अपरिज्ञातम् एनं ते धर्मराजं त्रयो ऽसुराः । न प्रणेमुर् विनाशाय सामान्यम् इव किङ्करम्
अथ वैवस्वतेनैते ज्वलितश्वभ्रभूमिषु । विहितभ्रूपरिस्पन्दम् आदेशेन निवेशिताः
तत्र ते करुणाक्रन्दास् ससुहृद्दारबान्धवाः । दग्धास् सपर्णविटपा वृक्षा इव दवानलैः
स्वया वासनया जातास् तथैव क्रूरया पुनः । वधकर्मकराकाराः कैराता राजकिङ्कराः
तज् जन्माथ परित्यज्य जातास् सुह्मेषु वायसाः । तदन्ते गृध्रतां यातास् ततो ऽपि बकतां गताः
शवरत्वं त्रिगर्तेषु मेषत्वं बर्बरेषु च । मगधेष्व् अथ कीटत्वं चक्रुस् ते वक्रबुद्धयः
अनुभूयेतराम् अत्र चित्रां योनिपरम्पराम् । अद्य मत्स्यास् स्थिता राम कश्मीरारण्यपल्वले
दावाग्निक्वथिताल्पाल्पपङ्ककल्कानुपायिनः । न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः
विचित्रयोनिसंरम्भम् अनुभूय पुनः पुनः । भूत्वा भूत्वा पुनर् नष्टास् तरङ्गा जलधाव् इव
भवजलधिगतास् ते वासनावातनुन्नास् तृणम् इव चिरम् ऊढा देहरूपैस् तरङ्गैः । उपशमम् अनुयाता राम नाद्याप्य् अनन्तं परिकलय महत्त्वं दारुणं वासनायाः
अविवेकानुसन्धानाच् चित्तम् आपदम् ईदृशीम् । अनन्ततरदुःखाय परिगृह्णाति लीलया
क्व किलामरविध्वंसिशम्बरानीकनाथता । क्व तापतप्तजम्बालजलजर्जरमीनता
क्व धैर्यम् अमरानीकविद्रावणकरं महत् । क्व किरातमहीपालक्षुद्रकिङ्कररूपता
क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता । क्व मिथ्यावासनावेशाद् अहङ्कारकुकल्पना
शाखाप्रतानगहना संसारविषमञ्जरी । अहङ्काराङ्कुराद् एव समुदेतीयम् आतता
अहङ्कारम् अतो राम मार्जयान्तः प्रयत्नतः । अहं न कश्चिद् एवेति मार्जयित्वा सुखी भव
अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् । रसायनमयं शीतम् अदृश्यत्वम् उपागतम्
अहङ्कारपिशाचात्ता दामव्यालकटास् त्रयः । गतास् सत्ताम् असन्तो ऽपि मायामाहात्म्यदानवाः
कश्मीरेषु महापद्मसरसीतीरपल्वले । अद्य मत्स्यास् स्थिता राम शेवाललवलालसाः
नासतो विद्यते भावो नाभावो विद्यते सतः । ते ह्य् असन्तः कथं सन्तस् सम्पन्ना इति मे वद
एवम् एतन् महाबाहो नासद् भवति हि क्वचित् । कदाचित् किञ्चिद् अप्य् एतद् बृहद् भवति वा तनु
किम् असत् सत् स्थितं ब्रूहि किं तत् सद् वाप्य् असत् स्थितम् । निदर्शनेनानेनैव करिष्ये त्वद्विबोधनम्
सन्त एव स्थितास् सन्तो ब्रह्मन् वयम् इमे किल । दामादयस् त्व् असन्तो ऽपि वक्षि सन्तस् स्थिता इति
यथा दामादयो राम स्थिता मायामया इह । असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत्
तथैवेमे वयम् अपि ससुरासुरदानवाः । असत्या एव वल्गामो याम आयाम एव च
अलीकम् एव त्वद्भावो मद्भावो ऽलीक एव च । अनुभूतो ऽप्य् असद्रूपस् स्वप्ने स्वमरणं यथा
मृतो बन्धुर् यथा स्वप्ने ऽप्य् अनुभूतो ऽप्य् असन्मयः । मृतो ऽयम् इति च ज्ञप्तिर् भवेद् एवम् इदं जगत्
एषा हि मूढविषया उक्तिर् एव न राजते । अभ्यासेन विनोदेति नानुभूतेर् अपह्नवः
निश्चयो ऽन्तः प्ररूढो यस् स यत्नाभ्यसनं विना । नाशम् आयाति लोके ऽस्मिन् न कदाचन कस्यचित्
इदं जगद् असद् ब्रह्म सत्यम् इत्य् एव वक्ति यः । तम् उन्मत्तम् इवोन्मत्ता विमूढा विहसन्त्य् अलम्