ततस् तत्त्वपरिज्ञानान् मिथ्या भावनयोत्थितम् । नाहङ्कारं प्रयास्यन्ति विजेष्यन्ति च तान् सुरान्
इति सञ्चिन्त्य दैत्येन्द्रस् तादृशान् दानवाधिपान् । माययोत्पादयाम् आस बुद्बुदान् इव वारिधिः
सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः । यथाप्राप्तैककर्तारो भावितात्मान उत्तमाः
भीमो भासो द्रुट इति नामभिः परिलाञ्छिताः । जगत् तृणम् इवाशेषं पश्यन्तः पावनाशयाः
ते स्म दैत्या भुवं प्राप्य च्छादयाम् आसुर् अम्बरम् । गर्जन्तो हेतितडितः प्रावृषीव पयोधराः
अयुध्यन्त समं देवैर् अपि वर्षगणान् बहून् । विवेकवशतो जग्मुर् नाहङ्कारं कदाचन
तेषां यावद् उदेत्य् अन्तर् ममेदम् इति वासना । तावत् को ऽयम् अहं चेति विचाराद् यात्य् असत्यताम्
असच् छरीरं चिच् छुद्धा को ऽसाव् अहम् इति स्थितः । विचाराद् इत्थम् एतेषां प्रोदगुर् न भयादयः
असच् छरीरं नास्तीदं चिच् छुद्धैवात्मनि स्थिता । अहं नाम न चान्यो ऽस्ति निश्चित्येत्य् असुरा बभुः
ततस् तैर् निरहङ्कारैर् जरामरणनिर्भयैः । प्राप्तानुकारिभिर् वीरैर् वर्तमानानुवर्तिभिः
असक्तबुद्धिभिर् नित्यं हतान्यैर् अप्य् अहन्तृभिः । वासनाजालनिर्मुक्तैः कृतकार्यैर् अकर्तृभिः
प्रभोः कार्यम् इदं कार्यम् इति सङ्गरतत्परैः । वीतरागैर् गतद्वेषैस् सततं समदृष्टिभिः
सा दैवी दानवैस् सेना भीमभासद्रुटादिभिः । हता भुक्ता क्षता प्लुष्टा स्वान्त्रश्रीर् इव भोक्तृभिः
भीमभासद्रुटक्षुण्णा ततो गीर्वाणवाहिनी । परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता
सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् । जगाम शरणं शैलं वातान्तेवाब्दमालिका
विष्णुर् आश्वासयाम् आस तां भीतां देववाहिनीम् । भुजगाभिद्रुताम् एकां रमणीम् इव नायकः
अथ क्षीरोदकुहरे तावत् सा सुरवाहिनी । उवास यावद् भगवान् अरिनाशार्थम् उद्ययौ
बभूव दारुणं युद्धं शौरिशम्बरयोस् ततः । अकाल इव कल्पान्तस् समुड्डीनकुलाचलः
शशाम समरे तस्मिन् दैत्यस् सबलवाहनः । नारायणहतो यातश् शम्बरो वैष्णवीं पुरीम्
भीमभासद्रुटास् ते तु तस्मिन् विषमसङ्गरे । विष्णुनैव शमं नीताः पवनेनेव दीपकाः
ते हि निर्वासना एव यदा शान्तिम् उपागताः । तदैतेषां गतिर् जाता दीपानाम् इव शाम्यताम्
तस्माद् वासनया बद्धं मुक्तं निर्वासनं मनः । राम निर्वासनीभावम् आहराशु विवेकतः
सम्यगालोकनात् सत्याद् वासना प्रविलीयते । वासनाविलये चेतश् शमम् आयाति दीपवत्
न सत्यं किञ्चिद् एवेह यद्भावो भावयत्य् अलम् । नास्त्य् एव भावना तस्माद् इत्य् एतत् सम्यगीक्षणम्
वासनाचित्तनामानौ शब्दाव् अर्थसमन्वितौ । सत्यावलोकनाद् यत्र विलीनौ तत् परं पदम्
आत्मैवेदं जगत् सर्वं कः किं भावयतु क्व वा । भावना नाम नास्त्य् एव एतत् तत् सम्यगीक्षणम्
वासनावलितं चित्तम् इह स्थितिम् उपागतम् । तद् एव तद्विनिर्मुक्तं विमुक्तम् इति कथ्यते
नानाघटपटाकारैश् चेतस् स्थितिम् उपागतम् । तद् एवाशु शमं नेयं मिथ्या यक्ष इवोत्थितः
दामव्यालकटाकारैश् चेतः परिणतं यथा । भीमभासद्रुटाकारैश् चेतः परिणतं तथा
भीमभासद्रुटन्यायो राघवास्त्व् अचलस् तव । दामव्यालकटन्यायो मा ते भवतु राघव