स्वसङ्कल्पैः कृतास् सर्गे देवासुरनराचराः । स्वसङ्कल्पोपशमने शाम्यन्त्य् अस्नेहदीपवत्
आकाशसदृशं सर्वं कल्पनामात्रजृम्भितम् । जगत् पश्य महाबुद्धे सुदीर्घं स्वप्नम् उत्थितम्
न जायते न म्रियते इह कश्चित् कदाचन । पारमार्थ्येन सुमते मिथ्या सर्वं प्रवर्तते
न वृद्धिम् एति नो नाशं यत्र किञ्चित् कदाचन । रेखातरुवने तत्र कस्य नाम च खण्डना
भ्रमभूतं स्वकायं त्वम् अपश्यन् निपुणं दृशा । राघवाघहतस्वान्तः किम् अज्ञ इव भाषसे
मृगतृष्णा यथा तापान् मनसो ऽतिशयात् तथा । असन्त एव दृश्यन्ते सर्वे ब्रह्मादयो ऽप्य् अमी
द्विचन्द्रविभ्रमप्रख्या मनोरथवद् उत्थिताः । मिथ्याज्ञानमयास् सर्वे जगत्य् आकारराशयः
यथा नौयायिनो मिथ्या स्थाणुस्पन्दमतिस् तथा । असत्यैवोत्थिता नित्यम् आकाराणां परम्परा
इन्द्रजालम् इदं विद्धि मायारचितपञ्जरम् । मनोमनननिर्माणं न सन् नासद् इव स्थितम्
ब्रह्मैवेदं जगत् सर्वम् अन्यतायास् त्व् अतः कुतः । प्रसङ्गः कीदृशः को ऽसौ क्व चासौ परितिष्ठति
अयं गिरिर् अयं स्थाणुर् इत्य् आडम्बरविभ्रमः । मनसो भावनादार्ढ्याद् असत् सद् इव लक्ष्यते
प्रपञ्चचतुरारम्भम् अन्तस् तुच्छम् इदं जगत् । सकामतृष्णामननं त्यक्त्वान्यद् राम भावय
यथा स्वप्ने महारम्भो भ्रान्तिर् एव न वस्तुसत् । दीर्घस्वप्नं तथैवेदं विद्धि चित्तोपकल्पितम्
दृश्यमानमहाभोगं गृह्यमाणम् अवस्तुकम् । कोशम् आशाभुजङ्गीनां संसाराडम्बरं त्यज
असद् एतद् इति ज्ञात्वा मात्र भावं निवेशय । अनुधावति कः प्राज्ञो विज्ञाय मृगतृष्णिकाम्
स्वसङ्कल्पोत्थरूपाढ्यां मनोरथमयीं स्त्रियम् । यो ऽनुगच्छति मूढात्मा दुःखस्यैव स भाजनम्
वस्तुन्य् असति लोको ऽयं यातु कामम् अवस्तुनि । यस् तु वस्तु परित्यज्य यात्य् अवस्तु स नश्यति
मनोव्यामोह एवेदं रज्ज्वाम् अहिभयं यथा । भावनामात्रवैचित्र्याच् चिरम् आवर्तते जगत्
असदभ्युदितैर् भावैर् जलान्तश्चन्द्रचञ्चलैः । वञ्च्यते बाल एवेह न तत्त्वज्ञो भवादृशः
य इमं गुणसङ्घातं भावयन् सुखम् ईहते । प्रमार्ष्टि स जडो जाड्यं वह्नाव् अप्प्रतिबिम्बिते
असद् एवेदम् आभोगि दृश्यते दृश्यपञ्जरम् । मनोमनननिर्माणं हृदये नगरं यथा
इदं चित्तेच्छयोदेति लीयते च तदिच्छया । मिथ्यैव दृश्यते स्फारं गन्धर्वनगरं यथा
राम नष्टे जगत्य् अस्मिन् न किञ्चिद् अपि नश्यति । युक्ते ऽपि च जगत्य् अस्मिन् न किञ्चिद् अपि युज्यते
मनःप्रकल्पिते भग्ने हृदि विस्तीर्णपत्तने । वृद्धिं वोपगते ब्रूहि किं वृद्धं कस्य किं क्षतं
क्रीडार्थेन यथोदेति बालानां हृदि पत्तनम् । मनसा तद्वद् एवेदम् उदेत्य् अविरतं जगत्
न किञ्चित् कस्यचिन् नष्टम् इन्द्रजालजले यथा । भ्रष्टे नष्टे तथैवास्मिन् संसारे विभवोत्थिते
यद् असत् तद् असत् स्याच् चेत् तत् किं कस्य किल क्षतम् । अतो हर्षविषादाभ्यां संसारो नाम नास्पदम्
असद् एव यद् अत्यन्तं तस्मिन् किं नाम नश्यति । नाशाभावे हि दुःखस्य कः प्रसङ्गो महामते
सद् एव वा यद् अत्यन्तं तस्य किं नाम नश्यति । ब्रह्मैवेदं जगत् सर्वं सुखदुःखे किम् उत्थिते
सर्वत्रासत्यभूते ऽस्मिन् प्रपञ्चैकान्तकारिणि । संसारे किम् उपादेयं प्राज्ञो यद् अभिवाञ्छतु