कदाचिद् अनभिव्यक्तं कदाचिद् व्यक्तिम् आगतम् । इदम् अस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम्
चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः । यद् अस्माज् जायते सर्गो द्वीन्दुत्वम् इव लोचनात्
चितस् सर्वास् समायान्ति सन्ततास् सृष्टिदृष्टयः । तत्स्था एवाप्य् अतत्स्थाभाश् चन्द्राद् इव मरीचयः
न कदाचन संसारः किलायं नाम सर्वदा । सर्वशक्ताव् असंसारशक्तिता विद्यते यतः
न चैवेदं कदाचित् तु साधो जगद् अनीदृशम् । सर्वशक्तौ हि संसारशक्तिता विद्यते यतः
महाकल्पावधिं कालम् असंसारितयेद्धया । न भविष्यति संसार इदानीम् इति युज्यते
ज्ञदृष्ट्या सर्वम् एवेदं ब्रह्मैवेति महामते । नास्ति संसार इत्य् एतद् उपपद्यत एव नः
अज्ञदृष्ट्या त्व् अविच्छिन्नसंसारित्वाद् अनारतम् । नित्या संसारमायेयम् इत्य् अस्यैवोपपद्यते
पुनः पुनश् च भावित्वान् न कदाचिद् अनीदृशम् । जगद् इत्य् एतद् अप्य् उक्तं न मृषा रघुनन्दन
अनारतं पतद्भूता दिशो दृष्ट्वा विनश्वरीः । विनाशीदं जगत् सर्वम् इति किं नोपपद्यते
सर्वदोदितचन्द्रार्का दिशो दृष्ट्वा स्थिराचलाः । अविनाशि जगत् सर्वम् इत्य् अप्य् अवितथोपमम्
न तद् अस्ति न यत् तस्मिन्न् एकस्मिन् विततात्मनि । सङ्कल्पकलनाजालम् अनाख्ये नोपपद्यते
पुनः पुनर् इदं सर्वं पुनर् मरणजन्मनी । पुनस् सुखं पुनर् दुःखं पुनः करणकर्मणी
पुनर् आशाः पुनर् व्योम पुनस् साम्बुधयो ऽद्रयः । अभ्युदेति पुनस् सृष्टिश् शश्वद् अर्कप्रभा यथा
पुनर् दैत्याः पुनर् देवाः पुनर् लोकान्तरक्रमः । पुनस् स्वर्गापवर्गेहा पुनर् इन्द्रः पुनश् शशी
पुनर् नारायणो देवः पुनर् मनुसुतादयः । पुनर् आशाश् चलच्चारुचन्द्रार्कवरुणानिलाः
सुमेरुकर्णिका कान्तऋक्षकेसरशालिनी । फुल्लस्फीतोदरोदेति रोदसीनलिनी पुनः
व्योमकाननम् आक्रम्य वल्गत्य् अंशुनखोत्करैः । तमःकरिघटा भेत्तुं पुनर् भास्करकेसरी
पुनर् इन्दुश् चलच्चूतमञ्जरीसुन्दरैः करैः । करोत्य् अमृतम् आह्लादं दिग्वधूमुखमण्डनम्
पुनस् स्वर्गतरोः पुण्यक्षयवातसमीरिताः । पतन्तीह विनुन्नाङ्गाः पुण्यकृत्फलपालयः
पुनः कार्यक्रियापक्षैस् संसारारम्भनामकम् । किञ्चित् पटपटं कृत्वा याति कालकपिञ्जलः
पुनर् इन्द्रालिके याते राज्यम् आस्वाद्य केसरम् । आयात्य् अपरदेवेन्द्रषट्पदस् स्वर्गपङ्कजम्
पुनः कालं कृतापूतं कलुषीकुरुते कलिः । सचक्रिणम् इवाम्भोधिं प्रवृद्धो ऽवकरानिलः
पुनः कालकुलालेन कृतभूतशरावकम् । चक्रम् आवर्तते वेगाद् अजस्रं कालनामकम्
पुनर् नीरसताम् एति जगद् ध्वस्तशुभस्थिति । अभ्याशीभूतकल्पान्तं संशुष्कम् इव काननम्
पुनर् अर्कगणांश्वग्निदग्धानन्तकलेवरम् । सर्वभूतास्थिसम्पूर्णं जगद् एति श्मशानताम्
पुनः कुलाचलाकारपुष्करावर्तवर्षणैः । नृत्यद्भस्मबृहत्फेनां यात्य् एकार्णवतां जगत्
पुनस् संशान्तवाय्वम्बु रिक्तं सकलवस्तुभिः । तदपूर्वम् इवाकाशं जगद् आयाति शून्यताम्
पुनः कतिपया भुक्त्वा समास् समरसाशयः । जीवितं जीर्णया तन्वा ब्रह्माध्यात्मनि लीयते
पुनर् अन्येन कालेन तथैव जगतां गणम् । मनस् तनोति वै शून्ये गन्धर्वो नगरं यथा