स एष भगवान् ब्रह्मा सर्वलोकाधिनायकः । द्रवत्कनकसङ्काशः परमाकाशसम्भवः
अथासौ परमाकाशे तिष्ठन् परमरूपवान् । कल्पयत्य् आत्मनो गेहम् आत्मस्थश् चित्तलीलया
कदाचित् केवलं व्योम परमं पारवर्जितम् । अनादिमध्यपर्यन्तं कदाचिद् अमलं पयः
कदाचित् कल्पकालाग्निज्वालाभासुरमण्डितम् । कदाचित् काननं कान्तं नाभीकमलकुट्मलम्
अन्यान्य् अन्यान्य् अनेकानि प्रतिजन्मावधि प्रभुः । कल्पयत्य् आसनान्य् एष नानारूपाणि हेलया
तत्रेदम्प्रथमत्वेन यदैष ब्रह्मणः पदात् । अवतीर्णस् तदा ज्ञानात् तस्यैव सुसमस् स्मृतः
गर्भनिद्राव्यपगमे वपुः पश्यति भासुरम् । प्राणापानप्रवाहाढ्यं द्रव्यैर् एव विनिर्मितम्
रोमकोटिभिर् आकीर्णं द्वात्रिंशद्दशनान्वितम् । त्रिस्थूणं पञ्चदैवत्यम् अधश्चरणलाञ्छितम्
पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम् । युक्तम् अङ्गुलिविंशत्या नखविंशतिलाञ्छितम्
द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षभुजम् एव वा । नीडं चित्तविहङ्गस्य बिलं मन्मथभोगिनः
तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम् । अभिमानगजालानम् आननाम्भोजशोभितम्
अवलोक्य वपुर् ब्रह्मा कान्तम् आत्मीयम् उत्तमम् । चिन्तयाम् आस भगवांस् त्रिकालामलदर्शनः
अस्मिन्न् आकाशकुहरे तते मदुपलाञ्छिते । अदृष्टापारपर्यन्ते प्रथमं किम् अभूद् इति
इति चिन्तितवान् ब्रह्मा सद्योजातो ऽमलात्मदृक् । अपश्यत् सर्गवृन्दानि समतीतान्य् अनेकशः
अथ सस्मार सकलान् स सधर्मगुणक्रमान् । वसन्तः कुसुमानीव वेदान् वाङ्मयसंयुतान्
लीलया कल्पयाम् आस चित्रास् सङ्कल्पजाः प्रजाः । नानाचारसमारम्भा गन्धर्वो नगरं यथा
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये । अनन्तानि विचित्राणि शास्त्राणि समकल्पयत्
सृष्टिर् एवम् इयं राम सर्गे ऽस्मिन् स्थितिम् आगता । विरिञ्चरूपान् मनसः पुष्पलक्ष्मीर् मधोर् इव
विविधविरचनैः क्रियाविलासैः कमलजरूपधरेण चेतसैव । रघुसुत परिकल्पनेन नीता स्थितिम् अतुलां जगतीह सर्गलक्ष्मीः
एवंसम्पन्नम् एवैतन् नकिञ्चिद् अपि संस्थितम् । शून्यम् एव नभोमात्रं मनोविलसितं परम्
न देशकालाव् एतेन ब्रह्माण्डेनावृतौ क्वचित् । मनाग् अपि महारूपवताप्य् आकाशरूपिणा
एतत् सङ्कल्पमात्रात्म स्वप्नदृष्टपुरोपमम् । यत्रैतत् तत्र निश्शून्यं केवलं व्योम संस्थितम्
अभित्तिरागरचनम् अपि दृष्टम् असन्मयम् । अकृतं कृतम् एवैतद् व्योम्नि चित्रं विचित्रकम्
मनसा कल्पितं सर्वं देहादिभुवनत्रयम् । संसृतौ कारणं चैतच् चक्षुर् आलोकने यथा
आभासमात्रं हि जगद् घटावटपटक्रमैः । आवर्तते न सद्रूपाः पृथक् कुड्यादयस् स्थिताः
मनसेदं शरीरं हि निवासार्थं प्रकल्पितम् । क्रिमिणा कोशकारेण स्वात्मकोश इव स्वयम्
न तद् अस्ति न यन् नाम चेतस् सङ्कल्पमन्थरम् । न करोति न चाप्नोति दुर्गम् अप्य् अतिदुष्करम्
सर्वशक्तौ परे देवे का नाम ननु शक्तयः । न सम्भवन्त्य् आव्रियते याभिर् अन्तर् मनोगुहा
सत्तासत्ते पदार्थानां सर्वेषां सर्वदैव हि । महाबाहो सम्भवतस् सर्वशक्तौ विभौ सति
पश्य भावनया प्राप्तं मनसा पाद्मजं वपुः । तस्मात् तत्कलनं राम सर्वशक्तियुतं विदुः