सर्वगे स्वात्मनि स्वच्छे यैषा प्रमितिभावना । एतत् तद् बन्धनं लोके स्वविकल्पोपकल्पितम्
बन्धमोक्षदशाहीना द्वित्वैकत्वविवर्जिता । सर्वैव ब्रह्मसत्तेयम् इत्य् एषा परमार्थता
मनो निर्मलतां यातम् असक्तं सर्वदृष्टिषु । अमनस्ताम् इवापन्नं ब्रह्म पश्यति नान्यथा
मनो निर्मलतां यातं शुभसन्तानवारिभिः । ब्राह्मीं दृष्टिम् उपादत्ते रङ्गं शुक्लः पटो यथा
सर्वम् एव ममात्मेति सत्यभावनयानघ । हेयादेयदले क्षीणे बन्धमोक्षौ किम् उच्यताम्
शुद्धस्य मनसः कायश् शास्त्रवैराग्यबुद्धिभिः । अभिजातोपलस्येव गलत्य् अभ्येति च द्युतिः
पदार्थेनैकताम् एत्य मनसो यैकतानता । असम्यग्ज्ञानदृष्टिं तां विद्धि क्षणविनाशिनीम्
सबाह्याभ्यन्तरं त्यक्त्वा सर्वा दृश्यदृशो यदा । मनस् तिष्ठति संलीनं सम्प्राप्तं तत् पदं तदा
दृश्यदृष्टिस् स्फुटा येयं सा ह्य् अवश्यम् असन्मयी । तन्मयत्वं च मनसस् स्वरूपं विद्धि नेतरत्
आद्यन्तयोर् विनाशित्वान् मध्ये ऽपि तद् असन्मयम् । कुज्ञानमनसस् तेन दुःखिता हस्तसंस्थिता
आत्मैवेदं जगद् इति विना भावेन दुःखदा । दृश्यश्रीर् अन्यथा त्व् एषा भोगमोक्षैकदायिनी
जलम् अन्यत् तरङ्गो ऽन्य इति नानातयाज्ञता । जलम् एव तरङ्गो ऽयम् इत्य् एकत्वात् किल ज्ञता
अज्ञत्वाद् दुःखम् आयाति हेयोपादेयरूपि यत् । तदभावेन तु ज्ञत्वाद् आनन्त्यम् अवशिष्यते
सङ्कल्पकल्पितत्वाच् च मनोरूपम् असन्मयम् । असन्मयविनाशे तु कः क्लेशो वद राघव
अवत्सलो यथा बन्धुर् अरागद्वेषया धिया । दृश्यते पश्य तद्वत् त्वं दृश्यपञ्जरम् आत्मनः
अवत्सलाद् यथा बन्धोस् सुखदुःखैर् न लिप्यते । परत्वसम्परिज्ञातात् तथा तत्त्वचयात्मनः
तद् अनादि शिवं ज्ञानं यन् मध्यं द्रष्टृदृश्ययोः । तस्मिन् सत्ये मनश् शान्तं पांसुर् वायुक्षये यथा
उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति । पुनस् संसारनगरे न नीहारः प्रवर्तते
वासनाप्रावृषि क्षीणसंस्थितौ शमम् आगते । जाड्ये जनितहृत्कम्पे पङ्के शोषम् उपागते
शुष्कतृष्णालतेष्व् अन्तर् महाहृदयकानने । अक्षक्षीणकदम्बेषु मिथ्याज्ञानघने क्षते
क्षीयते मोहमिहिका प्रभात इव शर्वरी । क्वापि गच्छति तज् जाड्यं विषं मन्त्रहतं यथा
देहाद्रौ न नवच्छिद्रसरितः प्रस्रवन्त्य् अलम् । नोल्लसन्ति लसत्पक्षास् सङ्कल्पोग्रकलापिनः
परां निर्मलताम् एति स्वचिदाकाशकोटरम् । राजते ऽतितराम् अच्छो जीवादित्यो महोदयः
घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः । शमम् एत्यातिशोभन्ते धौता आशामहादिशः
भृशम् आभाति विमला मुदिताकाशमञ्जरी । शीतलीकृतदिक्चक्रा शरद्व्योम्नीव चन्द्रिका
सर्वसम्पत्प्रकाशेन परमानन्दशालिनी । भृशं सफलताम् एति सुविविक्ता विवेकभूः
सपर्वतवनाभोगं परमालोकसुन्दरम् । अच्छाच्छं शीतलच्छायं जायते भुवनान्तरम्
विस्तारितां सुशमतां स्फारितां स्फुटिकाच्छताम् । उपैति हृत्सरस् स्वच्छनीरुगम्भोजकोटरम्
हृत्पद्मकोशान् मलिनस् स्वाहङ्कारमधुव्रतः । अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति
भवत्य् अपगतापेक्षस् सर्वगस् सर्वनायकः । निर्वासनश् शान्तमनास् स्वदेहनगरेश्वरः