क्षणं स्फुरन्ती सा देवी सर्वशक्तितया तया । चिनोति स्वां स्वयं शक्तिं कलेन्दोश् शीतताम् इव
उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः । देशकालक्रियाशक्तीर् वयस्यास् सम्प्रकर्षति
अविदित्वा स्वभावं स्वं व्याप्यानन्तपदं स्थिता । रूपं परिमितेवासौ भावयत्य् अविभाविता
यदैव भावितं रूपं तया परमकान्तया । तदैवैनाम् अनुगता नामसङ्ख्यादिका दृशः
चिद् अथैतदवस्थैव व्यतिरिक्ता स्थितात्मनः । अनन्ता तद्गतैवाशु लहरीव महार्णवात्
यथा कटककेयूरैर् भेदो हेम्नो विलक्षणः । तथात्मनश् चिता रूपं भावयन्त्या स्वम् आंशिकम्
यथा दीपेन दीपानां जातानाम् आत्मना तथा । देशकालकलामात्रभेदस् स्वो भावितश् चिता
देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् । सङ्कल्पम् अनुधावन्ती प्रयाति कलनापदम्
विकल्पकल्पिताकारं देशकालक्रियास्पदम् । चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते
क्षेत्रं शरीरम् इत्य् आहुस् तद् असौ वेत्त्य् अखण्डितम् । सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते
वासनाः कल्पयन् सो ऽपि यात्य् अहङ्कारतां पुनः । अहङ्कारो विनिर्णीता कालिकी बुद्धिर् उच्यते
बुद्धिस् सङ्कल्पकलिता प्रयाता मननास्पदम् । मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः
पाणिपादमयं देहम् इन्द्रियाणि विदुर् बुधाः । देहो ऽसौ जायते लोके म्रियते ऽपि च जीवति
एवं जीवो हि सङ्कल्पो वासनारज्जुवेष्टितः । दुःखजालपरीतात्मा क्रमाद् आयाति चित्तताम्
क्रमेण पाकवशतः फलम् एति यथान्यताम् । अवस्थयैव नाकृत्या जीवो मलवशात् तथा
जीवो ऽहङ्कारतां प्राप्तस् त्व् अहङ्कारश् च बुद्धिताम् । सङ्कल्पजालवलिता मनस्तां बुद्धिर् आगता
मनो हि सङ्कल्पमयं संस्थाग्रहणतत्परम् । प्रतियोगिव्यवच्छिन्नं प्राप्तम् अन्यैर् अपीहितैः
इच्छाद्याश् शक्तयो मत्तां गावो वृषम् इवोन्मदम् । अनुधावन्ति दोषाय सरितस् सागरं यथा
इतिशक्तिमयं चेतो घनाहङ्कारतां गतम् । कोशकारक्रिमिकवद् इच्छया याति बन्धनम्
स्वसङ्कल्पानुसन्धानात् पाशैर् आवलयद् वपुः । कष्टम् अस्मि स्वयं बद्धम् इत्य् आर्त्या परितप्यते
बद्धम् अस्मीति कलयद् विद्यातत्त्वं जहच् छनैः । अविद्यां जनयत्य् अन्तर् जगज्जङ्गलराक्षसीम्
स्वसङ्कल्पिततन्मात्रजालाभ्यन्तरवर्ति च । परां विवशताम् एति शृङ्खलाबद्धसिंहवत्
विचित्रकार्यकर्तृत्वम् आहरद् वासनावशात् । स्वेच्छामात्रानुरचिता दशाश् चानुपतन् नवाः
क्वचिन् मनः क्वचिद् बुद्धिः क्वचिज् ज्ञानं क्वचित् क्रिया । क्वचिद् एतद् अहङ्कारः क्वचित् पुर्यष्टकं स्मृतम्
क्वचित् प्रकृतिर् इत्य् उक्तं क्वचिन् मायेति कल्पितम् । क्वचिन् मन इति प्रोक्तं क्वचित् कर्मेति संस्थितम्
क्वचिद् बन्ध इति ख्यातं क्वचिच् चित्तम् इति स्फुटम् । प्रोक्तं क्वचिद् अविद्येति क्वचिद् इच्छेति सङ्गतम्
तद् एतद् आबद्धम् इह चित्तं राघव दुःखितम् । तृष्णाशोकसमाविष्टं रोगायतनम् आतुरम्
जरामरणमोहार्तं भवभावनया हतम् । ईहितानीहितैर् ग्रस्तम् अविद्यारागरञ्जितम्
इच्छासङ्कुचिताकारं कर्मवृक्षनवाङ्कुरम् । सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पनम्
कोशकारवद् आबद्धं कोशकारपदं गतम् । तन्मात्रवृन्दावयवम् अनन्तनरकातपम्