विचारणासमधिगतात्मदीपके मनस्य् अलं व्यपगलिते च धीरधीः । विलोकयन् क्षयभयनीरसा गतीर् गतज्वरो विलसति देहपत्तने
यथेदं संस्थितं विश्वं विश्वातीते चिदात्मनि । तन् मे कथय हे ब्रह्मन् पुनर् बोधाभिवृद्धये
यथोर्मयो ऽनभिव्यक्ता भाविनः पयसि स्थिताः । न स्थिताश् चाप्य् अलक्ष्यत्वाच् चित्तत्त्वे सृष्टयस् तथा
यथा सर्वगतस् सौक्ष्म्याद् आकाशो नोपलभ्यते । तथा निरंशश् चिद्भागस् सर्वगो ऽपि न लक्ष्यते
अस्थितैव स्थितैवान्तः प्रतिमास्त्री मणौ यथा । न सत्यभूता नासत्या तथेयं सृष्टिर् आत्मनि
खाधारैर् अम्बुदैः खस्थैर् न स्पृष्टं गगनं यथा । चित्स्थैस् सर्गैश् चिदाधारैर् न स्पृष्ता चित् परा तथा
जलधिष्व् एव नो मह्यां यथाग्निः प्रतिबिम्बति । तथा पुर्यष्टकेष्व् एव चिन् न देहेषु लक्ष्यते
सर्वसङ्कल्परहिता सर्वसञ्ज्ञाविवर्जिता । सैषा चिद् अविनाशात्मतत्त्वोक्त्यादिकृताभिधा
आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी । सकलामलसंसारस्वरूपैकात्मदर्शिनी
तरङ्गादिमयी स्फारा नानाता सलिलार्णवे । चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते
चिच् चिनोति चितं चेत्यं तेनेदं स्थितम् आत्मनि । ज्ञे ऽज्ञे त्व् अन्यत्वम् आयातम् अन्यद् अस्तीति कल्पनात्
अज्ञेष्व् असत्स्वभावोग्रसंसारगणरूपिणी । ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती
अनुभूतिवशान् नित्यम् अर्कादीनां प्रकाशिनी । स्वादनी सर्वभावानां भावनी भवभाविनाम्
नास्तम् एति न चोदेति नोत्तिष्ठति न तिष्ठति । न च याति न चायाति न चेह न च नेह चित्
सैषा चिद् अमलाकारा स्वयम् आत्मनि संस्थिता । राघवेत्थं प्रपञ्चेन जगन्नाम्ना विजृम्भते
तेजःपुञ्जैर् यथा तेजः पयःपूरैर् यथा पयः । परिस्फुरति सस्पन्दैस् तथा चित् सर्गसम्भ्रमैः
तत्स्वभावेन चिन्नाम्ना सर्वगेनोदितात्मना । प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा
स्वयं स्ववलनायोगाद् अनन्तं पदम् उज्झता । अयं सो ऽस्मीति भावेन गच्छताज्ञपदं शनैः
नानातायां प्ररूढायाम् अस्यां संसृतिपूर्वकम् । भावाभावग्रहोत्सर्गपदे स्थितिम् उपागते
पुर्यष्टकं स्पन्दशतैः करोति न करोति च । उत्सेधम् एति भूकोशकोटरस्थो ऽङ्कुरोत्करः
व्योम सौषिर्यम् आदत्ते सर्वमूर्त्यविरोधि यत् । स्पन्दैकधर्मवान् वातो रसरूपि यथा जलम्
दृढोर्वी प्रकटं तेजस् स्थितिमन्ति जगन्ति च । प्रतिबन्धाभ्यनुज्ञासु कालः कलनया स्थितः
पुष्पं लतान्तम् आयाति शनैस् सञ्चितकेसरम् । मृत्कोटररसोल्लासस् तृणताम् एति भूतले
मूलस्थाः फलम् आयान्ति पेलवा रसलेशकाः । सन्निवेशं व्रजन्त्य् एता रेखाः पल्लवपालिषु
रचनाम् अनुगृह्णन्ति शक्रबाणासने ऽणवः । योगो भवत्य् अविरतं संस्थानेन नवो नवः
वसन्तम् उपतिष्ठन्ते पुष्पपल्लवराशयः । निदाघविधिम् आयान्ति दावदाहविभूतयः
प्रावृट्समयम् ईहन्ते नीला जलदराजयः । शरदं चानुधावन्ति समग्राः फलराशयः
हिमन्तौ हिमहासिन्यो भवन्ति ककुभो दश । नयन्त्य् उपलताम् अम्बु शिशिरे शीतलानिलाः
न जहाति स्वमर्यादां कालो युगमयीम् इमाम् । तरङ्गिणीतरङ्गौघलीलया यान्ति सृष्टयः
नियतिस् स्थितिम् आयाति स्थैर्यचातुर्यकारिणी । तिष्ठत्य् आप्रलयं धीरा धरा धरणधर्मिणी