चतुर्दशविधानीह भूतानि भुवनान्तरे । नानाचारविहाराणि नानाविरचनानि च
पुनः पुनर् विलीयन्ते जायन्ते च पुनः पुनः । धारापरम्परापातवति वारीव बुद्बुदाः
आयाति याति परितिष्ठति रारटीति स्वार्थान् उपार्जयति धावति जन्मराशौ । उन्मत्तवद् विहितभावनम् आहितेहा मुग्धा कृतान्तविवशा जनता वराकी
इत्थं स्थिरचलाकारास् संसारावलयो ऽभितः । स्वभावाद् ब्रह्मणस् सर्वाः पुनर् आयान्ति यान्ति च
स्वतस् सर्वम् इदं जातम् अन्योऽन्यं हेतुतां गतम् । अन्योऽन्यम् अपि नश्यच् च स्वत एव विलीयते
स्वतस् स्तम्भनिभस् स्पन्दो यथागाधजलोदरे । तथैवेदम् असत् सच् च चिद् एव परिदृश्यते
व्योमन्य् एव निराभासे निदाघात् सरितो यथा । लक्ष्यन्ते तद्वद् एवेमाश् चित्तत्त्वे सृष्टिदृष्टयः
यथा मदवशाद् आत्मा स्वो ऽन्यवत् प्रतिभासते । तथैव चित्त्वाच् चिद्धातुस् स एवास इव स्थितः
न चेदं सद् असन् नेदं तत्स्थातत्स्थतया चितिः । नातिरिक्तातिरिक्ता च कटकादिषु हेमता
येन शब्दं रसं रूपं गन्धं जानासि राघव । सो ऽयम् आत्मा परं ब्रह्म सर्वम् आपूर्य संस्थितः
नानैकताम् अतीतात् तु सर्वगाद् अमलात्मनः । द्वितीया कल्पनैवास्ति काचिन् नेतरथा क्वचित्
राशेर् अभावाद् अन्यस्य भावाभावाश् शुभाशुभाः । सृष्टयः परिकल्प्यन्ते नात्मनैवाथ वात्मनि
नासि रामो न चारामस् त्वम् इयं ब्रह्मसंस्थितिः । सर्वद्वन्द्वविनिर्मुक्तः कर्ता भव गतज्वरः
पुरः कृत्वा कृत्वा बहुविधम् इदं कर्म तरसा त्वया प्राप्यं किं तद् वद यद् उचितं भूतगणकात् । अकर्तृत्वे चास्था भवतु तव मावाञ्छनमतेर् भव स्वस्थस्वच्छस् स्थिततरमतिर् धैर्यजलधिः
गत्वा सुदूरम् अपि यत्नवता जनेन नासाद्यते तद् इह येन सुपूर्णतेति । मत्वेति सन्त्यज पदार्थगणं धिया त्वं तत्त्वं स्वम् एव परमार्थतया चिदात्मा
कुर्वतो ऽकुर्वतो वापि स्वर्गे वा नरके ऽपि वा । यादृग्वासनम् एतत् स्यान् मनस् तद् अनुभूयते
नानन्दो न निरानन्दो न चलं नाचलं स्थिरम् । न सन् नासन् न चैतेषां मध्यं ज्ञमननं विदुः
न मोक्षो ऽस्ति न संसारस् त्व् असक्तमनसाम् इह । संसक्तमनसां त्व् अन्तस् सर्वम् अस्ति यथास्थितम्
न बन्धो ऽस्ति न मोक्षो ऽस्ति न बध्यो ऽस्ति न बन्धनः । अप्रबोधाद् इदं दुःखं प्रबोधात् प्रविलीयते
सङ्कल्पिता जगति बन्धमतिर् मुधैव सङ्कल्पिता जगति मोक्षमतिर् मुधैव । सन्त्यज्य सर्वम् अनहङ्कृतिर् आत्मनिष्ठो धीरो धिया व्यवहरन् भुवि राम तिष्ठ
सर्वेषाम् एव जीवानां सर्वासाम् अभितो दृशाम् । समग्राणां पदार्थानाम् उत्पत्तिर् ब्रह्मणो ऽनिशम्
लोकाः पराद् उपायान्ति तस्मिन् स्थित्वा विशन्त्य् अलम् । तन्मया एव सततं तरङ्गा इव सागरे
ब्रह्मैवेदं स्थितं नाना मलम् अस्तीह नानघ । तरङ्गोर्मिगणैर् अम्भस् सिन्धौ स्फुरति नो रजः
द्वितीया कल्पनैवेह न रघूद्वह विद्यते । ब्रह्ममात्राद् ऋते वह्नाव् औष्ण्यमात्राद् ऋते यथा
निर्दुःखं ब्रह्म निर्धर्म तज्जं दुःखम् इदं जगत् । अस्पष्टार्थम् इदं ब्रह्मन् न वेद्मि वचनं तव
इत्य् उक्ते तत्र रामेण चिन्तयाम् आस चेतसा । वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने
परं विकासम् आयाता नास्य तावद् इयं मतिः । किञ्चिन् निर्मलतां प्राप्ता प्रोह्यते वेह वस्तुनि
व्युत्पन्नमनसस् त्व् अस्य ज्ञातज्ञेयस्य धीमतः । मोक्षोपायगिरां पारं प्रयातस्य विवेकतः
न कश्चित् कस्यचिद् दोषो नास्त्य् अविद्यात्मनीत्य् अलम् । यावन् नोक्तं न विश्रान्तिं तावद् यात्य् एव राघवः
अर्धव्युत्पन्नबुद्धेस् तु नैतत् वक्तुं हि शोभनम् । दृष्ट्यानया भोगदशां भावयन्न् एष नश्यति