एवं जीवाश् चितो भावाद् भवभावनया हताः । ब्रह्मणो ऽकलिताकाराल् लक्षशो ऽपि च कोटिशः
सङ्ख्यातीताः पुरा जाता जायन्ते ऽद्यापि चाभितः । उत्पतिष्यन्ति चैवान्ये कणौघा इव निर्झरात्
स्ववासनावशावेशाद् आशाविवशतां गताः । दशास्व् अतिविचित्रासु स्वयं निगडिताशयाः
अनारतं प्रतिदिशं प्रतिदेशं जले स्थले । जायन्ते च म्रियन्ते च बुद्बुदा इव वारिणि
केचित् प्रथमजन्मानः केचिज् जन्मवशातिगाः । केचिच् चासङ्ख्यजन्मानः केचिज् जन्मशतान्तराः
भविष्यज्जातयः केचित् केचिद् भूतमहाभवाः । वर्तमानभवाः केचित् केचिच् चाभवतां गताः
केचित् कल्पसहस्राणि जायमानाः पुनः पुनः । एकाम् एवाश्रिता योनिं केचिद् योन्यन्तरं श्रिताः
केचिन् महादुःखहताः केचिद् अल्पवयस्स्थिताः । केचिद् अत्यन्तम् उदिताः केचिद् अर्का इवोदिताः
केचित् किन्नरगन्धर्वविद्याधरमहोरगाः । केचिद् अर्केन्द्रवरुणत्र्यक्षाधोऽक्षजपद्मजाः
केचित् कुम्भाण्डवेतालयक्षरक्षःपिशाचकाः । केचिद् ब्राह्मणभूपालवैश्यशूद्रगणास् स्मृताः
केचिच् छ्वपचचण्डालकिरातखशपुक्कसाः । केचित् तृणौषधीपत्त्रफलमूलपदं गताः
केचिद् वनलतागुल्मतृणोपलदशोषिताः । केचित् कदम्बजम्बीरसालतालतमालकाः
केचिद् विभवसम्भारमत्तसामन्तभूमिपाः । केचिच् चीराम्बरच्छन्ना मुनिमौनम् उपाश्रिताः
केचिद् भुजगगोनासक्रिमिकीटपिपीलकाः । केचिन् मृगेन्द्रमहिषमृगर्क्षचमरैणकाः
केचित् सारसचक्राह्वबलाकाबककोकिलाः । केचित् कमलकल्हारकुमुदोत्पलतां गताः
केचित् करभमातङ्गपतङ्गवृषगर्दभाः । केचिद् द्विरेफमषकपुत्तिकादंशवंशजाः
केचिद् आपद्बलाक्रान्ताः केचित् सम्पदम् आगताः । केचित् स्थितास् स्वर्गपुरे केचिन् नरकम् आस्थिताः
ऋक्षचक्रगताः केचिद् वृक्षरन्ध्रगताः परे । वातरूपे स्थिताः केचित् केचिद् व्योमपदे स्थिताः
सूर्यांशुषु स्थिताः केचित् केचिद् इन्द्वंशुषु स्थिताः । केचित् तृणलतागुल्मरसस्वादुष्व् अवस्थिताः
जीवन्मुक्ता भ्रमन्तीह केचित् कल्याणभाजनम् । चिरमुक्तास् स्थिताः केचिन् नूनं परिणताः परे
केचिच् चिरेण कालेन भविष्यन्मुक्तयश् शठाः । केचिद् द्विषन्ति दुर्भावाः केवलीभावम् आत्मनः
केचिज् जाता जगत्य् अस्मिन् केचिद् अन्यत्र संस्थिताः । केचिन् नेह न चान्यत्र परे एव पदे स्थिताः
केचिन् महेन्द्रमलयसह्यमन्दरमेरवः । केचित् क्षारदधिक्षीरघृतेक्षुजलराशयः
केचिद् विशालाः ककुभः केचिन् नद्यो महारयाः । केचित् स्त्रियः कान्तदृशः केचिच् छण्ढनपुंसकाः
केचित् प्रबुद्धमतयः केचिज् जडतराशयाः । केचिज् ज्ञानोपदेष्टारः केचिद् आत्तसमाधयः
जीवास् स्ववासनावेशविवशाशयतां गताः । एतास्व् एतास्व् अवस्थासु संस्थिता बद्धभावनाः
विहरन्ति जगत्कोशे निपतन्त्य् उत्पतन्ति च । कन्दुका इव हस्तेन मृत्युनाविरतं हताः
आशापाशशताबद्धा वासनाभारधारिणः । कायात् कायम् उपायान्ति वृक्षाद् वृक्षम् इवाण्डजाः
अनन्तानन्तसङ्कल्पकल्पनोत्पातमायया । इन्द्रजालं वितन्वाना जगन्मयम् इदं महत्
तावद् भ्रमन्ति संसारे वारीवावर्तराशयः । यावन् मूढा न पश्यन्ति स्वम् आत्मानम् अनिन्दितम्