असक्तबुद्धिभिर् नित्यं हतान्यैर् अप्य् अहन्तृभिः । वासनाजालनिर्मुक्तैः कृतकार्यैर् अकर्तृभिः
प्रभोः कार्यम् इदं कार्यम् इति सङ्गरतत्परैः । वीतरागैर् गतद्वेषैस् सततं समदृष्टिभिः
सा दैवी दानवैस् सेना भीमभासद्रुटादिभिः । हता भुक्ता क्षता प्लुष्टा स्वान्त्रश्रीर् इव भोक्तृभिः
भीमभासद्रुटक्षुण्णा ततो गीर्वाणवाहिनी । परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता
सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् । जगाम शरणं शैलं वातान्तेवाब्दमालिका
विष्णुर् आश्वासयाम् आस तां भीतां देववाहिनीम् । भुजगाभिद्रुताम् एकां रमणीम् इव नायकः
अथ क्षीरोदकुहरे तावत् सा सुरवाहिनी । उवास यावद् भगवान् अरिनाशार्थम् उद्ययौ
बभूव दारुणं युद्धं शौरिशम्बरयोस् ततः । अकाल इव कल्पान्तस् समुड्डीनकुलाचलः
शशाम समरे तस्मिन् दैत्यस् सबलवाहनः । नारायणहतो यातश् शम्बरो वैष्णवीं पुरीम्
भीमभासद्रुटास् ते तु तस्मिन् विषमसङ्गरे । विष्णुनैव शमं नीताः पवनेनेव दीपकाः
ते हि निर्वासना एव यदा शान्तिम् उपागताः । तदैतेषां गतिर् जाता दीपानाम् इव शाम्यताम्
तस्माद् वासनया बद्धं मुक्तं निर्वासनं मनः । राम निर्वासनीभावम् आहराशु विवेकतः
सम्यगालोकनात् सत्याद् वासना प्रविलीयते । वासनाविलये चेतश् शमम् आयाति दीपवत्
न सत्यं किञ्चिद् एवेह यद्भावो भावयत्य् अलम् । नास्त्य् एव भावना तस्माद् इत्य् एतत् सम्यगीक्षणम्
वासनाचित्तनामानौ शब्दाव् अर्थसमन्वितौ । सत्यावलोकनाद् यत्र विलीनौ तत् परं पदम्
आत्मैवेदं जगत् सर्वं कः किं भावयतु क्व वा । भावना नाम नास्त्य् एव एतत् तत् सम्यगीक्षणम्
वासनावलितं चित्तम् इह स्थितिम् उपागतम् । तद् एव तद्विनिर्मुक्तं विमुक्तम् इति कथ्यते
नानाघटपटाकारैश् चेतस् स्थितिम् उपागतम् । तद् एवाशु शमं नेयं मिथ्या यक्ष इवोत्थितः
दामव्यालकटाकारैश् चेतः परिणतं यथा । भीमभासद्रुटाकारैश् चेतः परिणतं तथा
भीमभासद्रुटन्यायो राघवास्त्व् अचलस् तव । दामव्यालकटन्यायो मा ते भवतु राघव
एतद् राम पुरा प्रोक्तं पित्रा कमलजेन मे । भवते ऽद्य मया प्रोक्तं शिष्यायात्यन्तधीमते
दामव्यालकटन्यायस् तस्मान् मा ते ऽस्तु राघव । भीमभासद्रुटन्यायो नित्यम् अस्तु तवानघ
अविरलसुखदुःखसङ्कटेयं भवपदवी भवभावनोपयाता । व्यवहरणवतो ऽपि भूतजातौ सततम् असक्ततया विनश्यतीति
जयन्ति ते सदा शूरास् साधवो यैर् विनिर्जितम् । अविद्यामदिरोल्लासि स्वमनो विषयोन्मुखम्
संसारस्यास्य दुःखस्य सर्वोपद्रवदायिनः । उपाय एक एवास्ति मनसस् स्वस्य निग्रहः
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । भोगेच्छामात्रको बन्धस् तत्त्यागो मोक्ष उच्यते
किम् अन्यैश् शास्त्रसन्दर्भैः श्रूयताम् इदम् एव तत् । यद् यत् स्वाद्व् अङ्ग तत् सर्वं दृश्यतां विषवह्निवत्
विषया विषमाभोगाः प्रविचार्याः पुनः पुनः । ते ह्य् अनिष्टाः परित्याज्यास् सेव्यमानास् सुखावहाः
दोषान् प्रसूते सस्फारान् वासनावासिता मतिः । कीर्णकण्टकबीजा भूः कण्टकप्रसरं यथा
अलग्नवासनागर्भा मतिः प्रसरवर्जिता । अदृष्टरागद्वेषा सा शमम् एति शनैः परम्