अद्यापयाते त्व् अपि कल्पनाया आकाशवल्लीफलवन्महत्त्वे । उदेति नो ऽलोभलवाहतानाम् उदारवृत्तान्तमयी कथैव
आदातुम् इच्छन् पदम् उत्तमानां स्वचेतसैवोपहतो ऽद्य लोकः । पतत्य् अशङ्कं पशुर् अद्रिकूटाद् आनीलवल्लीदलवाञ्छयेव
अवान्तरन्यस्तनिरर्थकांसच्छायालतापत्त्रफलप्रसूनाः । शरीर एव क्षतसम्पदश् च श्वभ्रद्रुमा अद्यतना नराश् च
क्वचिज् जना मार्दवसुन्दरेषु क्वचित् करालेषु च सञ्चरन्ति । दशान्तरालेषु निरन्तरेषु वनान्तषण्डेष्व् इव कृष्णशाराः
धातुर् नवानि दिवसं प्रति भीषणानि रम्याणि चावलुलिताखिलमानवानि । कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शठस्य मनांसि केषाम्
जनः कामासक्तो विविधकुकलावेदनपरस् समस् स्वप्ने ऽप्य् अस्मिञ् जगति सुलभो नाद्य सुजनः । क्रिया दुःखासङ्गाद् विधुरविधुरा नूनम् अखिला न जाने नेतव्या कथम् इव दशा जीवितमयी
यच् चेदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । तत् सर्वम् अस्थिरं ब्रह्मन् स्वप्नसङ्गमसन्निभम्
शुष्कसागरसङ्काशो निखातो यो ऽद्य दृश्यते । स प्रातर् अभ्रसंवीतो नगस् सम्पद्यते मुने
यो वनव्यूहविस्तीर्णो विलीढगगनो ऽचलः । दिनैर् एव स यात्य् उर्वीसमतां कूपतां च वा
यद् अङ्गम् अद्य संवीतं कौशेयस्रग्विलेपनैः । दिगम्बरं तद् एव श्वो दूरे विशरितावटे
यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् । तत्रैवोदेति दिवसैस् संशून्यारण्यधन्वता
यः पुमान् अद्य तेजस्वी मण्डलान्य् अधितिष्ठति । स भस्मकूटतां राजन् दिवसैर् एव गच्छति
अरण्यानी महाभीमा या नभोमण्डलोपमा । पताकाच्छादिताकाशा सैव सम्पद्यते पुरी
या लतावलिता भीमा भात्य् अद्य विपिनावली । दिवसैर् एव सा याति मुने मरुमहीपदम्
सलिलं स्थलतां याति स्थली भवति वारिभूः । विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत्
अनित्यं यौवनं बाल्यं शरीरं द्रव्यसञ्चयाः । भावाद् भावान्तरं यान्ति तरङ्गवद् अनारतम्
वातात्तदीपकशिखालोलं जगति जीवितम् । तडित्स्फुरणसङ्काशा पदार्थश्रीर् जगत्त्रये
विपर्यासम् इयं याति भूरिभूतपरम्परा । बीजराशिर् इवाजस्रं प्रथमानः पुनः पुनः
मनःपवनपर्यस्तभूरिभूतरजःपटा । पातोत्पातपरावर्तवराभिनयभूषिता
आलक्ष्यते स्थितिर् इयं जागती जनितभ्रमा । नृत्तावेशविवृत्तेव संसारारभटीनटी
गन्धर्वनगराकारविपर्यासविधायिनी । अपाङ्गभङ्गुरोदारव्यवहारमनोरमा
तडित्तरलम् आलोकम् आतन्वाना पुनः पुनः । संसाररञ्जना ब्रह्मन् नृत्तमत्तेव राजते
दिवसास् ते महान्तस् ते सम्पदस् ताः क्रियाश् च ताः । सर्वं स्मृतिपदं यातं यामो वयम् अपि क्षणात्
प्रत्यहं क्षयम् आयाति प्रत्यहं जायते पुनः । अद्यापि हतरूपाया नान्तो ऽस्या दग्धसंसृतेः
तिर्यक्त्वं पुरुषा यान्ति तिर्यञ्चो नरताम् अपि । देवाश् चादेवतां चैते किम् एवेह विभो स्थिरम्
रचयन् रश्मिजालेन रात्र्यहानि पुनः पुनः । अतिवाह्य रविः कालं विनाशावधिम् ईक्षते
ब्रह्मा विष्णुश् च रुद्रश् च सर्वा वा भूतजातयः । नाशम् एवानुधावन्ति सलिलानीव वाडवम्
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । विनाशवाडवस्यैतत् सर्वं संशुष्कम् इन्धनम्
धनानि बन्धवो भृत्या मित्राणि विभवाश् च ये । विनाशभयभीतस्य सर्वं नीरसतां गतम्
स्वदन्ते तावद् एवैते भावा जगति धीमतः । यावत् स्मृतिपथं याति न विनाशकुराक्षसः