आत्मैवेदं जगद् इति विना भावेन दुःखदा । दृश्यश्रीर् अन्यथा त्व् एषा भोगमोक्षैकदायिनी
जलम् अन्यत् तरङ्गो ऽन्य इति नानातयाज्ञता । जलम् एव तरङ्गो ऽयम् इत्य् एकत्वात् किल ज्ञता
अज्ञत्वाद् दुःखम् आयाति हेयोपादेयरूपि यत् । तदभावेन तु ज्ञत्वाद् आनन्त्यम् अवशिष्यते
सङ्कल्पकल्पितत्वाच् च मनोरूपम् असन्मयम् । असन्मयविनाशे तु कः क्लेशो वद राघव
अवत्सलो यथा बन्धुर् अरागद्वेषया धिया । दृश्यते पश्य तद्वत् त्वं दृश्यपञ्जरम् आत्मनः
अवत्सलाद् यथा बन्धोस् सुखदुःखैर् न लिप्यते । परत्वसम्परिज्ञातात् तथा तत्त्वचयात्मनः
तद् अनादि शिवं ज्ञानं यन् मध्यं द्रष्टृदृश्ययोः । तस्मिन् सत्ये मनश् शान्तं पांसुर् वायुक्षये यथा
उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति । पुनस् संसारनगरे न नीहारः प्रवर्तते
वासनाप्रावृषि क्षीणसंस्थितौ शमम् आगते । जाड्ये जनितहृत्कम्पे पङ्के शोषम् उपागते
शुष्कतृष्णालतेष्व् अन्तर् महाहृदयकानने । अक्षक्षीणकदम्बेषु मिथ्याज्ञानघने क्षते
क्षीयते मोहमिहिका प्रभात इव शर्वरी । क्वापि गच्छति तज् जाड्यं विषं मन्त्रहतं यथा
देहाद्रौ न नवच्छिद्रसरितः प्रस्रवन्त्य् अलम् । नोल्लसन्ति लसत्पक्षास् सङ्कल्पोग्रकलापिनः
परां निर्मलताम् एति स्वचिदाकाशकोटरम् । राजते ऽतितराम् अच्छो जीवादित्यो महोदयः
घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः । शमम् एत्यातिशोभन्ते धौता आशामहादिशः
भृशम् आभाति विमला मुदिताकाशमञ्जरी । शीतलीकृतदिक्चक्रा शरद्व्योम्नीव चन्द्रिका
सर्वसम्पत्प्रकाशेन परमानन्दशालिनी । भृशं सफलताम् एति सुविविक्ता विवेकभूः
सपर्वतवनाभोगं परमालोकसुन्दरम् । अच्छाच्छं शीतलच्छायं जायते भुवनान्तरम्
विस्तारितां सुशमतां स्फारितां स्फुटिकाच्छताम् । उपैति हृत्सरस् स्वच्छनीरुगम्भोजकोटरम्
हृत्पद्मकोशान् मलिनस् स्वाहङ्कारमधुव्रतः । अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति
भवत्य् अपगतापेक्षस् सर्वगस् सर्वनायकः । निर्वासनश् शान्तमनास् स्वदेहनगरेश्वरः
विचारणासमधिगतात्मदीपके मनस्य् अलं व्यपगलिते च धीरधीः । विलोकयन् क्षयभयनीरसा गतीर् गतज्वरो विलसति देहपत्तने
यथेदं संस्थितं विश्वं विश्वातीते चिदात्मनि । तन् मे कथय हे ब्रह्मन् पुनर् बोधाभिवृद्धये
यथोर्मयो ऽनभिव्यक्ता भाविनः पयसि स्थिताः । न स्थिताश् चाप्य् अलक्ष्यत्वाच् चित्तत्त्वे सृष्टयस् तथा
यथा सर्वगतस् सौक्ष्म्याद् आकाशो नोपलभ्यते । तथा निरंशश् चिद्भागस् सर्वगो ऽपि न लक्ष्यते
अस्थितैव स्थितैवान्तः प्रतिमास्त्री मणौ यथा । न सत्यभूता नासत्या तथेयं सृष्टिर् आत्मनि
खाधारैर् अम्बुदैः खस्थैर् न स्पृष्टं गगनं यथा । चित्स्थैस् सर्गैश् चिदाधारैर् न स्पृष्ता चित् परा तथा
जलधिष्व् एव नो मह्यां यथाग्निः प्रतिबिम्बति । तथा पुर्यष्टकेष्व् एव चिन् न देहेषु लक्ष्यते
सर्वसङ्कल्परहिता सर्वसञ्ज्ञाविवर्जिता । सैषा चिद् अविनाशात्मतत्त्वोक्त्यादिकृताभिधा
आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी । सकलामलसंसारस्वरूपैकात्मदर्शिनी
तरङ्गादिमयी स्फारा नानाता सलिलार्णवे । चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते