बद्धम् अस्मीति कलयद् विद्यातत्त्वं जहच् छनैः । अविद्यां जनयत्य् अन्तर् जगज्जङ्गलराक्षसीम्
स्वसङ्कल्पिततन्मात्रजालाभ्यन्तरवर्ति च । परां विवशताम् एति शृङ्खलाबद्धसिंहवत्
विचित्रकार्यकर्तृत्वम् आहरद् वासनावशात् । स्वेच्छामात्रानुरचिता दशाश् चानुपतन् नवाः
क्वचिन् मनः क्वचिद् बुद्धिः क्वचिज् ज्ञानं क्वचित् क्रिया । क्वचिद् एतद् अहङ्कारः क्वचित् पुर्यष्टकं स्मृतम्
क्वचित् प्रकृतिर् इत्य् उक्तं क्वचिन् मायेति कल्पितम् । क्वचिन् मन इति प्रोक्तं क्वचित् कर्मेति संस्थितम्
क्वचिद् बन्ध इति ख्यातं क्वचिच् चित्तम् इति स्फुटम् । प्रोक्तं क्वचिद् अविद्येति क्वचिद् इच्छेति सङ्गतम्
तद् एतद् आबद्धम् इह चित्तं राघव दुःखितम् । तृष्णाशोकसमाविष्टं रोगायतनम् आतुरम्
जरामरणमोहार्तं भवभावनया हतम् । ईहितानीहितैर् ग्रस्तम् अविद्यारागरञ्जितम्
इच्छासङ्कुचिताकारं कर्मवृक्षनवाङ्कुरम् । सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पनम्
कोशकारवद् आबद्धं कोशकारपदं गतम् । तन्मात्रवृन्दावयवम् अनन्तनरकातपम्
अदृश्यम् अपि शैलेन्द्रसमभारभरावहम् । जरामरणशाखाढ्यं संसारविषदुर्द्रुमम्
इमं संसारम् अखिलम् आशापाशविधायकम् । दधद् अन्तः फलैर् हीनं वटधाना वटं यथा
चिन्तानलशिखादग्धं कोपाजगरचर्वितम् । कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम्
मृगं यूथाद् इव भ्रष्टं शोकोपहतचेतनम् । पतङ्गकम् इवोज्ज्वाले दग्धं विषयपावके
छिन्नमूलम् इवाम्भोजं परमां म्लानिम् आगतम् । छिन्नाशम् आत्मनस् स्थानाद् विदेशासङ्गदुस्स्थितम्
विषयाहिषु मध्यस्थं मित्ररूपेषु शत्रुषु । दशाखदास्व् अनन्तासु लुठितं सङ्कटास्व् अति
दुःखे निपतितं घोरे विहगं वागुरे यथा । आबद्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने
उह्यमानम् अनर्थाब्धौ मनो विषयविद्रुतम् । उद्धरामरसङ्काश मातङ्गम् इव कर्दमात्
बलीवर्दवद् आमग्नं मनो मननपल्वले । आलूनशीर्णावयवं बलाद् राम समुद्धर
शुभाशुभप्रसरपराहताकृतौ ज्वलज्जरामरणविषादमूर्छिते । दयेह न स्वमनसि यस्य जायते नराकृतिस् स जगति राम राक्षसः
एवं जीवाश् चितो भावाद् भवभावनया हताः । ब्रह्मणो ऽकलिताकाराल् लक्षशो ऽपि च कोटिशः
सङ्ख्यातीताः पुरा जाता जायन्ते ऽद्यापि चाभितः । उत्पतिष्यन्ति चैवान्ये कणौघा इव निर्झरात्
स्ववासनावशावेशाद् आशाविवशतां गताः । दशास्व् अतिविचित्रासु स्वयं निगडिताशयाः
अनारतं प्रतिदिशं प्रतिदेशं जले स्थले । जायन्ते च म्रियन्ते च बुद्बुदा इव वारिणि
केचित् प्रथमजन्मानः केचिज् जन्मवशातिगाः । केचिच् चासङ्ख्यजन्मानः केचिज् जन्मशतान्तराः
भविष्यज्जातयः केचित् केचिद् भूतमहाभवाः । वर्तमानभवाः केचित् केचिच् चाभवतां गताः
केचित् कल्पसहस्राणि जायमानाः पुनः पुनः । एकाम् एवाश्रिता योनिं केचिद् योन्यन्तरं श्रिताः
केचिन् महादुःखहताः केचिद् अल्पवयस्स्थिताः । केचिद् अत्यन्तम् उदिताः केचिद् अर्का इवोदिताः
केचित् किन्नरगन्धर्वविद्याधरमहोरगाः । केचिद् अर्केन्द्रवरुणत्र्यक्षाधोऽक्षजपद्मजाः
केचित् कुम्भाण्डवेतालयक्षरक्षःपिशाचकाः । केचिद् ब्राह्मणभूपालवैश्यशूद्रगणास् स्मृताः