शुभवासनागर्भा धीः प्रसूते सुगुणान् सदा । फलदान् अङ्कुरान् काले श्रेष्ठबीजवतीव भूः
शुभभावानुसन्धानात् प्रसन्ने मनसि स्थिते । शनैश् शनैः प्रशान्ते च मिथ्याज्ञानघनाम्बुदे
वृद्धिं गते च सौजन्ये शुक्लपक्ष इवोडुपे । विवेके प्रसृते पुण्ये जगतीवार्कतेजसि
धृताव् अन्तर् विवृद्धायां मुक्तायाम् इव कीचके । स्थिताव् अन्तः कृतास्थायां रुचाव् इव निशाकरे
फलिते शीतलच्छाये सत्सङ्गसफलद्रुमे । स्रवत्य् आनन्दसुरसं समाधिसरलद्रुमे
मनो भवति निर्द्वन्द्वं निष्कामम् अनुपद्रवम् । प्रशान्तचापलानर्थलोभमोहभयामयम्
क्षीणशास्त्रार्थसन्देहं विगताशेषकौतुकम् । निरस्तकल्पनाजालं जीवन्मुक्तम् अलेपकम्
निरीहं निरुपाक्रोशं निरपेक्षं निराधि च । संशान्तशोकनीहारम् असक्तं ग्रन्थिवर्जितम्
स्वेन्द्रियोग्रसुतं सूतं सतृष्णादारपञ्जरम् । नाशयित्वा स्वम् आत्मानं साधयत्य् अर्थम् ऐश्वरम्
आत्मपीवरताहेतून् विकल्पान् स्वयम् उज्झति । सद्भृत्यः प्रभुकृत्येषु जहाति तृणवत् तनुम्
मनसो ऽभ्युदयो नाशो मनोनाशो महोदयः । ज्ञमनो नाशम् अभ्येति मनो ऽज्ञस्य विवर्धते
मनोमात्रं जगच्चक्रं मनः पर्वतमण्डलम् । मनो व्योम मनो देहो मनो मित्रं मनो रिपुः
विकल्पकलुषा या स्याच् चित्तत्त्वस्यात्मविस्मृतिः । मन इत्य् उच्यते सेयं वासना भवभागिनी
चेत्यानुपातकलितं चिन्मात्रेतिक्षताभिधम् । मनाग् विकल्पकलुषं चित्तत्त्वं जीव उच्यते
चेत्यप्रपतितं रूढसञ्ज्ञम् अज्ञत्वम् आगतं । तद् एवाधिकविस्तारं कल्प्यते तन्मनस्तया
नात्मा संसारपुरुषो न शरीरं न शोणितम् । जडं सर्वं शरीरादि देही खवद् अलेपकः
शरीरे कणशः कृत्ते नास्त्य् अन्यद् रुधिरादिकात् । निर्भिन्ने कदलीस्तम्भे नास्त्य् अन्यत् पल्लवाद् ऋते
मनो जीवं नरं विद्धि तद् एवाकारम् आगतम् । आत्मनात्मानम् आदत्ते स्वविकल्पांशकल्पितम्
स्वविकल्पान् नरस् तन्तून् प्रसार्य रचयत्य् अलम् । जालम् आत्मनिबन्धाय कोशकारः क्रिमिर् यथा
इमं देहभ्रमं त्यक्त्वा देशकालान्तरे पुनः । शरीरम् अन्यद् आदत्ते पल्लवत्वम् इवाङ्कुरः
यादृग्वासनम् एतत् स्यान् मनस् तादृक् प्रजायते । जनस् स्वपिति यच्चित्तस् तत् स्वप्ने निशि पश्यति
अम्ब्लम् अम्ब्लरसासिक्तं मधुरं मधुरञ्जितम् । बीजं प्रतिविषाकल्कसिक्तं च कटु जायते
शुभवासनया चेतो महत्या जायते महत् । भवतीन्द्रमनोराज्याद् इन्द्रतास्वप्नभाङ् नरः
क्षुद्रवासनया चेतः क्षुद्रताम् एति पेलवाम् । पिशाचविभ्रमात् स्वस्थः पिशाचान् निशि पश्यति
मनसि स्फारनैर्मल्ये कालुष्यं याति न स्थितिम् । तथैव स्फारकालुष्ये प्रसादो याति न स्थितिम्
मनसि स्फारकालुष्ये तद्रूपं जायते फलम् । तथैव स्फारनैर्मल्ये तद्रूपं जायते फलम्
त्यजत्य् उदारां न गतिं क्षीणो ऽप्य् अत्यन्तम् उत्तमः । उद्योगवान् अविरतं पूरणाशाम् इवोडुपः
नेह बन्धो न मोक्षो ऽस्ति न बध्यो न च बन्धनम् । मिथ्योत्थितैव मायेयम् इन्द्रजाललता यथा
गन्धर्वनगराकारो मृगतृष्णाक्रमोत्थितः । द्विचन्द्रविभ्रमाभासस् संसारो ऽयम् असन्मयः
नानन्तो ऽहं वराको ऽहम् इति दुर्निश्चयोदितः । अनन्तो ऽस्मि परो ऽस्मीति निश्चयेन विलीयते