ततस् तादृग्गुणगणं मनो भावयति क्षणात् । स्वरूपं गन्धवत् स्थूलं येनोदेष्यति मेदिनी
अथेदं भूततन्मात्रवेष्टितं तनुतां जहत् । वपुर् वह्निकणाकारं स्फुरितं व्योम्नि पश्यति
अहङ्कारकलायुक्तं बुद्धिजीवसमन्वितम् । तत् पुर्यष्टकम् इत्य् उक्तं भूतहृत्पद्मषट्पदः
तस्मिंस् तत् तीव्रसंवेगाद् भावयद् भासुरं वपुः । स्थूलतां एति पाकेन मनो भव्यफलं यथा
मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे । सन्निवेशम् अथादत्ते तत् तेजस् स्वं स्वभावतः
तस्मिन् स्वसन्निवेशे ऽथ तेजःपुञ्जमये मनः । भजते भावनां स्फारे निश्चिताम् आततां स्वतः
ऊर्ध्वं शिरःपीठमयीम् अधः पादमयीं तथा । पार्श्वयोर् हस्तसंस्थानां मध्ये चोदरधर्मिणीं
प्रकटावयवो बालो ज्वालाजालामलाकृतिः । मनोरथवशोपात्तवपुस् तिष्ठत्य् असाव् अथ
एवं स्ववासनावेशात् कल्पिताङ्गं मनो मुनेः । नयत्य् उपचयं देहं स्वं स्वभावम् ऋतुर् यथा
कालेन स्फुटताम् एत्य भवत्य् अमलविग्रहः । बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः
स एष भगवान् ब्रह्मा सर्वलोकाधिनायकः । द्रवत्कनकसङ्काशः परमाकाशसम्भवः
अथासौ परमाकाशे तिष्ठन् परमरूपवान् । कल्पयत्य् आत्मनो गेहम् आत्मस्थश् चित्तलीलया
कदाचित् केवलं व्योम परमं पारवर्जितम् । अनादिमध्यपर्यन्तं कदाचिद् अमलं पयः
कदाचित् कल्पकालाग्निज्वालाभासुरमण्डितम् । कदाचित् काननं कान्तं नाभीकमलकुट्मलम्
अन्यान्य् अन्यान्य् अनेकानि प्रतिजन्मावधि प्रभुः । कल्पयत्य् आसनान्य् एष नानारूपाणि हेलया
तत्रेदम्प्रथमत्वेन यदैष ब्रह्मणः पदात् । अवतीर्णस् तदा ज्ञानात् तस्यैव सुसमस् स्मृतः
गर्भनिद्राव्यपगमे वपुः पश्यति भासुरम् । प्राणापानप्रवाहाढ्यं द्रव्यैर् एव विनिर्मितम्
रोमकोटिभिर् आकीर्णं द्वात्रिंशद्दशनान्वितम् । त्रिस्थूणं पञ्चदैवत्यम् अधश्चरणलाञ्छितम्
पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम् । युक्तम् अङ्गुलिविंशत्या नखविंशतिलाञ्छितम्
द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षभुजम् एव वा । नीडं चित्तविहङ्गस्य बिलं मन्मथभोगिनः
तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम् । अभिमानगजालानम् आननाम्भोजशोभितम्
अवलोक्य वपुर् ब्रह्मा कान्तम् आत्मीयम् उत्तमम् । चिन्तयाम् आस भगवांस् त्रिकालामलदर्शनः
अस्मिन्न् आकाशकुहरे तते मदुपलाञ्छिते । अदृष्टापारपर्यन्ते प्रथमं किम् अभूद् इति
इति चिन्तितवान् ब्रह्मा सद्योजातो ऽमलात्मदृक् । अपश्यत् सर्गवृन्दानि समतीतान्य् अनेकशः
अथ सस्मार सकलान् स सधर्मगुणक्रमान् । वसन्तः कुसुमानीव वेदान् वाङ्मयसंयुतान्
लीलया कल्पयाम् आस चित्रास् सङ्कल्पजाः प्रजाः । नानाचारसमारम्भा गन्धर्वो नगरं यथा
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये । अनन्तानि विचित्राणि शास्त्राणि समकल्पयत्
सृष्टिर् एवम् इयं राम सर्गे ऽस्मिन् स्थितिम् आगता । विरिञ्चरूपान् मनसः पुष्पलक्ष्मीर् मधोर् इव
विविधविरचनैः क्रियाविलासैः कमलजरूपधरेण चेतसैव । रघुसुत परिकल्पनेन नीता स्थितिम् अतुलां जगतीह सर्गलक्ष्मीः
एवंसम्पन्नम् एवैतन् नकिञ्चिद् अपि संस्थितम् । शून्यम् एव नभोमात्रं मनोविलसितं परम्