स्थिरो भवतु मे देहस् सुखायास्तु धनं मम । इति बद्धधियां तेषां धैर्यम् अन्तर्धिम् आययौ
अवासनत्वाद् वपुषाम् अनास्थत्वात् सुरद्विषाम् । याभूत् प्रहारपरता मार्जितैवाशु साभवत्
कथं स्थिरा जगत्य् अस्मिन् भवेम इति चिन्तया । वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः
तेषां त्व् अर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः । बभूव भवभावस्था भीषणा भवभागिनी
अथ तस्मिन् रणे भीत्या सापेक्षत्वम् उपाययुः । मत्तेभगणसंरब्धा वने हरिणका इव
मरिष्यामो मरिष्याम इति चिन्ताहताशयाः । मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे
शरीरैकार्थिनां तेषां भीतानां मरणाद् अति । अल्पसत्त्वतया मूर्ध्नि कृतम् आपत्प्रदं पदम्
अथ प्रम्लानसत्त्वास् ते हन्तुम् अग्रगतं भटम् । न शेकुर् इन्धनक्षीणा हविर् दग्धुम् इवाग्नयः
विबुधानां प्रहरतां सुदस्युत्वम् उपागताः । क्षतविक्षतसर्वाङ्गास् तस्थुस् सामान्यवद्भटाः
बहुनात्र किम् उक्तेन मरणाद् भीतचेतसः । दैत्या देवेषु वल्गत्सु दुद्रुवुस् समराजिरात्
तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु । दामव्यालकटाख्येषु विख्यातेष्व् असुरालये
तद्दैत्यसैन्यम् अपतत् खाद् विद्रुतम् इतस् ततः । कल्पान्तपवनाधूतं ताराजालम् इवाभितः
अमराचलकुञ्जेषु शिखराणां शिलासु च । तटेषु वारिराशीनां पयोदपटलेषु च
सागरावर्तगर्तेषु श्वभ्रेष्व् अथ सरित्सु च । जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च
तद्रणोत्सन्नकोशेषु ग्रामेषु नगरेषु च । अटवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु
लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च । अन्ध्रद्रमिडकाश्मीरपारसीकपुरेषु च
नानाम्भोधितरङ्गासु गङ्गाजलघटासु च । द्वीपान्तरेषु दूरेषु जम्बूषण्डलतासु च
सर्वतः पर्वताकाराः पतितास् ते सुरारयः । विस्फोटिताङ्गचरणा विभिन्नकरबाहवः
शाखालग्नान्त्रतन्त्रीका मुक्तरक्तवहच्छटाः । व्यस्ताङ्गखुरमूर्धानो निष्क्रान्तकुपितेक्षणाः
स्वायुधावलनावेगच्छिन्नकङ्कटहेतयः । दूरापातविपर्यस्तपतन्नानाविधांशुकाः
कण्ठलग्नशिरस्त्राणखटत्कारोग्रभीतयः । शिलाशितशिखाप्रोतदेहभागावलम्बिनः
शल्मल्यग्रदृढापातप्रोतकङ्कटशङ्कवः । सुशिलाफलकास्फालशतधाशीर्णमस्तकाः
सर्व एव सकलासु सशस्त्राः पातमात्रसमनन्तरम् एव । दिक्षु नाशम् अगमन्न् असुरेन्द्राः पांसवो ऽम्बुधिगताः पयसीव
जज्वाल ज्वलितः कोपी कल्पान्ताग्निर् इव ज्वलन् । शम्बरश् शमितानीको दामव्यालकटान् प्रति
शम्बरस्य भयाद् गत्वा पातालम् अथ सप्तमम् । दामव्यालकटास् तस्थुस् त्यक्त्वा दानवमण्डलम्
यमस्य किङ्करास् तत्र वेतालत्रासनक्षमाः । कुकुहा नाम तिष्ठन्ति नरकार्णवपालकाः
चिन्ता इव घनाकारा दुहितॄस् तु क्रमाद् ददुः
तैस् सार्धं नीतवन्तस् ते तत्र दामादयो ऽवधिम् । दशवर्षसहस्रान्ताम् आत्तानन्तकुवासनाः
इयं मे वनिता रम्या ममेयं प्रभुतेति च । कुकुहस्नेहबद्धानां कालस् तेषां व्यवर्तत
धर्मराजो ऽथ तं देशं कदाचित् समुपाययौ । महानरककार्याणां विचारार्थं यदृच्छया