परमेष्ठ्य् अप्य् अनिष्ठावान् हरते हरिम् अप्य् अजः । भवो ऽप्य् अभवतां याति कैवास्था मादृशे जने
कालश् शकलताम् एति नियतिश् चापि नीयते । खम् अप्य् आलीयते ऽनन्ते कैवास्था मादृशे जने
अश्रव्यावाच्यदुर्दर्शतन्त्रेणाज्ञातमूर्तिना । भुवनानि विडम्ब्यन्ते केनचिद् भ्रमदायिना
अहङ्कारकलाम् एत्य सर्वत्रान्तरवासिना । न सो ऽस्ति त्रिषु लोकेषु यस् तेनेह न बाध्यते
शिलाशैलकटप्रेषु साश्वसूतो दिवाकरः । वनपाषाणवन् नित्यम् अवशः परिदोल्यते
धरागोलकम् अन्तस्स्थसुरासुरगणास्पदम् । वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटम् इव त्वचा
दिवि देवा भुवि नराः पाताले ऽसुरभोगिनः । कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम्
कामश् च जगतीशानरणलब्धपराक्रमः । अक्रमेणैव विक्रान्तो लोकम् आक्रम्य वल्गति
वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षणैः । आमोदितककुप्चक्रश् चेतो नयति वक्रताम्
अनुरक्ताङ्गनालोकलोचनालोकिताकृति । स्पष्टीकर्तुं मनश् शक्तो न विवेको महान् अपि
परोपकारकारिण्या परार्त्या परितप्तया । बुद्ध एव सुखी मन्ये स्वार्थशीतलया धिया
उत्पन्नध्वंसिनः कालवडवानलपातिनः । सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधेः
सर्व एव नरा मोहाद् दुराशापाशपातिनः । दोषगुल्मकसारङ्गा निगीर्णा जन्मजङ्गले
सङ्क्षीयते जगति जन्मपरम्परासु लोकस्य तैर् इह कुकर्मभिर् आयुर् एतत् । आकाशपादपलताकृतपाशकल्पं येषां फलं न हि विचारविदो ऽपि विद्मः
अद्योत्सवो ऽयम् ऋतुर् एष तथेह यात्रा ते बन्धवस् सुखम् इदं स विशेषभोगः । इत्थं मुधैव कलयन् स्वविकल्पजालम् आलोलपेलवमतिर् गलतीह लोकः
अन्यच् च तातातितराम् अरम्ये मनोरमे वेह जगत्स्वरूपे । न किञ्चिद् अप्य् एति तद् अर्थजातं येनातिविश्रान्तिम् उपैति चेतः
बाल्ये गते कल्पितकेलिलोले वयोमृगे दारदरीषु कीर्णे । शरीरके जर्जरतां प्रयाते विदूयते केवलम् एव लोकः
जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विहाय । क्षणाद् गते जीवितचञ्चरीके जनस्य संसारसरो विशुष्कम्
यदा यदा पाकम् उपैति नूनं तदा तदेयं नतिम् आतनोति । जराभरानल्पनवप्रसूनविजर्जरा कायलता नराणाम्
तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्तपदार्थजाता । तटस्थसन्तोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके
शरीरनौश् चर्मनिबद्धबन्धा भवाम्बुधाव् आलुलिता भ्रमन्ती । प्रव्रोड्यते पञ्चभिर् इन्द्रियाख्यैर् अधो वहन्ती मकरैर् अधीना
तृष्णालताकाननचारिणो ऽमी शाखाशतं काममहीरुहेषु । परिभ्रमन्तः क्षपयन्ति कामम् मनोमृगा नो फलम् आप्नुवन्ति
कृच्छ्रेषु दूरास्तविषादमोहास् स्वाम्येष्व् अनुत्सिक्तमनोऽभिरामाः । सुदुर्लभास् सम्प्रति सुन्दरीभिर् अनाहतान्तःकरणा महान्तः
तरन्ति मातङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः । शूरास् त एवेह मनस्तरङ्गं ये हीन्द्रियाम्भोधिम् इमं तरन्ति
अक्लिष्टपर्यन्तफलाभिरामा न दृश्यते कस्यचिद् एव काचित् । क्रिया दुराशाहतचित्तवृत्तेर् याम् एत्य विश्रान्तिम् उपैति लोकः
कीर्त्या जगद् दिक्कुहरं प्रतापैश् श्रिया गृहं सत्त्वबलेन लक्ष्मीम् । ये पूरयन्त्य् अक्षतधर्मबन्धा न ते जगत्यां सुलभा मनुष्याः
अप्य् अन्तरस्थं गिरिशैलभित्तेर् वज्रालयाभ्यन्तरसंस्थितं वा । सर्वं समायान्ति समिद्धवेगास् सर्वाश् श्रियस् सन्ततम् आपदश् च
पुत्राश् च दाराश् च धनं च बुद्ध्या प्रकल्प्यते तात रसायनं व । सर्वं तु तन् नोपकरोत्य् अथान्ते यत्रातिरम्या विषमूर्छनैव
विषादयुक्तो विषमाम् अवस्थाम् उपागतः कायवयोऽवसाने । भावान् स्मरन् स्वान् अभिधर्मरिक्ताञ् जनो जरावान् अभिदह्यते ऽन्तः
कामार्थधर्माप्तिकृशान्तराभिः क्रियाभिर् आदौ दिवसानि नीत्वा । चेतश् चलद् बर्हिणपिञ्छलोलं विश्रान्तिम् आगच्छतु केन पुंसः