कण्ठलग्नशिरस्त्राणखटत्कारोग्रभीतयः । शिलाशितशिखाप्रोतदेहभागावलम्बिनः
शल्मल्यग्रदृढापातप्रोतकङ्कटशङ्कवः । सुशिलाफलकास्फालशतधाशीर्णमस्तकाः
सर्व एव सकलासु सशस्त्राः पातमात्रसमनन्तरम् एव । दिक्षु नाशम् अगमन्न् असुरेन्द्राः पांसवो ऽम्बुधिगताः पयसीव
जज्वाल ज्वलितः कोपी कल्पान्ताग्निर् इव ज्वलन् । शम्बरश् शमितानीको दामव्यालकटान् प्रति
शम्बरस्य भयाद् गत्वा पातालम् अथ सप्तमम् । दामव्यालकटास् तस्थुस् त्यक्त्वा दानवमण्डलम्
यमस्य किङ्करास् तत्र वेतालत्रासनक्षमाः । कुकुहा नाम तिष्ठन्ति नरकार्णवपालकाः
चिन्ता इव घनाकारा दुहितॄस् तु क्रमाद् ददुः
तैस् सार्धं नीतवन्तस् ते तत्र दामादयो ऽवधिम् । दशवर्षसहस्रान्ताम् आत्तानन्तकुवासनाः
इयं मे वनिता रम्या ममेयं प्रभुतेति च । कुकुहस्नेहबद्धानां कालस् तेषां व्यवर्तत
धर्मराजो ऽथ तं देशं कदाचित् समुपाययौ । महानरककार्याणां विचारार्थं यदृच्छया
अपरिज्ञातम् एनं ते धर्मराजं त्रयो ऽसुराः । न प्रणेमुर् विनाशाय सामान्यम् इव किङ्करम्
अथ वैवस्वतेनैते ज्वलितश्वभ्रभूमिषु । विहितभ्रूपरिस्पन्दम् आदेशेन निवेशिताः
तत्र ते करुणाक्रन्दास् ससुहृद्दारबान्धवाः । दग्धास् सपर्णविटपा वृक्षा इव दवानलैः
स्वया वासनया जातास् तथैव क्रूरया पुनः । वधकर्मकराकाराः कैराता राजकिङ्कराः
तज् जन्माथ परित्यज्य जातास् सुह्मेषु वायसाः । तदन्ते गृध्रतां यातास् ततो ऽपि बकतां गताः
शवरत्वं त्रिगर्तेषु मेषत्वं बर्बरेषु च । मगधेष्व् अथ कीटत्वं चक्रुस् ते वक्रबुद्धयः
अनुभूयेतराम् अत्र चित्रां योनिपरम्पराम् । अद्य मत्स्यास् स्थिता राम कश्मीरारण्यपल्वले
दावाग्निक्वथिताल्पाल्पपङ्ककल्कानुपायिनः । न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः
विचित्रयोनिसंरम्भम् अनुभूय पुनः पुनः । भूत्वा भूत्वा पुनर् नष्टास् तरङ्गा जलधाव् इव
भवजलधिगतास् ते वासनावातनुन्नास् तृणम् इव चिरम् ऊढा देहरूपैस् तरङ्गैः । उपशमम् अनुयाता राम नाद्याप्य् अनन्तं परिकलय महत्त्वं दारुणं वासनायाः
अविवेकानुसन्धानाच् चित्तम् आपदम् ईदृशीम् । अनन्ततरदुःखाय परिगृह्णाति लीलया
क्व किलामरविध्वंसिशम्बरानीकनाथता । क्व तापतप्तजम्बालजलजर्जरमीनता
क्व धैर्यम् अमरानीकविद्रावणकरं महत् । क्व किरातमहीपालक्षुद्रकिङ्कररूपता
क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता । क्व मिथ्यावासनावेशाद् अहङ्कारकुकल्पना
शाखाप्रतानगहना संसारविषमञ्जरी । अहङ्काराङ्कुराद् एव समुदेतीयम् आतता
अहङ्कारम् अतो राम मार्जयान्तः प्रयत्नतः । अहं न कश्चिद् एवेति मार्जयित्वा सुखी भव
अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् । रसायनमयं शीतम् अदृश्यत्वम् उपागतम्
अहङ्कारपिशाचात्ता दामव्यालकटास् त्रयः । गतास् सत्ताम् असन्तो ऽपि मायामाहात्म्यदानवाः
कश्मीरेषु महापद्मसरसीतीरपल्वले । अद्य मत्स्यास् स्थिता राम शेवाललवलालसाः
नासतो विद्यते भावो नाभावो विद्यते सतः । ते ह्य् असन्तः कथं सन्तस् सम्पन्ना इति मे वद