येहा या कल्पना यो ऽर्थो यश् शब्दो यो ऽङ्गिनां गणः । तज्जत्वात् तन्मयत्वाच् च तत् तत् तन्मयम् इष्यते
तज्जस् स एव भवति वह्नेर् वह्निर् इवोत्थितः । जन्यो ऽयं जनकश् चायम् इत्य् उक्तौ भेदकल्पना
अयम् अस्मात् समुत्पन्न इतीयं या जगत्स्थितिः । आधिक्यं तत् क्रियाशक्तौ जन्यं जनकम् एव तत्
इदम् अन्यद् इदं चान्यद् इति शब्दार्थविभ्रमः । उक्ताव् एव न देवो ऽस्ति प्रमिते भिन्नता यतः
तज्जयैव मनश्शक्त्या स्वतस् सञ्ज्ञा प्रवर्तते । दृढभावनया तस्या इष्टो ऽर्थः प्रतिपद्यते
अग्नेश् शिखाया एकस्या द्वितीया जनिकेति या । उक्तिवैचित्र्यम् एवैतन् नोक्त्यर्थे ऽत्रास्ति सत्यता
न जन्यजनकाद्यास् तास् सम्भवन्त्य् उक्तयः परे । एकम् एव त्व् अनन्तं यत् किं कथं तज् जनिष्यते
उक्तेर् एष स्वभावो यद् उक्तैवोक्तिर् अनन्तरम् । प्रतियोगिव्यवच्छेदसङ्ख्याद्यर्थेन युज्यते
ऊर्मिजालम् इवाम्भोधौ परे यः परिदृश्यते । शब्दार्थकलनाकारस् तद् ब्रह्मैव विदुर् बुधाः
ब्रह्म चिद् ब्रह्म च मनो ब्रह्म ज्ञानम् अवस्तु च । ब्रह्मार्थो ब्रह्म शब्दश् च ब्रह्म दिग् ब्रह्म धातवः
अयम् अन्यो ऽयम् अन्यो ऽयं भाग इत्य् अन्तर् आत्मनोः । मिथ्याज्ञानविकल्पोक्तौ वाचि सत्यार्थतात्र का
वह्नेश् शिखाया जातेयं शिखेति मनसो हि या । चापलोत्था विकल्पश्रीर् वस्तुतस् सा न सिध्यति
असत्यैव विकल्पोक्तिस् सत्यभावेन कल्प्यते । मोहोपहतदृष्टित्वाद् द्विचन्द्रज्ञानदोषवत्
सर्वस्मात् सर्वगात् तस्माद् अनन्ताद् ब्रह्मणः पदात् । नान्यत् किञ्चित् सम्भवति तद् उक्तं यत् तद् एव तत्
ब्रह्मतत्त्वं विना नेह किञ्चिद् एवोपपद्यते । सर्वं च खल्व् इदं ब्रह्मेत्य् एषैव परमार्थता
एवम्प्रायश् च हे प्राज्ञ सिद्धान्तस् ते भविष्यति । अत्रैवोदाहरिष्यामस् सिद्धान्तार्थोक्तिपञ्जरम्
इहाविद्यादिकाः केचिद् विद्यन्ते नेतरे क्रमाः । ज्ञास्यस्य् अलम् अशेषार्थम् एतद् अज्ञानसङ्क्षये
अवस्तुसङ्क्षये वस्तु यथावस्तु प्रसीदति । यथावद् दृश्यते दृश्यं जगन् नैशतमःक्षये
यद् इदम् अखिलम् आततं कुदृष्ट्या तद् उपशमे तव राम निर्मलाभे । अवितथवरदर्शने भविष्यत्य् अवितथम् एव न संशयो ऽत्र कश्चित्
क्षीरोदकुक्षितुल्याभिश् शीतलामलदीप्तिभिः । तवोक्तिभिर् विचित्राभिर् गम्भीराभिर् इहाभितः
क्षणम् आन्ध्यम् इवाप्नोमि क्षणं यामि प्रकाशताम् । शान्तातपबलः प्रावृड्लोलाभ्र इव वासरः
अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः । अनस्तमितसारस्य कलना कथम् आगता
यथाभूतार्थवाक्यार्थास् सर्वा एव ममोक्तयः । नासमर्थविरूपार्थाः पूर्वापरविरोधदाः
ज्ञानदृष्टौ प्रसन्नायां प्रबोधे प्रततोदये । यथावज् ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिम् इमाम् अलम्
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये । शब्दार्थवाक्यरचना भ्रमायेयं क्षणं तव
यदाधुना ज्ञास्यसि तत् सत्यम् अत्यन्तनिर्मलम् । वाच्यवाचकशब्दार्थभेदं ज्ञास्यसि वै तदा
भेदकृद् वाक्प्रपञ्चो ऽयम् उपदेश्येषु कल्पितः । स चाज्ञेष्व् एव न ज्ञेषु विद्यते पारमार्थिकः
कलनामलम् ईहादि किञ्चिन् नात्मनि विद्यते । नीरागं ब्रह्म निर्द्वन्द्वं तद् एवेदं जगत् स्थितम्
एतद् विचित्ररूपाभिर् उक्तिभिर् बहुशः पुनः । विस्तारेणैव वक्तव्यं सिद्धान्तावसरे ऽनघ
वाक्प्रपञ्चं विना त्व् एतद् अज्ञानम् अतुलं तमः । भेत्तुम् अन्योऽन्यम् उदितं यत्नं कर्तुं न शक्यते