निदर्शनार्थं सृष्टेस् तु मयैकस्य प्रजापतेः । भवते कथितोत्पत्तिर् अस्येवान्यस्य वानघ
मनोविजृम्भणम् अयं संसार इति सन्मते । सम्बोधनाय भवतस् सृष्टिक्रम उदाहृतः
तास् सात्त्विकीप्रभृतयो जातयस् त्व् इत्थम् आगताः । इति ते कथनायैष सृष्टिक्रम उदाहृतः
पुनस् सृष्टिः पुनर् नाशः पुनर् दुःखं पुनस् सुखम् । पुनर् अज्ञाः पुनस् तज्ज्ञा बन्धमोक्षदृशौ पुनः
पुनः पुनस् सृष्टिकराः पीतस्नेहदशाभृतः । दीपा इव कृतालोकाः प्रशाम्यन्त्य् उद्भवन्ति च
देहोत्पत्तौ विनाशे च दीपानां ब्रह्मणाम् अपि । कालेनाधिकतां त्यक्त्वा नाशे भेदो न कश्चन
पुनः कृतं पुनस् त्रेता पुनश् च द्वापरः कलिः । पुनर् आवर्तते सर्वं चक्रावर्तेहया जगत्
पुनर् मन्वन्तरारम्भाः पुनः कल्पपरम्पराः । पुनः पुनः कार्यदशाः प्रातः प्रातर् अहर् यथा
लोकालोककलाकालकलनाकलितान्तरम् । पुनः पुनर् इदं सर्वं न किञ्चन पुनः पुनः
अनाहते प्रतप्ते ऽयःपिण्डे ऽनलकणा इव । इमे भावास् स्थिता नित्यं चिदाकाशे स्वभावतः
कदाचिद् अनभिव्यक्तं कदाचिद् व्यक्तिम् आगतम् । इदम् अस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम्
चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः । यद् अस्माज् जायते सर्गो द्वीन्दुत्वम् इव लोचनात्
चितस् सर्वास् समायान्ति सन्ततास् सृष्टिदृष्टयः । तत्स्था एवाप्य् अतत्स्थाभाश् चन्द्राद् इव मरीचयः
न कदाचन संसारः किलायं नाम सर्वदा । सर्वशक्ताव् असंसारशक्तिता विद्यते यतः
न चैवेदं कदाचित् तु साधो जगद् अनीदृशम् । सर्वशक्तौ हि संसारशक्तिता विद्यते यतः
महाकल्पावधिं कालम् असंसारितयेद्धया । न भविष्यति संसार इदानीम् इति युज्यते
ज्ञदृष्ट्या सर्वम् एवेदं ब्रह्मैवेति महामते । नास्ति संसार इत्य् एतद् उपपद्यत एव नः
अज्ञदृष्ट्या त्व् अविच्छिन्नसंसारित्वाद् अनारतम् । नित्या संसारमायेयम् इत्य् अस्यैवोपपद्यते
पुनः पुनश् च भावित्वान् न कदाचिद् अनीदृशम् । जगद् इत्य् एतद् अप्य् उक्तं न मृषा रघुनन्दन
अनारतं पतद्भूता दिशो दृष्ट्वा विनश्वरीः । विनाशीदं जगत् सर्वम् इति किं नोपपद्यते
सर्वदोदितचन्द्रार्का दिशो दृष्ट्वा स्थिराचलाः । अविनाशि जगत् सर्वम् इत्य् अप्य् अवितथोपमम्
न तद् अस्ति न यत् तस्मिन्न् एकस्मिन् विततात्मनि । सङ्कल्पकलनाजालम् अनाख्ये नोपपद्यते
पुनः पुनर् इदं सर्वं पुनर् मरणजन्मनी । पुनस् सुखं पुनर् दुःखं पुनः करणकर्मणी
पुनर् आशाः पुनर् व्योम पुनस् साम्बुधयो ऽद्रयः । अभ्युदेति पुनस् सृष्टिश् शश्वद् अर्कप्रभा यथा
पुनर् दैत्याः पुनर् देवाः पुनर् लोकान्तरक्रमः । पुनस् स्वर्गापवर्गेहा पुनर् इन्द्रः पुनश् शशी
पुनर् नारायणो देवः पुनर् मनुसुतादयः । पुनर् आशाश् चलच्चारुचन्द्रार्कवरुणानिलाः
सुमेरुकर्णिका कान्तऋक्षकेसरशालिनी । फुल्लस्फीतोदरोदेति रोदसीनलिनी पुनः
व्योमकाननम् आक्रम्य वल्गत्य् अंशुनखोत्करैः । तमःकरिघटा भेत्तुं पुनर् भास्करकेसरी
पुनर् इन्दुश् चलच्चूतमञ्जरीसुन्दरैः करैः । करोत्य् अमृतम् आह्लादं दिग्वधूमुखमण्डनम्
पुनस् स्वर्गतरोः पुण्यक्षयवातसमीरिताः । पतन्तीह विनुन्नाङ्गाः पुण्यकृत्फलपालयः