परोपकारकारिण्या परार्त्या परितप्तया । बुद्ध एव सुखी मन्ये स्वार्थशीतलया धिया
उत्पन्नध्वंसिनः कालवडवानलपातिनः । सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधेः
सर्व एव नरा मोहाद् दुराशापाशपातिनः । दोषगुल्मकसारङ्गा निगीर्णा जन्मजङ्गले
सङ्क्षीयते जगति जन्मपरम्परासु लोकस्य तैर् इह कुकर्मभिर् आयुर् एतत् । आकाशपादपलताकृतपाशकल्पं येषां फलं न हि विचारविदो ऽपि विद्मः
अद्योत्सवो ऽयम् ऋतुर् एष तथेह यात्रा ते बन्धवस् सुखम् इदं स विशेषभोगः । इत्थं मुधैव कलयन् स्वविकल्पजालम् आलोलपेलवमतिर् गलतीह लोकः
अन्यच् च तातातितराम् अरम्ये मनोरमे वेह जगत्स्वरूपे । न किञ्चिद् अप्य् एति तद् अर्थजातं येनातिविश्रान्तिम् उपैति चेतः
बाल्ये गते कल्पितकेलिलोले वयोमृगे दारदरीषु कीर्णे । शरीरके जर्जरतां प्रयाते विदूयते केवलम् एव लोकः
जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विहाय । क्षणाद् गते जीवितचञ्चरीके जनस्य संसारसरो विशुष्कम्
यदा यदा पाकम् उपैति नूनं तदा तदेयं नतिम् आतनोति । जराभरानल्पनवप्रसूनविजर्जरा कायलता नराणाम्
तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्तपदार्थजाता । तटस्थसन्तोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके
शरीरनौश् चर्मनिबद्धबन्धा भवाम्बुधाव् आलुलिता भ्रमन्ती । प्रव्रोड्यते पञ्चभिर् इन्द्रियाख्यैर् अधो वहन्ती मकरैर् अधीना
तृष्णालताकाननचारिणो ऽमी शाखाशतं काममहीरुहेषु । परिभ्रमन्तः क्षपयन्ति कामम् मनोमृगा नो फलम् आप्नुवन्ति
कृच्छ्रेषु दूरास्तविषादमोहास् स्वाम्येष्व् अनुत्सिक्तमनोऽभिरामाः । सुदुर्लभास् सम्प्रति सुन्दरीभिर् अनाहतान्तःकरणा महान्तः
तरन्ति मातङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः । शूरास् त एवेह मनस्तरङ्गं ये हीन्द्रियाम्भोधिम् इमं तरन्ति
अक्लिष्टपर्यन्तफलाभिरामा न दृश्यते कस्यचिद् एव काचित् । क्रिया दुराशाहतचित्तवृत्तेर् याम् एत्य विश्रान्तिम् उपैति लोकः
कीर्त्या जगद् दिक्कुहरं प्रतापैश् श्रिया गृहं सत्त्वबलेन लक्ष्मीम् । ये पूरयन्त्य् अक्षतधर्मबन्धा न ते जगत्यां सुलभा मनुष्याः
अप्य् अन्तरस्थं गिरिशैलभित्तेर् वज्रालयाभ्यन्तरसंस्थितं वा । सर्वं समायान्ति समिद्धवेगास् सर्वाश् श्रियस् सन्ततम् आपदश् च
पुत्राश् च दाराश् च धनं च बुद्ध्या प्रकल्प्यते तात रसायनं व । सर्वं तु तन् नोपकरोत्य् अथान्ते यत्रातिरम्या विषमूर्छनैव
विषादयुक्तो विषमाम् अवस्थाम् उपागतः कायवयोऽवसाने । भावान् स्मरन् स्वान् अभिधर्मरिक्ताञ् जनो जरावान् अभिदह्यते ऽन्तः
कामार्थधर्माप्तिकृशान्तराभिः क्रियाभिर् आदौ दिवसानि नीत्वा । चेतश् चलद् बर्हिणपिञ्छलोलं विश्रान्तिम् आगच्छतु केन पुंसः
पुरोगतैर् अप्य् अनवाप्तरूपैस् तरङ्गिणीतुङ्गतरङ्गकल्पैः । क्रियाफलैर् दैववशाद् उपेतैर् विडम्ब्यते भिन्नरुचिर् हि लोकः
इमान्य् अमूनीति विभावितानि कार्याण्य् अपर्यन्तमनोरमाणि । जनस्य जायाजनरञ्जनेन जटाजरान्तं जरयन्ति चेतः
पर्णानि शीर्णानि यथा तरूणां समेत्य जन्माशु लयं प्रयान्ति । तथैव लोकास् स्वविवेकहीनास् समेत्य गच्छन्ति कुतो ऽप्य् अहोभिः
इतस् ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने । विवेकिलोकाश्रयिसाधुकर्मरिक्ते ऽह्नि याते क उपैति निद्राम्
विद्राविते शत्रुजने समस्ते समागतायाम् अभितश् च लक्ष्म्याम् । सेव्यन्त एतानि सुखानि यावत् तावत् समायाति कुतो ऽपि मृत्युः
कुतो ऽपि संवर्धिततुच्छरूपैर् भावैर् अमीभिः क्षणदृष्टनष्टैः । विलोभ्यमाना जनता जगत्यां न वेत्त्य् उपायातम् अहो न यातम्
यियासुभिः कालमुखं क्रियन्ते जनैडकैस् ते हतकर्मबन्धाः । ये पीनताम् एव बलाद् उपेत्य शरीरबन्धे ननु ते भवन्ति
अजस्रम् आगच्छति सत्वरेयम् अनारतं गच्छति सत्वरैव । कुतो ऽपि लोला जनता जगत्यां तरङ्गमाला क्षणभङ्गुरेव
प्राणापहारैकपरा नराणाम् मनो मनोहारितया हरन्ति । रक्तच्छदाष् षट्पदचञ्चलाक्ष्यो विषद्रुमा लोललतास् स्त्रियश् च
इतो ऽन्यतश् चोपगता मुधैव समानसङ्केतनिबद्धभावा । यात्रासमासङ्गसमा नराणां कलत्रमित्रव्यवहारमाया