यथा मषकजालानि वर्षास्व् इक्षुवनालिषु । उत्पत्योत्पत्य नश्यन्ति तथेमा लोकसृष्टयः
न च विज्ञायते कस्मात् कालात् प्रभृति चागताः । नित्यागमापायपरा एतास् सर्गपरम्पराः
अनादिमत्यो ऽविरतं प्रस्फुरन्ति तरङ्गवत् । पूर्वात् पूर्वं किलाभूवंस् ततः पूर्वतरं तथा
भूत्वा भूत्वा प्रलीयन्ते सुरासुरनरादिकाः । सरित्तरङ्गभङ्ग्यैतास् समस्ता भूतजातयः
यथेदम् अण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः । सहस्रशः परिक्षीणा नालिका वत्सरेष्व् इव
अन्यास् सम्प्रति विद्यन्ते वर्तमानशरीरकाः । पारे ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे
ब्रह्मण्य् अन्या भविष्यन्ति बह्व्यो ब्रह्मपुरश्रियः । पुरस्ताच् च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः
ब्रह्मण्य् अन्या भविष्यन्त्यस् स्थितास् सर्गपरम्पराः । घटा इव मृदो राशाव् अङ्कुरे पल्लवा इव
यावत्समुद्रं जलधौ यथा जलरयोर्मयः । यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः
स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किञ्चन । उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्य् असच्छ्रियः
जडा रसान्वितास् तन्व्यस् ताश् शेवाललता इव । तरङ्गसमधर्मिण्यो दृष्टनष्टशरीरिकाः
सर्वासां सृष्टिकोटीनां चित्राचारविचेष्टिताः । चित्राकारविकाराश् च चित्ररूपाश् च सृष्टयः
व्यतिरिक्ता न सर्वेशात् समग्रास् सृष्टिदृष्टयः । तत्त्वज्ञविषया राम सलिलाद् इव वृष्टयः
आयान्ति सृष्टयो देवाज् जलदाद् इव वृष्टयः । तस्माद् एवाखिला जाता आलोकाद् इव दृष्टयः
व्यतिरिक्ता न सर्वेशात् समस्तास् सृष्टिदृष्टयः । व्यतिरिक्ता इवाभान्ति स्वाष्ठीलाश् शल्मलेर् इव
इह सृष्टिषु पुष्टासु निकृष्टासु च राघव । परमान् नभसो जाततन्मात्रमलमालितम्
कदाचित् प्रथमं व्योम प्रतिष्ठाम् उपगच्छति । ततः प्रजायते ब्रह्मा व्योमजो ऽसौ प्रजापतिः
कदाचित् प्रथमं वायुः प्रतिष्ठाम् उपगच्छति । ततः प्रजायते ब्रह्मा वायुजो ऽसौ प्रजापतिः
कदाचित् प्रथमं वारि स्फारताम् अधिगच्छति । ततः प्रजायते ब्रह्मा जलजो ऽसौ प्रजापतिः
कदाचित् प्रथमं पृथ्वी स्फारताम् अधिगच्छति । ततः प्रजायते ब्रह्मा पार्थिवो ऽसौ प्रजापतिः
इति चत्वारि सम्पीड्य पञ्चमं वर्धते यदा । तदा तज्जतयैवेशः कुरुते जागतीं क्रियाम्
कदाचिद् अप्सु वायौ वा सुस्फारे वापि तेजसि । स्वयं सम्पद्यते कश्चित् पुमान् प्रकृतिभावतः
तस्याथ पुंसो वदनात् कदाचिज् जायते पदात् । कदाचिद् अंसात् पृष्ठाद् वा कदाचिल् लोचनात् करात्
कदाचित् पुरुषस्यास्य नाभेः पद्मः प्रजायते । तस्मिन् सञ्चरते ब्रह्मा पद्मजो ऽसौ प्रकीर्तितः
मायेयं स्वप्नवद् भ्रान्तिर् मिथ्यारचितचक्रिका । मनोराज्यरुचिर् लोला सलिलावृत्तिसुन्दरी
किम् इवास्यां वद ज्ञप्तौ कथं सम्भवतीह नो । न चेद् बालमनोराज्यम् इदं पर्यनुयुज्यते
कदाचिद् अम्बरे शुद्धे मनस्तत्त्वानुरञ्जनात् । सौवर्णं ब्रह्मगर्भं च स्वयम् अण्डं प्रवर्तते
कदाचिद् एष पुरुषो वीर्यं सृजति वारिणि । तस्मात् प्रजायते पद्मं ब्रह्माण्डम् अथ वा महत्
तस्मात् प्रजायते ब्रह्मा कदाचिद् भास्करो ह्य् असौ । कदाचिद् वरुणो ब्रह्मा कदाचिद् वायुर् अब्जजः
एवम् अन्तर्विहीनासु विचित्रास्व् इह सृष्टिषु । विचित्रोत्पत्तयो राम ब्रह्मणो विविधा गताः