अक्षीवक्षीवयोर् ऐक्यं क्व किलेहाज्ञतज्ज्ञयोः । अन्धप्रकाशयोर् बोधे स्याच् छायातपयोर् इव
यत्नेनाप्य् अनुभूते ऽर्थे सत्ये कर्तुम् अपह्नवम् । तज्ज्ञो ऽज्ञश् च न शक्नोति शव आक्रमणं यथा
ब्रह्म सर्वं जगद् इति वक्तुं तज्ज्ञस्य युज्यते । यतो ऽविद्याननुभवे स तद् एवानुभूतवान्
प्रबुद्धविषये ह्य् एषा राम वाक् प्रविराजते । बुद्धस्यास्मीति रूपेण किल नास्त्य् एव किञ्चन
ब्रह्मैवेदं परं शान्तम् इत्य् एवानुभवन् सुधीः । अपह्नवस् स्वानुभूतेः कर्तुं तस्य क्व युज्यते
परस्माद् व्यतिरेकेण नाहम् आत्मनि किञ्चन । हेमनीवोर्मिकादित्वं न मय्य् अस्ति वसिष्ठता
भूतत्वव्यतिरेकेण मूढो नात्मनि किञ्चन । ऊर्म्यादिबुद्धौ हेमेव नाज्ञे ऽस्ति परमार्थता
मिथ्याहन्तामयो मूढस् सत्यैकात्ममयस् सुधीः । युज्यते न क्वचिन् नाम स्वभावापह्नवो ऽनयोः
यो यन्मयस् तस्य तस्मिन् युज्यते ऽपह्नवः कथम् । पुरुषस्य घटो ऽस्मीति वाक्यम् उन्मत्ततैव हि
तस्मान् नेमे वयं सत्या न च दामादयः क्वचित् । असत्यास् ते वयं चेमे नास्ति नः खलु सम्भवः
सत्यसंवेदनं शुद्धं बोधाकाशं निरञ्जनम् । सत्यं सर्वगतं शान्तम् अस्त्य् अनस्तमितोदयम्
सर्वं सत् तच् च निश्शून्यं नकिञ्चिद् इव संस्थितम् । तत्र व्योम्नि विभान्तीमा निजा भासो ऽङ्ग दृष्टयः
यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः । केशोण्डुकादिवद् भान्ति तथेमास् तत्र सृष्टयः
स आत्मानं यथा वेत्ति तथानुभवति क्षणात् । चिदाकाशस् ततो ऽसत्यम् अपि सत्यं तदीक्षणात्
न सत्यम् अपि नासत्यम् इह तस्माज् जगत्त्रये । यद् यथा वेत्ति चिद् रूपं तत् तथोदेत्य् असंशयम्
यथा दामादयस् तद्वद् एवेमे ऽभ्युदिता वयम् । सत्यासत्याः किम् अत्राङ्ग तान् प्रत्य् अपि विकल्पना
अस्यानन्तस्य चिद्व्योम्नस् सर्वगस्य निराकृतेः । चिद् उदेति यथा यान्तस् तथा सा तत्र भात्य् अलम्
यत्र दामादिरूपेण संवित् प्रकचते स्वयम् । तथासौ तत्र सम्पन्ना तथाकारानुभूतितः
स्वस्वप्नप्रतिभासस्य जगद् इत्य् अभिधा कृता । चिद्व्योम्नो व्योमवपुषस् तापस्येव मृगाम्बुता
यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता । यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता
न च तत् क्वचिद् आसुप्तं न प्रबुद्धं कदाचन । चिद्व्योम केवलं दृश्यं जगद् इत्य् अवगम्यताम्
निर्वाणम् एव सर्गश्रीस् सर्गश्रीर् एव निर्वृतिः । नानयोश् शब्दयोर् अर्थभेदः पर्याययोर् इव
परमार्थे जगद् इति रूपं वेत्ति स्वयं स्वकम् । यथा तैमिरिकं चक्षुः केशोण्डुकम् इवेक्षितम्
न तत् केशोण्डुकं किञ्चित् सा हि दृष्टिस् तथा स्थिता । नेदं दृश्यम् इदं किञ्चिद् इत्थं चिद्व्योम संस्थितम्
सर्वत्र सर्वम् इदम् अस्ति यथानुभूतं नो किञ्चन क्वचिद् इहास्ति च नानुभूतम् । शान्तं सद् एकम् इदम् आततम् इत्थम् आस्ते सन्त्यक्तशङ्कम् अपभेदम् अतस् त्वम् आस्स्व
शिलोदराकारघनं प्रशान्तम् महाचितो रूपम् इदं खम् अच्छम् । नैवास्ति नास्तीति दृशौ क्वचित् स्तो यच् चास्ति तत् साधु तद् एव भाति
दामव्यालकटार्थं तैस् तदैव यमकिङ्करैः । प्रार्थितेन यमेनोक्तम् इदं शृणु रघूद्वह
यदा वियोगम् एष्यन्ति श्रोष्यन्ति च निजां कथाम् । दामादयस् तदा मुक्ता भविष्यन्तीत्य् असंशयम्
स्ववृत्तान्तम् इमं कुत्र कदा कथय ते कथम् । श्रोष्यन्ति भगवन् केन वर्ण्यमानं कथाक्रमम्
कश्मीरेषु महापद्मसरसीतीरपल्वले । भूयो भूयो ऽनुभूयैते मत्स्ययोनिपरम्पराम्