यस्यासद् इदम् इत्य् आस्था निवृत्ता सर्ववस्तुषु । क्रोडीकरोति सर्वज्ञं नाविद्या तम् अवास्तवी
अहं जगच् चैकम् इदं सर्वम् एवेति यस्य धीः । आस्थानास्थे परित्यज्य संस्थिता स न मज्जति
शुद्धं सदसतोर् मध्यं पदं बुद्ध्यावलम्ब्य च । सबाह्याभ्यन्तरं विश्वं मा गृहाण विमुञ्च मा
अत्यन्तविततस् स्वच्छस् सर्ववान् सर्ववर्जितः । व्योमवत् तिष्ठ नीरागं राम कार्यकरो ऽपि सन्
यस्य नेच्छा न चानिच्छा ज्ञस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पद्मपत्त्रम् इवाम्बुभिः
दर्शनस्पर्शनादीनि मा करोतु करोतु वा । तवेन्द्रियगणो गौणस् त्वम् अनिच्छो भवात्मवान्
ममेदम् इत्य् असद्भूते इन्द्रियार्थे भवन्मनः । मा निमज्जत्व् अमग्नं सन् मा करोतु करोतु वा
यदि ते नेन्द्रियार्थश्रीस् स्वदते हृदि राघव । तद् असि ज्ञातविज्ञानस् समुत्तीर्णो भवार्णवात्
अस्वादितेन्द्रियार्थस्य सतनोर् अतनोर् अपि । अनिच्छतो ऽपि सम्पन्ना मुक्तिर् अर्थवशात् तव
उच्चैःपदाय परया प्रज्ञया वासनागणात् । पुष्पाद् गन्धम् इवोदारं चेतो राम पृथक् कुरु
संसाराम्बुनिधाव् अस्मिन् वासनाम्बुपरिप्लुते । ये प्रज्ञानावम् आरूढास् ते तीर्णा ब्रुडिताः परे
क्षुरधाराग्रशितया धिया परमधीरया । प्रविचार्यात्मनस् तत्त्वं तत् त्वं स्वं पदम् आविश
यथा तत्त्वविदः प्राज्ञा ज्ञानबृंहितचेतसः । विहरन्ति तथा राम विहर्तव्यं न मूढवत्
जीवन्मुक्ता महात्मानो नित्यतृप्ता महाशयाः । आचारैर् अनुगन्तव्या न भोगकृपणाश् शठाः
न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् । सर्वम् एवानुवर्तन्ते परावरविदो जनाः
प्रभावस्याभिमानस्य गुणानां यशसश् श्रियः । न क्वचित् कृपणा लोके महान्तस् तत्त्वदर्शिनः
सुशून्ये ऽपि न खिद्यन्ते देवोद्याने नसङ्गिनः । नियतिं च न मुञ्चन्ति महान्तो भास्करा इव
विगतेच्छा यथाप्राप्तव्यवहारानुवर्तिनः । विचरन्त्य् असमुन्नद्धास् स्वस्था देहरथस्थिताः
त्वम् अपि प्राप्तवान् राम विवेकम् इमम् आगतम् । प्रज्ञाबलेन चानेन जाने स्वस्थो ऽसि सुन्दर
स्पष्टां दृष्टिम् अवष्टभ्य निर्मानो गतमत्सरः । विहरास्मिन् भुवः पीठे परां सिद्धिम् अवाप्स्यसि
स्वस्थस् सर्वेहितत्यागी दूरालोकितवाञ्छनः । परां शीतलताम् अन्तर् आदाय विहरानघ
इत्थं गिरा विमलया विमलाशयस्य रामो मुनेस् स परिमृष्ट इवाबभासे । ज्ञानामृतेन मधुरेण विराजतान्तः पूर्णश् शशाङ्क इव शीतलतां जगाम
भगवन् सर्वधर्मज्ञ वेदवेदान्तपारग । आश्वस्त इव तिष्ठामि शुद्धाभिर् भवदुक्तिभिः
उदाराणि विरक्तानि पेशलान्य् उचितानि च । श्रोतुं तृप्तिं न गच्छामि वचांसि वदतस् तव
जात्या राजससात्त्विक्याः कथनावसरान्तरे । उत्पत्तिर् भवता प्रोक्ता भगवन् पद्मजन्मनः
अत्रायं मम सन्देहो महात्मन् हृदि वर्तते । सर्वसंशयविच्छेदकारिन्न् आशु तद् उच्यताम्
क्वचिद् अब्जात् क्वचिद् व्योम्नः क्वचिद् अण्डात् क्वचिज् जलात् । चित्रोत्पत्तिः कथं प्रोक्ता शास्त्रे कमलजन्मनः
बहूनि ब्रह्मलक्ष्याणि शङ्करेन्द्रशतानि च । नारायणसहस्राणि समतीतानि राघव
अद्यान्येषु विचित्रेषु ब्रह्माण्डेषु च भूरिषु । नानाचारविहाराणि विहरन्ति सहस्रशः
तुल्यकालम् अनन्तेषु कालान्तरभवेषु च । जगत्सु प्रोद्भविष्यन्ति बहून्य् अन्यानि भूरिशः