स्वस्वभाववशावेशाद् अन्योऽन्यपरिघट्टनैः । सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः
आविर्भावतिरोभावैर् उन्मज्जननिमज्जनैः । सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः
निर्यान्त्य् अविरतं तस्मात् परस्माज् जीवराशयः । अनिर्देश्यात् स्वसंवेद्यात् तत्रैवाशु स्फुरन्ति च
दीपाद् इवालोकदृशस् सूर्याद् इव मरीचयः । कणास् तप्तायस इव स्फुलिङ्गा इव पावकात्
कालाद् इवर्तवश् चित्रा आमोदाः कुसुमाद् इव । शीकरा इव पाताम्बुपूराद् अब्धेर् इवोर्मयः
उत्पत्योत्पत्य कालेन त्यक्त्वा देहपरम्पराः । स्वक एव पदे यान्ति विलयं जीवराशयः
अविरलम् इयम् आतता स्थितोच्चैर् भवति विनश्यति वर्धते मुधैव । त्रिभुवनरचनाविमोहमाया परमपदे लहरीव वारिराशौ
क्रमेणानेन येनाप्ता जीवेन स्थितिर् आत्मनः । स कथं भगवन् देहं समादत्ते ऽस्थिपञ्जरम्
पूर्वम् एव मया प्रोक्तं राम किं नावबुध्यसे । पूर्वापरविचारार्हा शेमुषी क्व गता तव
यद् इदं हि शरीरादि जगत् स्थावरजङ्गमम् । आभासमात्रम् एवैतद् असत् स्वप्न इवोत्थितम्
दीर्घस्वप्नो ह्य् अयं राम मिथ्यैवानघ दृश्यते । द्विचन्द्रविभ्रमाकारो भ्रमार्तभ्रान्तशैलवत्
प्रशान्ताज्ञाननिद्रस् सन् नूनं गलितभावनः । प्रबुद्धचेतास् संसारस्वप्नं पश्यन् न पश्यति
स्वभावकल्पितो राम जीवानां सर्वदैव हि । आमोक्षपदसम्प्राप्ति संसारो ऽस्त्य् आत्मनो ऽन्तरे
स्वभावकल्पितो नित्यं सर्वस्यास्त्य् आत्मनो ऽन्तरे । जीवस्य तरलः काय आवर्तः पयसो यथा
बीजे यथाङ्कुरस् स्फारः पल्लवश् चाङ्कुरे यथा । पल्लवे च यथा पुष्पं पुष्पकोशे फलं यथा
यतश् च कल्पनारूपो देहो ऽस्ति मनसो ऽन्तरे । बहीरूपतया राम ततो ऽस्त्य् एवेह स स्फुटः
य एव प्रतिभासो ऽस्य मनसः किल जायते । स एवाशु भवत्य् एतन् मृत्पिण्डो घटको यथा
प्रतिभासत एवेदं मनस्सङ्कल्पमात्रकम् । जगद् राघव नो सत्यं मृगतृष्णाजलं यथा
प्रतिभासेन चैतेन देहो ऽयं दृश्यते पुरः । भीतिभ्रान्तेन बालेन वेतालो ऽग्रगतो यथा
आदिसर्गे पुरा कायप्रतिभासो ऽस्य चेतसः । यस् स एव विभुर् ब्रह्मा पद्मकोशगृहे स्थितः
तत्सङ्कल्पक्रमेणैव ततस् स्थितिम् उपागता । इयं सृष्टिर् अपर्यन्ता मायेव घनमायया
जीवो मनःपदं प्राप्य वैरिञ्चपदम् आगतः । यथा ब्रह्मंस् तथा सर्वं विस्तरेण वदाशु मे
ब्राह्मं शृणु महाबाहो शरीरग्रहणे क्रमम् । निदर्शनेन तेनैव जागतीं ज्ञास्यसि स्थितिम्
दिक्कालाद्यनवच्छिन्नम् आत्मतत्त्वं स्वशक्तितः । लीलयैव यद् आदत्ते दिक्कालकलितं वपुः
तद् एतज् जीवपर्यायं वासनावेशतत्परं । मनस् सम्पद्यते लोलं कलनाकलनोन्मुखम्
कलयन्ती मनश्शक्तिर् आदौ भावयति क्षणात् । आकाशभावनाम् अच्छां शब्दबीजरसोन्मुखीम्
ततस् तद्घनतां यातं घनस्पन्दं क्रमान् मनः । भावयत्य् अनिलस्पन्दं स्पर्शबीजरसोन्मुखम्
ताभ्याम् आकाशवाताभ्याम् आमृष्टाभ्यां मनोदृशा । शब्दस्पर्शस्वरूपाभ्यां सङ्घर्षाज् जन्यते ऽनलः
मनस् तद्घनतां प्राप्य ततो भावयति क्षणात् । प्राकाश्यम् अमलालोकम् आलोकस् तेन वर्धते
मनस् तादृग्गुणगणं रसतन्मात्रवेदनम् । क्षणाच् चिनोत्य् अपां शैत्यं जलसंवित् ततो भवेत्