अहम्भावो ऽङ्कुरो जन्मवृक्षाणाम् अक्षयात्मनाम् । ममेदम् इति विस्तीर्णास् तेषाम् शाखास् सहस्रशः
कचटा वातविस्फोटा भान्त्य् अर्था वासनोदयाः । विदार्यदारुरववत् तरङ्गारवपङ्क्तिवत्
अहम्भावमहानाभिं त्वम् अहम्भाववर्जितः । संसारचक्रं वहनाद् आत्मनः परिरोधय
अहम्भावतमो यावत् पुमरण्ये विजृम्भते । तावद् एता विवल्गन्ति चिन्तामत्तपिशाचिकाः
अहङ्कारपिशाचेन गृहीतो यो नराधमः । न तन्त्राणि न मन्त्राश् च तस्यानाथस्य शान्तये
चिन्मात्रे दर्पणाकारे निर्मले स्वात्मनि स्थिते । बिम्बत्य् अहङ्कृतिस् तस्मात् पुंसः केवात्र वाच्यता
अहङ्कारचमत्कारो वस्तुधर्मो न राघव । वासनाकृत एषो ऽर्थः पुम्प्रयत्नेन शाम्यति
नाहं न च ममार्थश्रीस् सुखदुःखे कुतस् स्थिते । इति भावानुसन्धानाद् अहङ्कारो न जायते
मिथ्येयम् इन्द्रजालश्रीः किं मे स्नेहविरागयोः । इत्य् अन्तर् अनुसन्धानाद् अहङ्कारो न जायते
नाहम् आत्मनि नाप्य् अस्य दृश्यश्रिय इति स्वयम् । शान्तेन व्यवहारेण नाहङ्कारः प्रवर्धते
अहं हि जगद् इत्य् अन्तर् हेयादेयदृशोः क्षये । समतायां प्रसन्नायां नाहङ्कारः प्रवर्तते
किमाकृतिर् अहङ्कारः कथं सन्त्यज्यते प्रभो । सशरीरो ऽशरीरश् च त्यक्ते तस्मिन् कथं भवेत्
त्रिविधो राघवास्तीह त्व् अहङ्कारो जगत्त्रये । द्वौ श्रेष्ठाव् इतरस् त्याज्यश् शृणु त्वं कथयामि ते
अहं सर्वम् इदं विश्वं परमात्माहम् अच्युतः । नान्यद् अस्तीति संविद् या परमा सा ह्य् अहङ्कृतिः
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते । अहङ्काराभिधा त्व् अस्याः कल्पिता न तु वास्तवी
सर्वस्माद् व्यतिरिक्तो ऽहं वालाग्रशतकल्पितः । यदि वा संविद् एषासौ द्वितीयाहङ्कृतिः परा
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते । अहङ्काराभिधा त्व् अस्याः कल्पिता न तु वास्तवी
पाणिपादादिमात्रो ऽयम् अहम् इत्य् एव निश्चयः । अहङ्कारस् तृतीयो ऽसौ लौकिकस् तुच्छ एव सः
वर्ज्य एष दुरात्मासौ शत्रुर् एष परस् स्मृतः । अनेनाभिहतो जन्तुर् न भूयः परिरोहति
रिपुणानेन बलिना विविधाधिप्रदायिना । खर्वीकृतमतिर् लोकस् सङ्कटेष्व् एव मज्जति
अनया दुरहङ्कृत्या भावात् सन्त्यक्तया चिरम् । शिष्टाहङ्कारवाञ् जन्तुर् भगवान् याति मुक्तताम्
लोकाहङ्कारदोषस्य वपुर् अस्मीति रूपिणः । न देहो ऽस्मीति निर्णीयवर्जनं महतां मतम्
प्रथमौ द्वाव् अहङ्काराव् अङ्गीकृत्याप्य् अलौकिकौ । तृतीयाहङ्कृतिस् त्याज्या लौकिकी दुःखदायिनी
अनया दुरहङ्कृत्या दामव्यालकटाः किल । तां दशां समनुप्राप्ता या कथास्व् अपि दुःखदा
तृतीयां लौकिकीम् एतां त्यक्त्वा चित्ताद् अहङ्कृतिम् । किम्भावः पुरुषो ब्रह्मन् प्राप्नुयाद् आत्मने हितम्
एषा तावत् परित्याज्या त्यक्त्वैतां दुःखदायिनीम् । यथा यथा पुमांस् तिष्ठेत् परम् एति तथा तथा
एते अहङ्कृतिदशे पूर्वोक्ते भावयन् यदि । तिष्ठत्य् अभ्येति परमं तत् पदं पुरुषो ऽनघः
अथ ते एव सन्त्यज्य सर्वाहङ्कृतिविवर्जितः । सन्तिष्ठते तथाप्य् उच्चैःपदम् एवाधिरोहति
सर्वदा सर्वयत्नेन लौकिकी दुरहङ्कृतिः । परमानन्दबोधाय वर्जनीया महाधिया
शरीरस्थामयापुण्यदुरहङ्कारवर्जनात् । अन्यन् न परमं श्रेय एतद् एव परं पदम्