आलानिताशया लोलाः कालेन लयम् आगताः । तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः
तत्र कल्हारमालासु सरोजपटलीषु च । शेवालवरवल्लीषु तरङ्गवलनासु च
ललत्कुमुददोलासु नीलोत्पललतासु च । शीकरौघाभ्रलेखासु शीतलावर्तवृत्तिषु
सरस्सारससम्भोगान् भुक्त्वा भुवनभूषणाः । विहृत्य सुचिरं कालम् अलम् आगतशुद्धयः
ते वियुक्ता भविष्यन्ति मुक्तये लब्धयुक्तयः । रजस्सत्त्वतमांसीव भेदप्राप्त्या यदृच्छया
कश्मीरमण्डलस्यान्तर् नगरं नगशोभितम् । नाम्नाधिष्ठानम् इत्य् एतच् छ्रीमत् तत्र भविष्यति
प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति । शृङ्गं लघु सरोजस्य कोशचक्रम् इवोदरे
तस्मिन् मूर्ध्नि गिरेर् गेहं को ऽपि राजा करिष्यति । अभ्रङ्कषमहासालं शृङ्गे शृङ्गम् इवापरम्
गृहस्येशानकोणाद्रिशिरोभित्तिव्रणोदरे । तस्यानिशम् अविश्रान्तवातोद्धूततृणाङ्किते
आलये दानवो व्यालः कलविङ्को भविष्यति । प्रथमाल्पश्रुतच्छात्त्र इवार्थरहितारटिः
तस्मिन्न् एव तदा काले तत्र राजा भविष्यति । श्रीयशस्करदेवाख्यश् स्वर्गे शक्र इवापरः
दानवो दामनामान्तर् मषकस् तस्य सद्मनि । भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः
अधिष्ठानाभिधे तस्मिन्न् एवोग्रनगरे तदा । रत्नावलीविहाराख्यो विहारो ऽपि भविष्यति
तस्मिंस् तद्भूमिपामात्यो नरसिंह इति श्रुतः । करामलकवद् दृष्टबन्धमोक्षो भविष्यति
भविष्यति गृहे तस्य क्रीडनक्रकरः खगः । कटो मायासुरो नाम कृतहिञ्जीरपञ्जरः
स नृसिंहो नृपामात्यश् श्लोकैर् विरचिताम् इमाम् । दामव्यालकटादीनां कथयिष्यति सङ्कथाम्
स कटः क्रकरश् श्रुत्वा तां कथां संस्मृतात्मभूः । शान्तमिथ्याहमंशो ऽन्तः परं निर्वाणम् एष्यति
प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः । तथैत्य स्वकथां श्रुत्वा परं निर्वाणम् एष्यति
राजमन्दिरदार्वन्तर् व्रणवास्तव्यतां गतः । मषको ऽपि प्रसङ्गेन श्रुत्वा शान्तिम् उपैष्यति
प्रद्युम्नशृङ्गाच् चटको मषको राजमन्दिरात् । विहारात् क्रकरश् चेति मोक्षम् एष्यन्ति राघव
एष ते कथितस् सर्वो दामव्यालकटक्रमः । मायेयम् एव संसारी शून्यैवात्यन्तभासुरा
भ्रमयत्य् अपरिज्ञाता मृगतृष्णाम्बुधीर् इव । संशाम्यति परिज्ञाता मृगतृष्णाम्बुधीर् इव
महतो ऽपि पदाद् एवं रामाज्ञानवशाद् अधः । पतन्ति मोहिता मूढा दामव्यालकटा इव
क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसह्यता । क्व राजगृहदार्वन्तर् व्रणे मषकरूपता
क्व चपेटच्छटामात्रपातितार्केन्दुबिम्बता । क्व प्रद्युम्नगिरौ गेहभित्तिव्रणविहङ्गता
क्व पुष्पलीलयालोलकरतोलितमेरुता । क्वार्ष्यशृङ्गे नृसिंहस्य गृहे क्रकरपोतता
चिदाकाशो हि मिथ्यैव रजसा रञ्जितप्रभः । स्वरूपम् अत्यजन्न् एव विरूपम् इव बुध्यते
स्वयैव वासनाभ्रान्त्या सत्ययेवाप्य् असत्यया । मृगतृष्णाम्बुबुद्ध्येव याति जन्तुर् अवान्तरम्
तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये । शास्त्रेणासद् इदं दृश्यम् इति निर्वासनं स्थिताः
तारारवविकारीणि शुष्कतर्कमतानि ये । यान्ति श्वभ्रजलान्य् आशु नाशुभं नाशयन्ति ते