भावाद् अहङ्कृतिं त्यक्त्वा स्थूलाम् एतां हि लौकिकीम् । तिष्ठन् व्यवहरन् वापि न नरः प्रपतत्य् अधः
संशान्ताहङ्कृतेर् जन्तोर् भोगरोगा महामतेः । न स्वदन्ते सुतृप्तस्य यथा प्रतिविषारसाः
भोगेष्व् अस्वदमानेषु पुंसश् श्रेयः पुरोगतम् । क्षीणे ऽन्धकारे किं नाम मनसो ऽन्यत् प्रवर्तते
अहङ्कारानुसन्धानवर्जनाद् एव राघव । पौरुषैकप्रयत्नोत्थात् तीर्यते भवसागरः
नाहं न नाम मम किञ्चिद् अपीति मत्वा सर्वं च मे सकलम् अप्य् अहम् एव वेति । लब्धास्पदां मनसि संविदम् एवम् ईड्यां नीत्वा स्थितिं परम् उपैति पदं महात्मा
अत्र ते शृणु वक्ष्यामि दामादिषु गतेष्व् अथ । यद् वृत्तं शम्बरस्यैव नगरे नगसन्निभे
तथा गगनविभ्रष्टे समस्ते ध्वस्तसंस्थितौ । विनष्टे शम्बरानीके शरदीवाभ्रमण्डले
देवनिर्जितसैन्यो ऽसौ नीत्वा कतिपयास् समाः । पुनर् देववधोद्युक्तश् चिन्तयाम् आस दानवः
दामादयस् ते रचिता ये मया माययासुराः । मौर्ख्यात् तैर् भाविता युद्धे मिथ्यैवान्तर् अहङ्कृतिः
इदानीं संसृजाम्य् अन्यान् दानवान् माययोदितान् । तान् अथाप्य् आत्मशास्त्रज्ञान् सविवेकान् करोम्य् अहम्
ततस् तत्त्वपरिज्ञानान् मिथ्या भावनयोत्थितम् । नाहङ्कारं प्रयास्यन्ति विजेष्यन्ति च तान् सुरान्
इति सञ्चिन्त्य दैत्येन्द्रस् तादृशान् दानवाधिपान् । माययोत्पादयाम् आस बुद्बुदान् इव वारिधिः
सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः । यथाप्राप्तैककर्तारो भावितात्मान उत्तमाः
भीमो भासो द्रुट इति नामभिः परिलाञ्छिताः । जगत् तृणम् इवाशेषं पश्यन्तः पावनाशयाः
ते स्म दैत्या भुवं प्राप्य च्छादयाम् आसुर् अम्बरम् । गर्जन्तो हेतितडितः प्रावृषीव पयोधराः
अयुध्यन्त समं देवैर् अपि वर्षगणान् बहून् । विवेकवशतो जग्मुर् नाहङ्कारं कदाचन
तेषां यावद् उदेत्य् अन्तर् ममेदम् इति वासना । तावत् को ऽयम् अहं चेति विचाराद् यात्य् असत्यताम्
असच् छरीरं चिच् छुद्धा को ऽसाव् अहम् इति स्थितः । विचाराद् इत्थम् एतेषां प्रोदगुर् न भयादयः
असच् छरीरं नास्तीदं चिच् छुद्धैवात्मनि स्थिता । अहं नाम न चान्यो ऽस्ति निश्चित्येत्य् असुरा बभुः
ततस् तैर् निरहङ्कारैर् जरामरणनिर्भयैः । प्राप्तानुकारिभिर् वीरैर् वर्तमानानुवर्तिभिः
असक्तबुद्धिभिर् नित्यं हतान्यैर् अप्य् अहन्तृभिः । वासनाजालनिर्मुक्तैः कृतकार्यैर् अकर्तृभिः
प्रभोः कार्यम् इदं कार्यम् इति सङ्गरतत्परैः । वीतरागैर् गतद्वेषैस् सततं समदृष्टिभिः
सा दैवी दानवैस् सेना भीमभासद्रुटादिभिः । हता भुक्ता क्षता प्लुष्टा स्वान्त्रश्रीर् इव भोक्तृभिः
भीमभासद्रुटक्षुण्णा ततो गीर्वाणवाहिनी । परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता
सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् । जगाम शरणं शैलं वातान्तेवाब्दमालिका
विष्णुर् आश्वासयाम् आस तां भीतां देववाहिनीम् । भुजगाभिद्रुताम् एकां रमणीम् इव नायकः
अथ क्षीरोदकुहरे तावत् सा सुरवाहिनी । उवास यावद् भगवान् अरिनाशार्थम् उद्ययौ
बभूव दारुणं युद्धं शौरिशम्बरयोस् ततः । अकाल इव कल्पान्तस् समुड्डीनकुलाचलः
शशाम समरे तस्मिन् दैत्यस् सबलवाहनः । नारायणहतो यातश् शम्बरो वैष्णवीं पुरीम्
भीमभासद्रुटास् ते तु तस्मिन् विषमसङ्गरे । विष्णुनैव शमं नीताः पवनेनेव दीपकाः