असद् एवेदम् आभोगि दृश्यते दृश्यपञ्जरम् । मनोमनननिर्माणं हृदये नगरं यथा
इदं चित्तेच्छयोदेति लीयते च तदिच्छया । मिथ्यैव दृश्यते स्फारं गन्धर्वनगरं यथा
राम नष्टे जगत्य् अस्मिन् न किञ्चिद् अपि नश्यति । युक्ते ऽपि च जगत्य् अस्मिन् न किञ्चिद् अपि युज्यते
मनःप्रकल्पिते भग्ने हृदि विस्तीर्णपत्तने । वृद्धिं वोपगते ब्रूहि किं वृद्धं कस्य किं क्षतं
क्रीडार्थेन यथोदेति बालानां हृदि पत्तनम् । मनसा तद्वद् एवेदम् उदेत्य् अविरतं जगत्
न किञ्चित् कस्यचिन् नष्टम् इन्द्रजालजले यथा । भ्रष्टे नष्टे तथैवास्मिन् संसारे विभवोत्थिते
यद् असत् तद् असत् स्याच् चेत् तत् किं कस्य किल क्षतम् । अतो हर्षविषादाभ्यां संसारो नाम नास्पदम्
असद् एव यद् अत्यन्तं तस्मिन् किं नाम नश्यति । नाशाभावे हि दुःखस्य कः प्रसङ्गो महामते
सद् एव वा यद् अत्यन्तं तस्य किं नाम नश्यति । ब्रह्मैवेदं जगत् सर्वं सुखदुःखे किम् उत्थिते
सर्वत्रासत्यभूते ऽस्मिन् प्रपञ्चैकान्तकारिणि । संसारे किम् उपादेयं प्राज्ञो यद् अभिवाञ्छतु
सर्वत्र सत्यभूते ऽस्मिन् ब्रह्मतत्त्वमये ऽपि च । किं स्यात् त्रिभुवने हेयं प्राज्ञाः परिहरन्तु यत्
असत् सद् वा जगज् ज्ञस्य तेनासौ सुखदुःखयोः । अगम्य एव मूर्खस् तु तृतीयांशेन दुःखितः
आदाव् अन्ते ऽपि यन् नास्ति वर्तमाने ऽपि सन् न तत् । यो ऽभिवाञ्छत्य् असद् राम तस्यासत्तैव शिष्यते
आदाव् अन्ते च यत् सत्यं वर्तमाने सद् एव तत् । यस्य सर्वं सद् एव स्यात् तस्य सत्तैव शिष्यते
असत्यभूतं तोयान्तश् चन्द्रव्योमलतादिकम् । बाला एवाभिवाञ्छन्ति मनोमोहाय नोत्तमाः
बालो हि वितताकारैर् वस्तुरिक्तैः प्रयोजनैः । सन्तोषम् एत्य् अनन्ताय दुःखाय न सुखाय तु
तस्मान् मा भव बालस् त्वं राम राजीवलोचन । अनित्यताम् इहालोक्य नित्यम् आश्रय सुस्थिरम्
असद् इदम् अखिलं मया समेतं त्व् इति विगणय्य विषादितास्तु मा ते । सद् इह हि सकलं मया समेतं त्व् इति च विलोक्य विषादितास्तु मा ते
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
नष्टे धने ऽथ दारादौ शोकस्यावसरो ऽत्र कः । इन्द्रजाले क्षणाद् दृष्टे नष्टे का परिदेवना
गन्धर्वनगरस्यार्धे भूषिते दूषिते ऽथ वा । अविद्यांशे सुतादौ वा कः क्रमस् सुखदुःखयोः
प्राप्ते धने ऽथ दारादौ हर्षस्यावसरो हि कः । वृद्धायां मृगतृष्णायां किम् आनन्दो जलार्थिनः
धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टता । वृद्धायां मोहमायायां कस् समाश्वासवान् इह
यैर् एव जायते रागो मूर्खस्याधिकतां गतैः । तैर् एव भोगैः प्राज्ञस्य विराग उपजायते
अपारदर्शिनो मूढा भोगैर् आयान्ति तुष्टताम् । पारावलोकिनस् त्व् एतैर् विरागं यान्ति साधवः
अतो राघव तत्त्वज्ञो व्यवहारेषु संसृतेः । नष्टं नष्टम् उपेक्षस्व प्राप्तं प्राप्तम् उपाहर
अनागतानां भोगानाम् अवाञ्छनम् अकृत्रिमम् । आगतानां च सम्भोग इति पण्डितलक्षणम्
संसारसम्भ्रमे ह्य् अस्मिंश् छन्नात्मन्य् आततायिनि । तथा विहर सम्बुद्धो यथा नायासि मूढताम्
संसाराडम्बरस्यास्य प्रपञ्चरचिते क्रमे । सम्यक् समं न पश्यन्ति ये हतास् ते कुबुद्धयः
यया कयाचिद् युक्त्येह यस्य दृश्यगतारतिः । परिमज्जति तस्याच्छा न क्वचिन् निर्मला मतिः