यत् तद् अस्त्य् अमृतं ब्रह्म सर्वव्यापि निरामयम् । चिदाभासम् अनन्ताख्यम् अनादि विगतभ्रमम्
चित्स्पन्दवपुषस् तस्य स्पन्दः कस्माच्चिद् एव हि । प्रदेशाद् घनताम् एति सोम्याब्धेश् चलनाद् इव
अन्तर् अब्धेर् जलं यद्वत् स्पन्दात् स्तम्भवद् ईहते । सर्वशक्ति तथैकत्र गच्छति स्पन्दशक्तिताम्
आत्मन्य् एवात्मना व्योम्नि यथा सरति मारुतः । तथेहात्मात्मशक्त्यैव स्वात्मन्य् एवैति लोलताम्
स्वशिखास्पन्दशक्त्यैव दीपस् सोम्यो यथोच्चताम् । एति तद्वद् असाव् आत्मा तत् स्वे वपुषि वल्गति
जलान्तरे ऽम्बुधेर् यद्वल् लसद् वारि क्वचिच् चलम् । सर्वशक्तिवपुष्य् एव तथा स्पन्दो विलासवान्
यथोल्लसति भाचक्रैर् द्रवत्काञ्चनसागरः । तथात्मनि परिस्पन्दैस् स्फुरत्य् अच्छैश् चिदर्णवः
लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशा दृशः । तथोदेति लसद्रूपा स्वशक्तिर् ब्रह्मणश् चितः
किञ्चित्क्षुभितरूपा सा चिच्छक्तिश् चिन्महार्णवे । तन्मय्य् एव स्फुरत्य् अच्छा तत्रैवोर्मिर् इवार्णवे
आत्मनो ऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति । आलोकश्रीर् इवालोककोटरे घनतां गता
क्षणं स्फुरन्ती सा देवी सर्वशक्तितया तया । चिनोति स्वां स्वयं शक्तिं कलेन्दोश् शीतताम् इव
उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः । देशकालक्रियाशक्तीर् वयस्यास् सम्प्रकर्षति
अविदित्वा स्वभावं स्वं व्याप्यानन्तपदं स्थिता । रूपं परिमितेवासौ भावयत्य् अविभाविता
यदैव भावितं रूपं तया परमकान्तया । तदैवैनाम् अनुगता नामसङ्ख्यादिका दृशः
चिद् अथैतदवस्थैव व्यतिरिक्ता स्थितात्मनः । अनन्ता तद्गतैवाशु लहरीव महार्णवात्
यथा कटककेयूरैर् भेदो हेम्नो विलक्षणः । तथात्मनश् चिता रूपं भावयन्त्या स्वम् आंशिकम्
यथा दीपेन दीपानां जातानाम् आत्मना तथा । देशकालकलामात्रभेदस् स्वो भावितश् चिता
देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् । सङ्कल्पम् अनुधावन्ती प्रयाति कलनापदम्
विकल्पकल्पिताकारं देशकालक्रियास्पदम् । चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते
क्षेत्रं शरीरम् इत्य् आहुस् तद् असौ वेत्त्य् अखण्डितम् । सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते
वासनाः कल्पयन् सो ऽपि यात्य् अहङ्कारतां पुनः । अहङ्कारो विनिर्णीता कालिकी बुद्धिर् उच्यते
बुद्धिस् सङ्कल्पकलिता प्रयाता मननास्पदम् । मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः
पाणिपादमयं देहम् इन्द्रियाणि विदुर् बुधाः । देहो ऽसौ जायते लोके म्रियते ऽपि च जीवति
एवं जीवो हि सङ्कल्पो वासनारज्जुवेष्टितः । दुःखजालपरीतात्मा क्रमाद् आयाति चित्तताम्
क्रमेण पाकवशतः फलम् एति यथान्यताम् । अवस्थयैव नाकृत्या जीवो मलवशात् तथा
जीवो ऽहङ्कारतां प्राप्तस् त्व् अहङ्कारश् च बुद्धिताम् । सङ्कल्पजालवलिता मनस्तां बुद्धिर् आगता
मनो हि सङ्कल्पमयं संस्थाग्रहणतत्परम् । प्रतियोगिव्यवच्छिन्नं प्राप्तम् अन्यैर् अपीहितैः
इच्छाद्याश् शक्तयो मत्तां गावो वृषम् इवोन्मदम् । अनुधावन्ति दोषाय सरितस् सागरं यथा
इतिशक्तिमयं चेतो घनाहङ्कारतां गतम् । कोशकारक्रिमिकवद् इच्छया याति बन्धनम्
स्वसङ्कल्पानुसन्धानात् पाशैर् आवलयद् वपुः । कष्टम् अस्मि स्वयं बद्धम् इत्य् आर्त्या परितप्यते