यद् इदं दृश्यतां प्राप्तं मनोमात्रविजृम्भितम् । सत् तद् ब्रह्मेति यस्यान्तर् निश्चयस् सो ऽपि मोक्षभाक्
चलाचला तृतीया या दृष्टिर् आबद्धभावना । सा समग्रजगद्भूतखगबन्धनवागुरा
यस् स्वप्नभ्रमवद् भ्रान्तम् असत् सद् वैकनिश्चयः । जगत् पश्यत्य् असक्तात्मा न स दुःखे निमज्जति
यस्येमास् स्वस्वरूपासु भावनास्व् आत्मभावनाः । अस्वरूपस्वरूपस्य तस्याविद्यैव विद्यते
विकारितादयो दोषा न केचन महात्मनि । परमात्मनि विद्यन्ते पयसीवेह पांसवः
भावना शब्दशब्दार्थरञ्जनेयं जगद्गता । व्यवहारार्थम् उत्पन्ना व्यतिरिक्ता न चात्मनः
अनेन व्यवहारेण विनैताश् शास्त्रदृष्टयः । संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः
उह्यमानो ह्य् अविद्याध्वन्य् आत्मा नेहोपलभ्यते । आत्मज्ञानाद् ऋते तच् च शास्त्रार्थात् समवाप्यते
अविद्यासरितः पारम् आत्मलाभाद् ऋते किल । राम नासाद्यते तद् धि पदम् अक्षयम् अच्युतम्
यतः कुतश्चिज् जातेयम् अविद्या भ्रमदायिनी । नूनं स्थितिम् उपायाता समाच्छाद्य पदं स्थिता
कुतो जातेयम् इति ते राम मास्तु विचारणा । इमां कथम् अहं हन्मीत्य् एषा ते ऽस्तु विचारणा
अस्तङ्गतायां क्षीणायाम् अस्यां ज्ञास्यसि राघव । यत एषा यथा चैषा यथा नष्टेत्य् अखण्डितम्
वस्तुतः खलु नास्त्य् एषा विभात्य् एवानवेक्षिता । असतो भ्रान्तिभातस्य रूपं जानाति कः कुतः
जातेयं प्रौढिम् आपन्ना दोषायैवातताकृतिः । बलात् प्रणाशयित्वैनां परिज्ञास्यसि वै ततः
अपि शूरा अपि प्राज्ञास् ते न सन्ति जगत्त्रये । अविद्यया ये पुरुषा न नाम विवशीकृताः
तद् अस्यां रोगशालायां यत्नं कुरु चिकित्सने । यथैषा जन्मदुःखेन न भूयस् त्वां नियोक्ष्यति
सर्वापदाम् एकसखीम् अज्ञानतरुमञ्जरीम् । अनर्थसार्थजननीम् अविद्याम् अलम् उद्धर
भयविषाददुराधिविपत्प्रदां हृदयमोहमहापटलाकुलाम् । भृशम् अपास्य कुदृष्टिम् इमां बलाद् भव भवार्णवपारम् उपागतः
कुपितस्यासतो ऽप्य् अस्य प्रेक्षामात्रविनाशिनः । अविद्याविततव्याधेर् औषधं शृणु राघव
यां तां कथयितुं जातिं राम राजससात्त्विकीम् । मनोवीर्यविचारार्थं प्रस्तुतो ऽस्मीति तां शृणु
यत् तद् अस्त्य् अमृतं ब्रह्म सर्वव्यापि निरामयम् । चिदाभासम् अनन्ताख्यम् अनादि विगतभ्रमम्
चित्स्पन्दवपुषस् तस्य स्पन्दः कस्माच्चिद् एव हि । प्रदेशाद् घनताम् एति सोम्याब्धेश् चलनाद् इव
अन्तर् अब्धेर् जलं यद्वत् स्पन्दात् स्तम्भवद् ईहते । सर्वशक्ति तथैकत्र गच्छति स्पन्दशक्तिताम्
आत्मन्य् एवात्मना व्योम्नि यथा सरति मारुतः । तथेहात्मात्मशक्त्यैव स्वात्मन्य् एवैति लोलताम्
स्वशिखास्पन्दशक्त्यैव दीपस् सोम्यो यथोच्चताम् । एति तद्वद् असाव् आत्मा तत् स्वे वपुषि वल्गति
जलान्तरे ऽम्बुधेर् यद्वल् लसद् वारि क्वचिच् चलम् । सर्वशक्तिवपुष्य् एव तथा स्पन्दो विलासवान्
यथोल्लसति भाचक्रैर् द्रवत्काञ्चनसागरः । तथात्मनि परिस्पन्दैस् स्फुरत्य् अच्छैश् चिदर्णवः
लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशा दृशः । तथोदेति लसद्रूपा स्वशक्तिर् ब्रह्मणश् चितः
किञ्चित्क्षुभितरूपा सा चिच्छक्तिश् चिन्महार्णवे । तन्मय्य् एव स्फुरत्य् अच्छा तत्रैवोर्मिर् इवार्णवे
आत्मनो ऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति । आलोकश्रीर् इवालोककोटरे घनतां गता