दौर्भाग्यदायिनी दीना शुभहीनाविचारणा । घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम्
सुप्तं मा स्थीयतां वृद्धमन्दकच्छपवच् छनैः । उत्थानम् अङ्गीक्रियतां जरामरणशान्तये
अनर्थायार्थसम्पत्तिर् भोगौघो भवरोगदः । आपदे सम्पदस् सर्वास् सर्वत्रानादरो जयः
लोकतन्त्रानुसारेण विचाराद् व्यवहारिणाम् । शास्त्राचाराविरुद्धेन कर्मणा शर्म सिध्यति
स्वाचारचारुचरितस्य विविक्तवृत्तेस् संसारदुःखलवसौख्यदशास्व् अगृध्नोः । आयुर् यशांसि च गुणाश् च सहैव लक्ष्म्या फुल्लन्ति माधवलता इव सत्फलाय
सर्वातिशयसाफल्यात् सर्वं सर्वत्र सर्वदा । सम्भवत्य् एव तस्मात् स्वं शुभोद्योगं न सन्त्यजेत्
सर्वोत्कर्षेण वर्तन्ते देवा अपि विमर्दिताः । दानवैर् दानवार्याढ्यैर् गजैः पद्माकरा इव
मरुत्तनृपतेर् यज्ञे संवर्तेन महर्षिणा । ब्रह्मणेवापरस् सर्गो रचितस् ससुरासुरः
महातिशययुक्तेन विश्वामित्रेण विप्रता । भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता
पिष्टातकाम्बु दुष्प्रापं रसायनम् इवाश्नता । दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना
त्रैलोक्यमल्लांस् तृणवन् निघ्नन् विष्ण्वब्जजादिकान् । युक्त्यातिशयदार्ढ्येन कालश् श्वेतेन कालितः
प्रणयेन यमं जित्वा कृत्वा वचनसङ्गरम् । परलोकाद् उपानीतस् सावित्र्या सत्यवान् पतिः
न सो ऽस्त्य् अतिशयो लोके यस्यास्ति न फलं स्फुटम् । भवितव्यं विचार्यातस् सर्वातिशयशालिना
आत्मज्ञानम् अशेषाणां सुखदुःखदशादृशाम् । मूलङ्कषकरं तस्माद् भाव्यं तत्रातिशायिना
नानयोपहतार्थिन्या दृश्यदृष्ट्यातिदुष्टया । दुःखाद् ऋते निराबाधं सुखं किञ्चिद् अवाप्यते
अशमः परमं ब्रह्म शमश् च परमं पदम् । यद्य् अप्य् एवं तथाप्य् एनं प्रशमं विद्धि शङ्करम्
अभिमानं परित्यज्य शमम् आश्रित्य शाश्वतम् । विचार्य प्रज्ञयार्यत्वं कुर्यात् सज्जनसेवनम्
न तपांसि न तीर्थानि न शास्त्राणि जयन्ति वः । संसारसागरोत्तारे सज्जनासेवनं यथा
लोभमोहरुषां यस्य तनुतानुदिनं भवेत् । यथाशास्त्रं विहरतस् स्वकर्मसु स सज्जनः
अध्यात्मविदुषस् सङ्गात् तस्य सा धीः प्रवर्तते । अत्यन्ताभाव एवास्य यया दृश्यस्य दृश्यते
दृश्यात्यन्ताभावतस् तु परम् एवावशिष्यते । अन्याभाववशाद् आशु जीवस् तत्रैव लीयते
न चोत्पन्नं न चैवासीद् दृश्यं न च भविष्यति । वर्तमाने ऽपि नैवास्ति परम् एवास्त्य् अवेदितम्
एतद् युक्तिसहस्रेण दर्शितं दर्श्यते ऽपि च । सर्वैर् एवानुभूतं हि दर्शयिष्यामि चाधुना
यथेदम् अखिलं शान्तं त्रिजगत् संविदम्बरम् । इदं तत्त्वं त्व् असत्त्वादि कुतो ऽत्र स्यात् कथञ्चन
चिच् चमत्कुरुते चारु चञ्चलाचञ्चलात्मनि । यत् तयैव तद् एवेदं जगद् इत्य् अवबुध्यते
त्रैलोक्यरूपो ऽनुभवश् चिदादित्यांशुमण्डलम् । क्व वेन्द्वंशुमतोर् भेदो निर्विकत्थन कथ्यताम्
स्वभावतो ऽस्याश् चिद्दृष्टेर् ये उन्मेषनिमेषणे । जगद्रूपानुभूतेस् ताव् एताव् अस्तमयोदयौ
अहमर्थो ऽपरिज्ञातः परमार्थाम्बरे मलः । परिज्ञातो ऽहमर्थस् तु परमार्थाम्बरं भवेत्
अहम्भावः परिज्ञातो नाहम्भावीभवत्य् अलम् । एकताम् अम्बुनेवाम्बु याति चिन्नभसात्मना
अहमादि जगद् दृश्यं किल नास्त्य् एव वस्तुतः । अवश्यम् एव तत् कस्माच् छिष्यते ऽहंविचारिणः