केचिच् छ्वपचचण्डालकिरातखशपुक्कसाः । केचित् तृणौषधीपत्त्रफलमूलपदं गताः
केचिद् वनलतागुल्मतृणोपलदशोषिताः । केचित् कदम्बजम्बीरसालतालतमालकाः
केचिद् विभवसम्भारमत्तसामन्तभूमिपाः । केचिच् चीराम्बरच्छन्ना मुनिमौनम् उपाश्रिताः
केचिद् भुजगगोनासक्रिमिकीटपिपीलकाः । केचिन् मृगेन्द्रमहिषमृगर्क्षचमरैणकाः
केचित् सारसचक्राह्वबलाकाबककोकिलाः । केचित् कमलकल्हारकुमुदोत्पलतां गताः
केचित् करभमातङ्गपतङ्गवृषगर्दभाः । केचिद् द्विरेफमषकपुत्तिकादंशवंशजाः
केचिद् आपद्बलाक्रान्ताः केचित् सम्पदम् आगताः । केचित् स्थितास् स्वर्गपुरे केचिन् नरकम् आस्थिताः
ऋक्षचक्रगताः केचिद् वृक्षरन्ध्रगताः परे । वातरूपे स्थिताः केचित् केचिद् व्योमपदे स्थिताः
सूर्यांशुषु स्थिताः केचित् केचिद् इन्द्वंशुषु स्थिताः । केचित् तृणलतागुल्मरसस्वादुष्व् अवस्थिताः
जीवन्मुक्ता भ्रमन्तीह केचित् कल्याणभाजनम् । चिरमुक्तास् स्थिताः केचिन् नूनं परिणताः परे
केचिच् चिरेण कालेन भविष्यन्मुक्तयश् शठाः । केचिद् द्विषन्ति दुर्भावाः केवलीभावम् आत्मनः
केचिज् जाता जगत्य् अस्मिन् केचिद् अन्यत्र संस्थिताः । केचिन् नेह न चान्यत्र परे एव पदे स्थिताः
केचिन् महेन्द्रमलयसह्यमन्दरमेरवः । केचित् क्षारदधिक्षीरघृतेक्षुजलराशयः
केचिद् विशालाः ककुभः केचिन् नद्यो महारयाः । केचित् स्त्रियः कान्तदृशः केचिच् छण्ढनपुंसकाः
केचित् प्रबुद्धमतयः केचिज् जडतराशयाः । केचिज् ज्ञानोपदेष्टारः केचिद् आत्तसमाधयः
जीवास् स्ववासनावेशविवशाशयतां गताः । एतास्व् एतास्व् अवस्थासु संस्थिता बद्धभावनाः
विहरन्ति जगत्कोशे निपतन्त्य् उत्पतन्ति च । कन्दुका इव हस्तेन मृत्युनाविरतं हताः
आशापाशशताबद्धा वासनाभारधारिणः । कायात् कायम् उपायान्ति वृक्षाद् वृक्षम् इवाण्डजाः
अनन्तानन्तसङ्कल्पकल्पनोत्पातमायया । इन्द्रजालं वितन्वाना जगन्मयम् इदं महत्
तावद् भ्रमन्ति संसारे वारीवावर्तराशयः । यावन् मूढा न पश्यन्ति स्वम् आत्मानम् अनिन्दितम्
दृष्ट्वात्मानम् असत् त्यक्त्वा सत्याम् आसाद्य संविदम् । कालेन पदम् आगत्य जायन्ते नेह ते पुनः
भुक्त्वा जन्मसहस्राणि ज्ञानेन तपसाथ वा । परमेष्ठिपदं प्राप्य केचिद् यान्ति परं पदम्
केचिच् छक्रत्वम् अप्य् उच्चैः प्राप्य तुच्छतया धियः । पुनस् तिर्यक्त्वम् आयान्ति तिर्यक्त्वान् नरताम् अपि
केचिन् महाधियस् सन्त उत्पद्य ब्रह्मणः पदात् । तदैव जन्मनैकेन तत्रैव प्रविशन्त्य् अलम्
ब्रह्माण्डेष्व् इतरेष्व् अन्ये तेनैते जीवराशयः । प्रयान्ति पद्मोद्भवताम् अन्ये च हरताम् अपि
अन्ये प्रयान्ति तिर्यक्त्वम् अन्ये च सुरताम् अपि । अन्ये ऽपि नागतां राम यथैवेह तथैव हि
यथेदं हि जगत् स्फारं तथान्यानि जगन्ति हि । विद्यन्ते समतीतानि भविष्यन्ति च भूरिशः
अन्येनान्येन चित्रेण क्रमेणान्येन हेतुना । विचित्रास् सृष्टयस् तेषाम् आपतन्ति पतन्ति च
काश्चिद् गन्धर्वतां यान्ति काश्चिद् गच्छन्ति यक्षताम् । काश्चित् प्रयान्ति सुरतां काश्चिद् आयान्ति दैत्यताम्
येनैव व्यवहारेण ब्रह्माण्डे ऽस्मिञ् जनास् स्थिताः । तेनैवान्येषु तिष्ठन्ति सन्निवेशाविलक्षणाः