स्वस्थस् सर्वेहितत्यागी दूरालोकितवाञ्छनः । परां शीतलताम् अन्तर् आदाय विहरानघ
इत्थं गिरा विमलया विमलाशयस्य रामो मुनेस् स परिमृष्ट इवाबभासे । ज्ञानामृतेन मधुरेण विराजतान्तः पूर्णश् शशाङ्क इव शीतलतां जगाम
भगवन् सर्वधर्मज्ञ वेदवेदान्तपारग । आश्वस्त इव तिष्ठामि शुद्धाभिर् भवदुक्तिभिः
उदाराणि विरक्तानि पेशलान्य् उचितानि च । श्रोतुं तृप्तिं न गच्छामि वचांसि वदतस् तव
जात्या राजससात्त्विक्याः कथनावसरान्तरे । उत्पत्तिर् भवता प्रोक्ता भगवन् पद्मजन्मनः
अत्रायं मम सन्देहो महात्मन् हृदि वर्तते । सर्वसंशयविच्छेदकारिन्न् आशु तद् उच्यताम्
क्वचिद् अब्जात् क्वचिद् व्योम्नः क्वचिद् अण्डात् क्वचिज् जलात् । चित्रोत्पत्तिः कथं प्रोक्ता शास्त्रे कमलजन्मनः
बहूनि ब्रह्मलक्ष्याणि शङ्करेन्द्रशतानि च । नारायणसहस्राणि समतीतानि राघव
अद्यान्येषु विचित्रेषु ब्रह्माण्डेषु च भूरिषु । नानाचारविहाराणि विहरन्ति सहस्रशः
तुल्यकालम् अनन्तेषु कालान्तरभवेषु च । जगत्सु प्रोद्भविष्यन्ति बहून्य् अन्यानि भूरिशः
तेषाम् अब्जोद्भवादीनां तेष्व् अण्डेषु दिवौकसाम् । उत्पत्तयो महाबाहो विचित्राः कथिता दिवि
कदाचित् सृष्टयश् शार्व्यः कदाचित् पद्मजोद्भवाः । कदाचिद् अपि वैष्णव्यः कदाचिन् मुनिनिर्मिताः
कदाचिद् अब्जजो ब्रह्मा कदाचित् सलिलोद्भवः । अण्डोद्भवः कदाचिच् च कदाचिज् जायते ऽम्बरात्
कस्मिंश्चिद् अण्डे त्र्यक्षो ऽर्कः कस्मिंश्चिद् अपि वासवः । कस्मिंश्चित् पुण्डरीकाक्षः कस्मिंश्चित् त्र्यक्ष एव हि
कस्याञ्चिद् भूर् अभूत् सृष्टौ नीरन्ध्रतरुसङ्कटा । कस्याञ्चिन् नरनीरन्ध्रा कस्याञ्चिद् भूधरावृता
भूर् अभून् मृण्मयी काचित् काचिद् आसीद् दृषन्मयी । आसीद् धेममयी काचित् काचिन् मांसमयी तथा
इहैव कानिचित् तानि जगन्त्य् अन्यान्य् अथान्यथा । अन्योऽन्यैकैकलोकानि निर्वेधांस्य् अपि कानिचित्
अनन्तानि जगन्त्य् अस्मिन् ब्रह्मतत्त्वमहाम्बरे । अम्भोधिवीचिव्रजवन् निमज्जन्त्य् उद्भवन्ति च
यथा तरङ्गा जलधौ मृगतृष्णा मरौ यथा । कुसुमानि यथा चूते तथा विश्वश्रियः परे
भानोर् गणयितुं शक्या रश्मिषु त्रसरेणवः । आलोलवपुषो ब्रह्मतत्त्वे न जगतां गणाः
यथा मषकजालानि वर्षास्व् इक्षुवनालिषु । उत्पत्योत्पत्य नश्यन्ति तथेमा लोकसृष्टयः
न च विज्ञायते कस्मात् कालात् प्रभृति चागताः । नित्यागमापायपरा एतास् सर्गपरम्पराः
अनादिमत्यो ऽविरतं प्रस्फुरन्ति तरङ्गवत् । पूर्वात् पूर्वं किलाभूवंस् ततः पूर्वतरं तथा
भूत्वा भूत्वा प्रलीयन्ते सुरासुरनरादिकाः । सरित्तरङ्गभङ्ग्यैतास् समस्ता भूतजातयः
यथेदम् अण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः । सहस्रशः परिक्षीणा नालिका वत्सरेष्व् इव
अन्यास् सम्प्रति विद्यन्ते वर्तमानशरीरकाः । पारे ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे
ब्रह्मण्य् अन्या भविष्यन्ति बह्व्यो ब्रह्मपुरश्रियः । पुरस्ताच् च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः
ब्रह्मण्य् अन्या भविष्यन्त्यस् स्थितास् सर्गपरम्पराः । घटा इव मृदो राशाव् अङ्कुरे पल्लवा इव
यावत्समुद्रं जलधौ यथा जलरयोर्मयः । यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः
स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किञ्चन । उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्य् असच्छ्रियः