स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना । न विनाशो भवत्य् अङ्ग गच्छतां पतताम् इव
इदं मे स्याद् इदं मे स्याद् इति बुद्धिमतां मतिः । स्वेन दौर्भाग्यदैन्येन न भस्माप्य् उपतिष्ठते
वेत्ति नित्यम् उदारात्मा त्रैलोक्यम् अपि यस् तृणम् । तं त्यजन्त्य् आपदस् सर्वा रसतेव जरत्तृणम्
परिस्फुरति यस्यान्तर् नित्यं सत्त्वचमत्कृतिः । ब्राह्मम् अण्डम् इवाखण्डं लोकेशाः पालयन्ति तम्
अप्य् आपदि दुरन्तायां नैव रन्तव्यम् अक्रमे । राहुर् अप्य् अक्रमेणैव पिबन्न् अप्य् अमृतं मृतः
सच्छास्त्रसाधुसम्पर्कम् अर्कम् उग्रप्रकाशदम् । ये श्रयन्ति न ते यान्ति मोहान्ध्यस्य पुनर् वशम्
अवश्या वश्यम् आयान्ति यान्ति सर्वापदः क्षयम् । अवश्यं भवति श्रेयः क्रेयं यस्य गुणैर् यशः
येषां गुणेष्व् असन्तोषो ऽरागो येषां श्रुतं प्रति । सत्य् अव्यसनिनो ये च ते नराः पशवो ऽपरे
यशश्चन्द्रिकया येषां भासितं जनहृन्नभः । तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः
भुक्तं भोक्तव्यम् अखिलं दृष्टा द्रष्टव्यदृष्टयः । किम् अन्यद् भवभङ्गाय भूयोभोगेष्व् अलुब्धता
यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति । स्थीयतां मुच्यताम् अन्तर् भोगगार्ध्यम् अवास्तवम्
संस्तवः क्रियतां कीर्त्या गुणैर् गगनगामिभिः । त्रायन्ते मृत्युनोपेतं न कदाचन भोगकाः
गायन्ति सिद्धसुन्दर्यो येषाम् इन्दुसितं यशः । गीतिभिर् गगनाभोगे ते जीवन्ति मृताः परे
परमं पौरुषं यत्नम् आस्थायादाय सूद्यमम् । यथाशास्त्रम् अनुद्वेगम् आचारात् को न सिद्धिभाक्
यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु । चिरकालपरा पक्वा सिद्धिः पुष्टतरा भवेत्
वीतशोकभयायासम् अगर्धम् अपयन्त्रणम् । व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम्
जीवो जीर्णान्धकूपेषु भवेष्व् अन्तर्धिम् आगतः । भवतां भूरिभङ्गानाम् अधुनोद्ध्रियताम् अतः
इतः प्रभृति मा भूयो गम्यताम् अधराद् अधः । इदं निर्धार्यतां शास्त्रम् अस्त्रम् आपन्निवारणे
रणे रभसनिर्लूनवारणे प्राणम् उज्झताम् । किम् अर्थमात्रया कार्यम् आर्याश् शास्त्रम् अवेक्ष्यताम्
इदं बिम्बम् इदं निम्बम् इति मत्या विचार्यताम् । स्वया परप्रेरणया यात मा पशवो यथा
दौर्भाग्यदायिनी दीना शुभहीनाविचारणा । घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम्
सुप्तं मा स्थीयतां वृद्धमन्दकच्छपवच् छनैः । उत्थानम् अङ्गीक्रियतां जरामरणशान्तये
अनर्थायार्थसम्पत्तिर् भोगौघो भवरोगदः । आपदे सम्पदस् सर्वास् सर्वत्रानादरो जयः
लोकतन्त्रानुसारेण विचाराद् व्यवहारिणाम् । शास्त्राचाराविरुद्धेन कर्मणा शर्म सिध्यति
स्वाचारचारुचरितस्य विविक्तवृत्तेस् संसारदुःखलवसौख्यदशास्व् अगृध्नोः । आयुर् यशांसि च गुणाश् च सहैव लक्ष्म्या फुल्लन्ति माधवलता इव सत्फलाय
सर्वातिशयसाफल्यात् सर्वं सर्वत्र सर्वदा । सम्भवत्य् एव तस्मात् स्वं शुभोद्योगं न सन्त्यजेत्
सर्वोत्कर्षेण वर्तन्ते देवा अपि विमर्दिताः । दानवैर् दानवार्याढ्यैर् गजैः पद्माकरा इव
मरुत्तनृपतेर् यज्ञे संवर्तेन महर्षिणा । ब्रह्मणेवापरस् सर्गो रचितस् ससुरासुरः
महातिशययुक्तेन विश्वामित्रेण विप्रता । भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता
पिष्टातकाम्बु दुष्प्रापं रसायनम् इवाश्नता । दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना