क्षणम् आन्ध्यम् इवाप्नोमि क्षणं यामि प्रकाशताम् । शान्तातपबलः प्रावृड्लोलाभ्र इव वासरः
अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः । अनस्तमितसारस्य कलना कथम् आगता
यथाभूतार्थवाक्यार्थास् सर्वा एव ममोक्तयः । नासमर्थविरूपार्थाः पूर्वापरविरोधदाः
ज्ञानदृष्टौ प्रसन्नायां प्रबोधे प्रततोदये । यथावज् ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिम् इमाम् अलम्
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये । शब्दार्थवाक्यरचना भ्रमायेयं क्षणं तव
यदाधुना ज्ञास्यसि तत् सत्यम् अत्यन्तनिर्मलम् । वाच्यवाचकशब्दार्थभेदं ज्ञास्यसि वै तदा
भेदकृद् वाक्प्रपञ्चो ऽयम् उपदेश्येषु कल्पितः । स चाज्ञेष्व् एव न ज्ञेषु विद्यते पारमार्थिकः
कलनामलम् ईहादि किञ्चिन् नात्मनि विद्यते । नीरागं ब्रह्म निर्द्वन्द्वं तद् एवेदं जगत् स्थितम्
एतद् विचित्ररूपाभिर् उक्तिभिर् बहुशः पुनः । विस्तारेणैव वक्तव्यं सिद्धान्तावसरे ऽनघ
वाक्प्रपञ्चं विना त्व् एतद् अज्ञानम् अतुलं तमः । भेत्तुम् अन्योऽन्यम् उदितं यत्नं कर्तुं न शक्यते
अविद्ययैवोत्तमया स्वात्मनाशोद्यमोत्कया । विद्या सम्प्राप्यते राम सर्वदोषातिहारिणी
शाम्यति ह्य् अस्त्रम् अस्त्रेण मलेन क्षाल्यते मलम् । शमं विषं विषेणैति रिपुणा हन्यते रिपुः
ईदृशी भूतमायेयं या स्वनाशेन हर्षदा । न लक्ष्यते स्वभावो ऽस्याः प्रेक्ष्यमाणैव नश्यति
विवेकम् आच्छादयति जगन्ति जनयत्य् अलम् । न च विज्ञायते कैषा पश्याश्चर्यम् इदं महत्
अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता तु विनश्यति । मायेयम् अपरिज्ञायमानरूपैव वल्गति
अहो नु खलु चित्रेयं माया संसारबन्धनी । असत्यैवातिसत्येव प्राज्ञान् अपि हिनस्ति या
अत्यभिन्ने पदे तस्मिंस् तन्वाना भेदम् आततम् । संसारमाया विज्ञाता येनासौ पुरुषोत्तमः
नास्त्य् एषा परमार्थेनेत्य् एवम्भावनयेद्धया । ज्ञो भूत्वा ज्ञेयसम्प्राप्त्या ज्ञास्यस्य् अस्यास् त्वम् आशयम्
यावत् तु न प्रबुद्धस् त्वं तावन् मद्वचसैव ते । निश्चयो भवतूद्दामो नास्त्य् अविद्येति निश्चलः
यद् इदं दृश्यतां यातं मानसं मननं महत् । असत् तद् इति यस्यान्तर् निश्चयो मोक्षभाग् असौ
यद् इदं दृश्यतां प्राप्तं मनोमात्रविजृम्भितम् । सत् तद् ब्रह्मेति यस्यान्तर् निश्चयस् सो ऽपि मोक्षभाक्
चलाचला तृतीया या दृष्टिर् आबद्धभावना । सा समग्रजगद्भूतखगबन्धनवागुरा
यस् स्वप्नभ्रमवद् भ्रान्तम् असत् सद् वैकनिश्चयः । जगत् पश्यत्य् असक्तात्मा न स दुःखे निमज्जति
यस्येमास् स्वस्वरूपासु भावनास्व् आत्मभावनाः । अस्वरूपस्वरूपस्य तस्याविद्यैव विद्यते
विकारितादयो दोषा न केचन महात्मनि । परमात्मनि विद्यन्ते पयसीवेह पांसवः
भावना शब्दशब्दार्थरञ्जनेयं जगद्गता । व्यवहारार्थम् उत्पन्ना व्यतिरिक्ता न चात्मनः
अनेन व्यवहारेण विनैताश् शास्त्रदृष्टयः । संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः
उह्यमानो ह्य् अविद्याध्वन्य् आत्मा नेहोपलभ्यते । आत्मज्ञानाद् ऋते तच् च शास्त्रार्थात् समवाप्यते
अविद्यासरितः पारम् आत्मलाभाद् ऋते किल । राम नासाद्यते तद् धि पदम् अक्षयम् अच्युतम्
यतः कुतश्चिज् जातेयम् अविद्या भ्रमदायिनी । नूनं स्थितिम् उपायाता समाच्छाद्य पदं स्थिता