बाधते ध्यामलधियाम् अपिशाचे पिशाचधीः । शिशूनां नावदातान्तःकरणानां विचारणात्
चिज्ज्योत्स्ना यावद् एवान्तर् अहङ्कारघनावृता । विकासम् एति नो तावत् परमार्थकुमुद्वती
प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे सार्थे स्वयं चिता । नरकस्वर्गमोक्षादितृष्णायाः कल्पनैव का
हृदि यावद् अहङ्कारवारिदः प्रविजृम्भते । तावद् विकासम् आयाति तृष्णाकुटजमञ्जरी
आक्रम्य चेतनादित्यम् अहङ्काराम्बुदे स्थिते । जाड्यम् एव स्थितिं याति न प्राकाश्यं कथञ्चन
आसन्नो ऽयम् अहङ्कारस् स्वयं मिथ्या प्रकल्पितः । दुःखायैव न हर्षाय बालसम्भ्रमयक्षवत्
मुधैव कल्पितो मोहम् अहम्भावः प्रयच्छति । अनन्तसंसारकरं दामादिष्व् इव दुर्मतौ
अयं सो ऽहम् इति स्फारमोहाद् अन्यत् परं तमः । अनर्थभूतं संसारे न भूतं न भविष्यति
यत् किञ्चिद् इदम् आयाति सुखदुःखम् अलातवत् । तद् अहङ्कारचक्रस्य प्रविकासि विजृम्भितम्
अहङ्काराङ्कुरः कष्टो हृदि येनाधिरोपितः । सहस्रशाखं दुश्छेदं तस्य संसृतिकाननम्
अहम्भावो ऽङ्कुरो जन्मवृक्षाणाम् अक्षयात्मनाम् । ममेदम् इति विस्तीर्णास् तेषाम् शाखास् सहस्रशः
कचटा वातविस्फोटा भान्त्य् अर्था वासनोदयाः । विदार्यदारुरववत् तरङ्गारवपङ्क्तिवत्
अहम्भावमहानाभिं त्वम् अहम्भाववर्जितः । संसारचक्रं वहनाद् आत्मनः परिरोधय
अहम्भावतमो यावत् पुमरण्ये विजृम्भते । तावद् एता विवल्गन्ति चिन्तामत्तपिशाचिकाः
अहङ्कारपिशाचेन गृहीतो यो नराधमः । न तन्त्राणि न मन्त्राश् च तस्यानाथस्य शान्तये
चिन्मात्रे दर्पणाकारे निर्मले स्वात्मनि स्थिते । बिम्बत्य् अहङ्कृतिस् तस्मात् पुंसः केवात्र वाच्यता
अहङ्कारचमत्कारो वस्तुधर्मो न राघव । वासनाकृत एषो ऽर्थः पुम्प्रयत्नेन शाम्यति
नाहं न च ममार्थश्रीस् सुखदुःखे कुतस् स्थिते । इति भावानुसन्धानाद् अहङ्कारो न जायते
मिथ्येयम् इन्द्रजालश्रीः किं मे स्नेहविरागयोः । इत्य् अन्तर् अनुसन्धानाद् अहङ्कारो न जायते
नाहम् आत्मनि नाप्य् अस्य दृश्यश्रिय इति स्वयम् । शान्तेन व्यवहारेण नाहङ्कारः प्रवर्धते
अहं हि जगद् इत्य् अन्तर् हेयादेयदृशोः क्षये । समतायां प्रसन्नायां नाहङ्कारः प्रवर्तते
किमाकृतिर् अहङ्कारः कथं सन्त्यज्यते प्रभो । सशरीरो ऽशरीरश् च त्यक्ते तस्मिन् कथं भवेत्
त्रिविधो राघवास्तीह त्व् अहङ्कारो जगत्त्रये । द्वौ श्रेष्ठाव् इतरस् त्याज्यश् शृणु त्वं कथयामि ते
अहं सर्वम् इदं विश्वं परमात्माहम् अच्युतः । नान्यद् अस्तीति संविद् या परमा सा ह्य् अहङ्कृतिः
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते । अहङ्काराभिधा त्व् अस्याः कल्पिता न तु वास्तवी
सर्वस्माद् व्यतिरिक्तो ऽहं वालाग्रशतकल्पितः । यदि वा संविद् एषासौ द्वितीयाहङ्कृतिः परा
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते । अहङ्काराभिधा त्व् अस्याः कल्पिता न तु वास्तवी
पाणिपादादिमात्रो ऽयम् अहम् इत्य् एव निश्चयः । अहङ्कारस् तृतीयो ऽसौ लौकिकस् तुच्छ एव सः
वर्ज्य एष दुरात्मासौ शत्रुर् एष परस् स्मृतः । अनेनाभिहतो जन्तुर् न भूयः परिरोहति
रिपुणानेन बलिना विविधाधिप्रदायिना । खर्वीकृतमतिर् लोकस् सङ्कटेष्व् एव मज्जति