गिरिवर्षणम् अम्बुवर्षणं विविधोग्रायुधवर्षणं तथा । विषमाशनिवर्षणं च ते शमम् अन्योऽन्यम् अथाग्निवर्षणम्
अनयन् नयमार्गकोविदा दलिताशेषगिरीन्द्रभित्तयः । ससृजुश् च समं समन्ततः ककुबङ्गेष्व् इव पुष्पवर्षणम्
देवासुरास् सरससङ्गरसम्भ्रमार्ता अन्योऽन्यम् अङ्गदलनाकुलहेतिहस्ताः । दामेन्द्रडिम्बदहनाः पृथुपीठपीठैः कीर्णासृजो नभसि बभ्रमुर् आक्षिपन्तः
छिन्नैश् शिरःकरभुजोरुभरैर् भ्रमद्भिर् आकाशकोशशलभैर् अशिवैस् तदानीम् । आसीज् जगज्जठरम् अभ्रवरैर् इवोग्रैर् आभास्करं स्थगितदिक्तटशैलजालम्
मत्तानलं क्षुब्धजलानिलार्कं दलद्वनं शीर्णसुरासुरौघम् । ब्रह्माण्डम् आखण्डितकुड्यकोणम् अकालकल्पान्तकरालम् आसीत्
भ्रान्तं भृशं भ्रमितदिक्तटम् अद्रिकूटैर् आत्मप्रमाणघनहेतिहतै रणद्भिः । कूजद्भिर् आर्तिभिर् इवोग्रगुहौघवातैः क्रन्दद्भिर् आपतितसिंहरवैर् अदभ्रैः
मायानदीजलधियोधघनाग्निदाहैर् वृक्षैस् सुरासुरशवैर् अचलैश् शिलौघैः । भ्रान्तं शिरस्त्रशरशक्तिगदास्त्रशस्त्रैर् वातावकीर्णवनपर्णवद् अम्बरान्तः
अद्रीन्द्रपक्षपरिमाणगमागमैकदुर्वारहस्ततलदारुणताडनैर् द्राक् । आसीत् पतद्भटशरीरगिरीन्द्रघातविभ्रष्टदेवपुरपूर्णजलार्णवौघः
घनघुङ्घुमपूरितान्तरिक्षा क्षतजाक्षालितभूधरान्तराला । रुधिरह्रदवृत्तिवर्तिनी वा भुवनाभोगगुहा तदाकुलाभूत्
अनन्तदिक्प्रसरविकारकारिणी क्षयोदयोन्मुखसुखदुःखदायिनी । रणक्रियासुरसुरसङ्घसङ्कटा तदाभवत् खलु सदृशीह संसृतेः
माययाथ विवादेन सन्धिना विग्रहेण च । पलायनेन धैर्येण च्छद्मनोपायनेन च
कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश् च भूरिशः । कृतस् स समरो देवैस् त्रिंशद् वर्षाणि पञ्च च
वर्षाणि दिवसान् मासान् दशाष्टौ पञ्च सप्त च । वर्षाणि पेतुर् वृक्षाग्निहेत्यम्ब्वशनिभूभृताम्
एतावता तु कालेन दृढाभ्यासाद् अहङ्कृतेः । दामादयो ऽहम् इत्य् आस्थां जगृहुर् ग्रस्तचेतसः
नैकट्यातिशयाद् यद्वद् दर्पणं बिम्बवद् भवेत् । अभ्यासातिशयात् तद्वत् ते ऽप्य् अहङ्कारितां गताः
यद्वद् दूरतरं वस्तु नादर्शे प्रतिबिम्बते । पदार्थवासना तद्वद् अनभ्यासान् न जायते
यदा दामादयो जाता जाताहङ्कारवासनाः । तदा मे जीवितं मे ऽर्थ इति दैन्यम् उपागमन्
भयवासनया ग्रस्ता मोहवासनया हताः । आशापाशनिबद्धास् ते ततः कृपणतां गताः
मुधैव ह्य् अनहङ्कारैर् ममत्वम् उपकल्पितम् । रज्ज्वां भुजङ्गत्वम् इव दामव्यालकटैस् ततः
आपादमस्तकं देहलतेयं भवतु स्थिरा । ममेति तृष्णाकृपणा दीनतां ते समाययुः
स्थिरो भवतु मे देहस् सुखायास्तु धनं मम । इति बद्धधियां तेषां धैर्यम् अन्तर्धिम् आययौ
अवासनत्वाद् वपुषाम् अनास्थत्वात् सुरद्विषाम् । याभूत् प्रहारपरता मार्जितैवाशु साभवत्
कथं स्थिरा जगत्य् अस्मिन् भवेम इति चिन्तया । वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः
तेषां त्व् अर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः । बभूव भवभावस्था भीषणा भवभागिनी
अथ तस्मिन् रणे भीत्या सापेक्षत्वम् उपाययुः । मत्तेभगणसंरब्धा वने हरिणका इव
मरिष्यामो मरिष्याम इति चिन्ताहताशयाः । मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे
शरीरैकार्थिनां तेषां भीतानां मरणाद् अति । अल्पसत्त्वतया मूर्ध्नि कृतम् आपत्प्रदं पदम्
अथ प्रम्लानसत्त्वास् ते हन्तुम् अग्रगतं भटम् । न शेकुर् इन्धनक्षीणा हविर् दग्धुम् इवाग्नयः
विबुधानां प्रहरतां सुदस्युत्वम् उपागताः । क्षतविक्षतसर्वाङ्गास् तस्थुस् सामान्यवद्भटाः
बहुनात्र किम् उक्तेन मरणाद् भीतचेतसः । दैत्या देवेषु वल्गत्सु दुद्रुवुस् समराजिरात्