नानैकताम् अतीतात् तु सर्वगाद् अमलात्मनः । द्वितीया कल्पनैवास्ति काचिन् नेतरथा क्वचित्
राशेर् अभावाद् अन्यस्य भावाभावाश् शुभाशुभाः । सृष्टयः परिकल्प्यन्ते नात्मनैवाथ वात्मनि
नासि रामो न चारामस् त्वम् इयं ब्रह्मसंस्थितिः । सर्वद्वन्द्वविनिर्मुक्तः कर्ता भव गतज्वरः
पुरः कृत्वा कृत्वा बहुविधम् इदं कर्म तरसा त्वया प्राप्यं किं तद् वद यद् उचितं भूतगणकात् । अकर्तृत्वे चास्था भवतु तव मावाञ्छनमतेर् भव स्वस्थस्वच्छस् स्थिततरमतिर् धैर्यजलधिः
गत्वा सुदूरम् अपि यत्नवता जनेन नासाद्यते तद् इह येन सुपूर्णतेति । मत्वेति सन्त्यज पदार्थगणं धिया त्वं तत्त्वं स्वम् एव परमार्थतया चिदात्मा
कुर्वतो ऽकुर्वतो वापि स्वर्गे वा नरके ऽपि वा । यादृग्वासनम् एतत् स्यान् मनस् तद् अनुभूयते
नानन्दो न निरानन्दो न चलं नाचलं स्थिरम् । न सन् नासन् न चैतेषां मध्यं ज्ञमननं विदुः
न मोक्षो ऽस्ति न संसारस् त्व् असक्तमनसाम् इह । संसक्तमनसां त्व् अन्तस् सर्वम् अस्ति यथास्थितम्
न बन्धो ऽस्ति न मोक्षो ऽस्ति न बध्यो ऽस्ति न बन्धनः । अप्रबोधाद् इदं दुःखं प्रबोधात् प्रविलीयते
सङ्कल्पिता जगति बन्धमतिर् मुधैव सङ्कल्पिता जगति मोक्षमतिर् मुधैव । सन्त्यज्य सर्वम् अनहङ्कृतिर् आत्मनिष्ठो धीरो धिया व्यवहरन् भुवि राम तिष्ठ
सर्वेषाम् एव जीवानां सर्वासाम् अभितो दृशाम् । समग्राणां पदार्थानाम् उत्पत्तिर् ब्रह्मणो ऽनिशम्
लोकाः पराद् उपायान्ति तस्मिन् स्थित्वा विशन्त्य् अलम् । तन्मया एव सततं तरङ्गा इव सागरे
ब्रह्मैवेदं स्थितं नाना मलम् अस्तीह नानघ । तरङ्गोर्मिगणैर् अम्भस् सिन्धौ स्फुरति नो रजः
द्वितीया कल्पनैवेह न रघूद्वह विद्यते । ब्रह्ममात्राद् ऋते वह्नाव् औष्ण्यमात्राद् ऋते यथा
निर्दुःखं ब्रह्म निर्धर्म तज्जं दुःखम् इदं जगत् । अस्पष्टार्थम् इदं ब्रह्मन् न वेद्मि वचनं तव
इत्य् उक्ते तत्र रामेण चिन्तयाम् आस चेतसा । वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने
परं विकासम् आयाता नास्य तावद् इयं मतिः । किञ्चिन् निर्मलतां प्राप्ता प्रोह्यते वेह वस्तुनि
व्युत्पन्नमनसस् त्व् अस्य ज्ञातज्ञेयस्य धीमतः । मोक्षोपायगिरां पारं प्रयातस्य विवेकतः
न कश्चित् कस्यचिद् दोषो नास्त्य् अविद्यात्मनीत्य् अलम् । यावन् नोक्तं न विश्रान्तिं तावद् यात्य् एव राघवः
अर्धव्युत्पन्नबुद्धेस् तु नैतत् वक्तुं हि शोभनम् । दृष्ट्यानया भोगदशां भावयन्न् एष नश्यति
परां दृष्टिं प्रयातस्य भोगेच्छा नाभिजायते । सर्वं ब्रह्मेति सिद्धान्तकाले रामस्य युज्यते
आदौ शमदमप्रायैर् गुणैश् शिष्यं विशोधयेत् । पश्चात् सर्वम् इदं ब्रह्म शुद्धस् त्वम् इति बोधयेत्
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियोजितः
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः । नास्त्य् अविद्यामलम् इति युक्तं वक्तुं महात्मनः
इति सञ्चिन्त्य भगवान् अज्ञानतिमिरापहः । समुवाच मुनिश्रेष्ठो वसिष्ठो भूमिभास्करः
कलङ्ककलना ब्रह्मण्य् अस्ति नास्तीति राघव । सिद्धान्तकाले वक्तव्यं स्वयं ज्ञास्यसि वानघ
स्मयविस्मयसम्मोहहर्षामर्षविकारिताम् । समताचलितस् तज्ज्ञो न कदाचन गच्छति
सति दीप इवालोकस् सत्य् अर्क इव वासरः । सति पुष्प इवामोदस् स्वतस् सम्पद्यते जगत्
आभासमात्रम् एवेदं परिदृश्यत एव वा । स्पन्दस् समीरणस्येव न सन् नासद् इव स्थितम्
नश्यतीह हि तद् वस्तु नात्मभूतं यद् आत्मनः । कथं नश्यति तद् वस्तु स्वात्मभूतं यद् आत्मनः