्पनारचिताकारा वस्तुशून्या तु वस्तुतः
अविरलम् इदम् आततं विकल्पैर् असदुदिताकृतिभिर् द्विचन्द्रकल्पैः । विरचितम् असता तु यन् न सत् तज् जगद् इह तेन विमूढता किमुत्था
क्रियाविशेषबहुला भोगैश्वर्यहताशयाः । नावेक्षन्ते यदा सत्यं न पश्यन्ति शठास् तदा
ये तु पारं गता बुद्धेर् इन्द्रियैर् न वशीकृताः । त एतां जागतीं मायां पश्यन्ति करबिल्ववत्
ननु तां जागतीं मायां जीवो दृष्ट्वा विचारवान् । अहङ्कारमयीं आस्थां त्यजत्य् अहिर् इव त्वचम्
असक्ततां ततो ऽभ्येत्य पुनर् नाम न जायते । क्षेत्रे ऽपि सुचिरं तिष्ठद् बीजं दग्धम् इवाग्निना
आधिव्याधिपरीताय प्रातर् वाद्य विनाशिने । प्रयतन्ते शरीराय हितम् अज्ञास् तु नात्मने
त्वम् अप्य् अज्ञवद् अज्ञस्य शरीरस्य समीहितम् । मा सम्पादय दुःखाय भवात्मैकपरायणः