आशामञ्जरिताकृतिं विवलितं दुःखाहिभिर् दारुणैर् भोगैः पल्लवितं जराकुसुमितं तृष्णालताभासुरम् । संसारं विषवृक्षम् आत्मनिगडं छित्त्वा विवेकासिना मुक्तस् त्वं विहरेह वारणपतिस् स्तम्भाद् इवोन्मोचितः
उत्पत्तिः कथम् एतेषां जीवानां ब्रह्मणः पदात् । कियती कीदृशी वेति विस्तरेण वद प्रभो
उत्पद्यन्ते यथा चित्रा ब्रह्मणो भूतजातयः । यथा नाशं प्रयान्त्य् एता यथा मुक्ता भवन्ति च
यथा च परिवर्धन्ते तिष्ठन्त्य् अन्तर्हिता यथा । तत् क्रमेण महाबाहो शृणु वक्ष्यामि ते ऽनघ
ब्राह्मी चिच्छक्तिर् अमला कलयन्ती यदृच्छया । सर्वशक्तिस् स्वयं चेत्यं भवत्य् आकलनात्मकम्
कलना घनताम् एत्य यत् किञ्चिद् अपि सा स्वयम् । सङ्कल्पयति पश्चात् तत् तत्ताम् एति मनःपदम्
मनस् सङ्कल्पमात्रेण गन्धर्वपुरवत् क्षणात् । तनोतीदम् असद् दृश्यं ब्राह्मीं दृष्टिम् इव त्यजत्
चित्स्वरूपं परिकचच् छून्यम् एवावतिष्ठते । यत् तद् दृश्यं स्थितं तस्माद् दृश्यम् आकाशम् एव नः
कृत्वा पद्मजसङ्कल्पं रूपं पश्यति पाद्मजम् । ततो जगत् कल्पयति स्वप्रजापतिपूर्वकम्
चतुर्दशविधानन्तभूतजातसघुङ्घुमम् । ज्ञप्तिर् एवम् इयं राम चित्तान् निर्मितिम् आगता
चित्तमात्रमयी शून्या व्योममात्रशरीरिका । सङ्कल्पमात्रनगरी भ्रान्तिमात्रात्मिकासती
इह काश्चिन् महामोहा भूतानां जातयस् स्थिताः । काश्चिद् अभ्युदितज्ञानाः काश्चिन् मध्ये स्खलन्ति हि
भुवि सम्बुध्यमानानां यान्तीनाम् उपदेश्यताम् । सर्वासां भूतजातीनां या एता नरजातयः
बह्वाधयो दुःखमय्यस् ता हि द्वेषभयातुराः । तासां मध्यात् प्रवक्ष्यामि तावद् राजससात्त्विकीम्
यत् तद् अस्त्य् अमृतं ब्रह्म सर्वव्यापि निरामयम् । चिदाभासम् अनन्ताख्यम् अनादि विगतभ्रमम्
निस्स्पन्दवपुषस् तस्य स्पन्दसत्तैकदेशतः । घनताम् एति सोम्ये ऽब्धौ चलत्वाच् चक्रताम् इव
अनन्तस्यात्मतत्त्वस्य एकदेशः क उच्यते । कथं विकारिता वा स्यात् कथं चावयविक्रमः
तेन जातं ततो जातम् इतीयं रचना गिराम् । शास्त्रसंव्यवहारार्थं न राम परमार्थतः
विकारितावयवितादिङ्मत्तादेशितादयः । क्रमा न सम्भवन्तीशे दृश्यमानोदया अपि
तं विना कल्पनैवान्या नास्ति नापि भविष्यति । कुतस्त्यौ क्रमशब्दार्थाव् उक्तयो व्यवहारजाः
येहा या कल्पना यो ऽर्थो यश् शब्दो यो ऽङ्गिनां गणः । तज्जत्वात् तन्मयत्वाच् च तत् तत् तन्मयम् इष्यते
तज्जस् स एव भवति वह्नेर् वह्निर् इवोत्थितः । जन्यो ऽयं जनकश् चायम् इत्य् उक्तौ भेदकल्पना
अयम् अस्मात् समुत्पन्न इतीयं या जगत्स्थितिः । आधिक्यं तत् क्रियाशक्तौ जन्यं जनकम् एव तत्
इदम् अन्यद् इदं चान्यद् इति शब्दार्थविभ्रमः । उक्ताव् एव न देवो ऽस्ति प्रमिते भिन्नता यतः
तज्जयैव मनश्शक्त्या स्वतस् सञ्ज्ञा प्रवर्तते । दृढभावनया तस्या इष्टो ऽर्थः प्रतिपद्यते
अग्नेश् शिखाया एकस्या द्वितीया जनिकेति या । उक्तिवैचित्र्यम् एवैतन् नोक्त्यर्थे ऽत्रास्ति सत्यता
न जन्यजनकाद्यास् तास् सम्भवन्त्य् उक्तयः परे । एकम् एव त्व् अनन्तं यत् किं कथं तज् जनिष्यते
उक्तेर् एष स्वभावो यद् उक्तैवोक्तिर् अनन्तरम् । प्रतियोगिव्यवच्छेदसङ्ख्याद्यर्थेन युज्यते
ऊर्मिजालम् इवाम्भोधौ परे यः परिदृश्यते । शब्दार्थकलनाकारस् तद् ब्रह्मैव विदुर् बुधाः
ब्रह्म चिद् ब्रह्म च मनो ब्रह्म ज्ञानम् अवस्तु च । ब्रह्मार्थो ब्रह्म शब्दश् च ब्रह्म दिग् ब्रह्म धातवः