प्रदीपकान्तिष्व् इव भुक्तभूरिदशास्व् अतिस्नेहनिबन्धनीषु । संसारमायासु चलाचलासु न ज्ञायते तत्त्वम् अतात्त्विकीषु
संसारसंरम्भकुचक्रिकेयम् प्रावृट्पयोबुद्बुदभङ्गुरापि । असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययम् आतनोति
शोभोज्ज्वला दैन्यवशाद् विनष्टा गुणास् स्थितास् सम्प्रति जर्जरत्वे । आश्वासना दूरतरं प्रयाता जनस्य हेमन्त इवाब्जिनीषु
पुनः पुनर् दैववशाद् उपेत्य स्वदेहभारेण कृतापकारः । विलूयते यत्र तरुः कुठारैर् आश्वासने तत्र हि कः प्रसङ्गः
मनोरमस्याप्य् अतिदोषवृत्तेर् अन्तर् विघाताय समुत्थितस्य । विषद्रुमस्येव जनस्य सङ्गाद् आसाद्यते सम्प्रति मूर्छनैव
कास् ता दृशो यासु न सन्ति दोषाः कास् ता दिशो यासु न दुःखदाहः । कास् ताः प्रजा यासु न भङ्गुरत्वं कास् ताः क्रिया यासु न नाम माया
कल्पाभिधानक्षणजीविनो ऽपि कल्पौघसङ्ख्याकलने विरिञ्चाः । अतः कलाशालिनि कालजाले लघुत्वदीर्घत्वधियो ऽप्य् असत्याः
सर्वत्र पाषाणमया महीध्रा मृदा मही दारुभिर् एव वृक्षाः । मांसैर् जनाः पौरुषबद्धभावा नापूर्वम् अस्तीह विकारहीनम्
आलोक्यते चेतनयानुविद्धः पयोनिबद्धो ऽणुचयो नभस्स्थः । पृथग्विभागेन पदार्थलक्ष्म्या एतज् जगन् नेतरद् अस्ति किञ्चित्
चमत्कृतिश् चेह मनस्विलोके चेतश्चमत्कारकरी नराणाम् । स्वप्ने ऽपि साधो विषयं कदाचित् केषाञ्चिद् अप्य् एति न चित्ररूपा
अद्यापयाते त्व् अपि कल्पनाया आकाशवल्लीफलवन्महत्त्वे । उदेति नो ऽलोभलवाहतानाम् उदारवृत्तान्तमयी कथैव
आदातुम् इच्छन् पदम् उत्तमानां स्वचेतसैवोपहतो ऽद्य लोकः । पतत्य् अशङ्कं पशुर् अद्रिकूटाद् आनीलवल्लीदलवाञ्छयेव
अवान्तरन्यस्तनिरर्थकांसच्छायालतापत्त्रफलप्रसूनाः । शरीर एव क्षतसम्पदश् च श्वभ्रद्रुमा अद्यतना नराश् च
क्वचिज् जना मार्दवसुन्दरेषु क्वचित् करालेषु च सञ्चरन्ति । दशान्तरालेषु निरन्तरेषु वनान्तषण्डेष्व् इव कृष्णशाराः
धातुर् नवानि दिवसं प्रति भीषणानि रम्याणि चावलुलिताखिलमानवानि । कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शठस्य मनांसि केषाम्
जनः कामासक्तो विविधकुकलावेदनपरस् समस् स्वप्ने ऽप्य् अस्मिञ् जगति सुलभो नाद्य सुजनः । क्रिया दुःखासङ्गाद् विधुरविधुरा नूनम् अखिला न जाने नेतव्या कथम् इव दशा जीवितमयी
यच् चेदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । तत् सर्वम् अस्थिरं ब्रह्मन् स्वप्नसङ्गमसन्निभम्
शुष्कसागरसङ्काशो निखातो यो ऽद्य दृश्यते । स प्रातर् अभ्रसंवीतो नगस् सम्पद्यते मुने
यो वनव्यूहविस्तीर्णो विलीढगगनो ऽचलः । दिनैर् एव स यात्य् उर्वीसमतां कूपतां च वा
यद् अङ्गम् अद्य संवीतं कौशेयस्रग्विलेपनैः । दिगम्बरं तद् एव श्वो दूरे विशरितावटे
यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् । तत्रैवोदेति दिवसैस् संशून्यारण्यधन्वता
यः पुमान् अद्य तेजस्वी मण्डलान्य् अधितिष्ठति । स भस्मकूटतां राजन् दिवसैर् एव गच्छति
अरण्यानी महाभीमा या नभोमण्डलोपमा । पताकाच्छादिताकाशा सैव सम्पद्यते पुरी
या लतावलिता भीमा भात्य् अद्य विपिनावली । दिवसैर् एव सा याति मुने मरुमहीपदम्
सलिलं स्थलतां याति स्थली भवति वारिभूः । विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत्
अनित्यं यौवनं बाल्यं शरीरं द्रव्यसञ्चयाः । भावाद् भावान्तरं यान्ति तरङ्गवद् अनारतम्
वातात्तदीपकशिखालोलं जगति जीवितम् । तडित्स्फुरणसङ्काशा पदार्थश्रीर् जगत्त्रये
विपर्यासम् इयं याति भूरिभूतपरम्परा । बीजराशिर् इवाजस्रं प्रथमानः पुनः पुनः
मनःपवनपर्यस्तभूरिभूतरजःपटा । पातोत्पातपरावर्तवराभिनयभूषिता
आलक्ष्यते स्थितिर् इयं जागती जनितभ्रमा । नृत्तावेशविवृत्तेव संसारारभटीनटी